पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/१३७

एतत् पृष्ठम् परिष्कृतम् अस्ति
४६०
[कारके सप्तमी
सिद्धान्तकौमुदीसहिता

फलिताः । ' क्तस्येन्विषयस्य कर्मण्युपसंख्यानम्’ (वा १४८५) । अधीती व्याकरणे । अधीतमनेनेति विग्रहे । इष्टादिभ्यश्च' (सू १८८८) इति कर्तरीनिः । 'साध्वसाधुप्रयोगे च' (वा १४८६) । साधुः कृष्णो मातरि असाधुर्मातुले । 'निमित्तात्कर्मयोगे' (वा १४९०) । निमित्तमिह फलम् । योगः संयोगसमवायात्मकः ।



शब्दस्य तु शब्देन कोऽन्योऽभिसम्बन्धो भवितुमर्हति अन्यदत उपश्लेषात् । “इको यणचि अच्युपश्लिष्टस्य' इति संहितायाम् इत्यत्रभाष्यं सङ्गच्छते। अच्युपश्लिष्टस्य अच्समीपोच्चारितस्येत्यर्थ इति कैयटः । अत एव मासेऽतिक्रान्ते दीयत इत्यत्र मास औपश्लेषिकमधिकरणमिति ‘तत्र च दयिते कार्ये भववत्' इत्यत्र भाष्यं सङ्गच्छते । अत एव च * तदस्मिन्नधिकम् इति दशान्ताङ्कः' इत्यत्र एकादश माषा अधिका अस्मिन् कार्षापणशते इत्यत्राधिकानां एकादशानां कथं शतमधिकरण मित्याक्षिप्य व्यापकवैषयिकाधिकरणासम्भवात् औपश्लेषिकमधिकरणं विज्ञायत इति भाष्ये सङ्ग च्छते । एवञ्च “कटे आस्ते' इत्यादौ औपश्लेषिकाधारोदाहरणम्मूलेोक्तमनुपपन्नमेव । उक्तभाष्य विरोधात् । एवञ्च “कटे आस्ते' इत्यादौ एकदेशव्याप्तया गौणमभिव्यापकाधारत्वम् । सर्वा वयवव्याप्तिकृताधिकरणत्वमेव मुख्यम्, वैषयिकमौपश्लेषिकञ्च गौणमित्यर्थस्य भाष्यसम्मतत्वात् । अत एव ‘स्वरितेनाधिकारः’ इति सूत्रे “साधकतमं करणम्' इति सूत्रे च भाष्ये “अधिकरण माचार्यः किं मन्यते ? यत्र कृत्स्रमाधारात्माव्याप्तो भवति, तर्हि इहैव सप्तमी स्यात्, “तिलेषु तैलं, दध्नि सर्पिः इति ‘गङ्गायां घोषः, कूपे गर्गकुलम्’ इत्यत्र तु न स्यात्। मुख्य एव कार्यसम्प्रत्यया दित्याशङ्कय स्वरितेनाधिकं कार्यं भवतीति वचनात् तमब्ग्रहणाञ्च न दोषः” इति समाहितम् । एवश्च ‘कटे आस्ते, गङ्गायां घोषः' इत्यादौ गौणमप्यधिकरणं सप्तम्यर्थ एव । यदि तु 'गङ्गायां घोषः' इत्यादी सामीपिकं अधिकरणत्वन्न विवक्ष्यते तदा लक्षणेति बोध्द्यम् । विस्तरस्तु शब्देन्दुशेखरे द्रष्टव्यः । क्तस्येन्विषयस्येति । न च “कृतपूर्वी कटम्' इत्यत्रापि सप्तमी शङ्कया । इन्प्रत्ययान्तः यः क्तप्रत्ययान्तः तस्य कर्मणांत्यर्थाभ्युपगमात् कर्तरीनिरिति । भावक्तान्तात् अधीतशब्दात् कर्तरीनिप्रत्यये कृते अधीतीत्यस्याधीतवा नित्यर्थः पर्यवस्यति । किम् अधीतवानिति कर्मविशेषजिज्ञासायां व्याकरणम् अध्द्ययने कर्मत्वे नान्वेति । तच्च व्याकरणकर्मत्वन्न केनाप्यभिहितमिति कृतपूर्वी कटम्, इतिवत् द्वितीयायां प्राप्ता यामनेन सप्तमीति भावः । साध्वसाधुप्रयोगे चेति ॥ सप्तमी वक्तव्येति शेषः । साधु

रिति ॥ हितकारीत्यर्थः । असाधुरिति । अहितकारीत्यर्थ । उभयत्र शेषषष्ठयपवादः । साधुनिपुणाभ्यामर्चायाम्' इत्येव सिद्धे इह साधुग्रहणमनर्चार्थम् । यथा साधुर्भूत्यो राजनि । इह तत्त्वकथने तात्पर्यम् । साधुनिपुणाभ्यामित्यत्र साधुग्रहणस्य प्रयोजनं वक्ष्यते । निमि त्तादिति ॥ कर्मयोगे हेतुवाचकाच्छब्दात् सप्तमी वाच्येत्यर्थः । ननु * जाडयेन बद्धः' इत्यत्रापि सप्तमी स्यादित्यत आह । निमित्तमिह फलमिति ॥ फलमेवेत्यर्थः । इष्टसाधनताज्ञानस्य प्रवर्तकतया फलस्यापि हेतुत्वं बोध्यम् । जन्यजनकत्वादिसम्बन्धं व्यावर्तयितुमाह । योगः