पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/१४५

पुटमेतत् सुपुष्टितम्
४६८
[अव्ययीभाव
सिद्धान्तकौमुदीसहिता

६४८ । प्राक्कडारात्समासः । (२-१-३)

'कडाराः कर्मधारये' (सू ७५१) इत्यतः प्राक्समास इत्यधिक्रियते ।

६४९ । सह सुपा । (२-१-४)

'सह' इति योगो विभज्यते । सुबन्तं समर्थेन सह समस्यते । योग विभागस्येष्टसिद्ध्यर्थत्वात्कतिपयतिङन्तोत्तरपदोऽयं समासः । स च छन्दस्येव ।


आदेशे सामानाधिकरण्यन्दृष्ट्वा अनुमानात् गन्तव्यं प्रकृतेरपि तद्भवति' इति “लटश्शतृशानचौ इति सूत्रभाष्ये समाहितम् । “सिद्धानां शब्दानामन्वाख्यानात् पचन्तन्देवदत्तं पश्येत्यादिप्रयोगदर्शनात् स्थानिनोऽपि लस्य प्रक्रियार्थे कल्पितस्य अप्रथमासामानाधिकरण्यमनुमीयते’ इति कैयट: । अत्र प्रक्रियार्थं कल्पितस्येत्युक्त्या अन्यस्यापि प्रक्रियार्थं कल्पितस्य बोधकत्वकल्पना सूचिता । अलौकिकविग्रहवाक्ये श्रूयमाणानाञ्च शब्दानां क्लृप्तशक्तित्यागे मानाभावात् । प्रत्येकशक्तिसहकृतया समुदायशक्त्या विशिष्टोपस्थितिः । ततश्च अयमेकार्थीभावः अजहत्स्वार्था वृत्तिरिष्यते । वृत्तिविषये पदानां प्रत्येकमनर्थकत्वमाश्रित्य जहत्स्वार्था वृत्तिस्तु नाश्रयितुं युक्ता । महाबाहुः सुपन्थाः इत्यादौ आत्वाद्यनापत्तेः । वृत्तौ महदादिशब्दानामनर्थकत्वात् । अर्थवद्ग्रहण सम्भवे अनर्थकस्य “आन्महतः' इत्यादौ ग्रहणायोगात् । तदुक्तम् । “जहत्स्वार्था तु तत्रैव यत्र रूढिर्विरोधिनी” इति । अवयवार्थविरुद्धो यत्र समुदायार्थस्तत्रैव सेति तदर्थः । यथा अश्व कर्णपाण्डवादौ । विस्तरस्तु शब्देन्दुशेखरे मञ्जूषायाञ्चानुसन्धेयः । समर्थः किम् । पश्य कृष्णं श्रितो राममित्रम् । अत्र कृष्णश्रितयोः परस्परान्वयाभावाद्विशिष्टैकार्थोपस्थित्यजनकत्वान्न सामर्थ्यम् । प्राक्कडारात् ॥ “ आकडारात्' इत्येव प्रागिति सिद्धे प्राग्ग्रहणमेकसंज्ञाधिकारेऽपि अव्ययीभावादिसंज्ञासमुच्चयार्थमिति भाष्ये स्पष्टम् । सम्पूर्वकस्य अस्यतेरेकीकरणात्मकस्संश्लेषोऽर्थः । समस्यते अनेकं पदमिति समासः । “अकर्तरि च कारके संज्ञायाम्' इति कर्मणि घञ् । अत एव मूले समस्यते इति वक्ष्यते । तथाच अन्वर्थेयं संज्ञा । सह सुपा ॥ 'सुबा मन्त्रिते' इत्यतः सुबित्यनुवर्तते । सुबन्तं सुबन्तेन सहोच्चारितं समाससज्ञं भवतीति फलति । एवं सति पर्यभूषयदित्यादौ सुबन्तस्य तिडन्तेन समासो न स्यात् । तत्राह । सहेति योगो विभज्यते इति । समाससंज्ञाया अन्वर्थत्वादेकस्याप्रसङ्गात् सुपेत्येतावतैव सहेति सिद्धे तद्ग्रहणं योगविभागार्थमिति भावः । सहेत्यत्र 'सुबामन्त्रिते' इत्यतस्सुबित्यनुवर्तते । प्रत्ययग्रहणपरिभाषया तदन्तग्रहणम् । 'समर्थः पदविधिः' इत्यतः समर्थग्रहणमनुवृत्तं तृतीयया विपरिणम्यते । तदाह । सुबन्तमित्यादिना । समस्यत इति ॥-एकीक्रियते प्रयोक्तृभिरित्यर्थः । समाससंज्ञां लभते इति यावत् । केचित्तु सुबन्तं कर्तृ समर्थेन समस्यते एकीभवतीत्यर्थः । कर्तरि लट् । 'उपसर्गादस्यत्यूह्योः' इत्यात्मनेपदम् । समासशब्दोऽपि कर्तरि बाहुळ काद्धजन्त एव, कर्मणि घञन्तो वा । तथा सति समस्यत इति कर्तरि तिङन्तं फलितार्थ कथनपरामित्याहुः । ननु घटो भवतीत्यत्र समासे घटभवतीत्यपि लोके प्रयोगस्यादित्यत आह । योगविभागस्येति ॥ कतिपयेति ॥ कतिपयानि तिङन्ताति उत्तरपदानि यस्येति