पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/१४७

एतत् पृष्ठम् परिष्कृतम् अस्ति
४७०
[अव्ययीभाव
सिद्धान्तकौमुदीसहिता

६५१ । अव्ययीभावः । (२-१-५)

अधिकारोऽयम् ।

६५२ । अव्ययं विभक्तिसमीपसमृद्धिव्यृद्धयर्थाभावात्यया-

सम्प्रतिशब्दप्रादुर्भावपश्चाद्यथानुपूर्व्ययौगपद्यसादृश्य-

सम्पतिसाकल्यान्तवचनेषु । (२-१-६)

'अव्ययम्' इति योगो विभज्यते । अव्ययं समर्थेन सह समस्यते । सोडव्ययीभावः ।

६५३ । प्रथमानिर्दिष्टं समास उपसर्जनम् । (१-२-४३)

समासशास्त्रे प्रथमानिर्दिष्टमुपसर्जनसंज्ञं स्यात् ।


अन्यथा अत्र इवशब्दस्यापि सुवन्तत्वाविशेषात् समासशास्त्रे प्रथमानिर्दिष्टत्वेनोपसर्जनत्वात् पूर्व निपातस्स्यात् । जीमूतस्येवेति । अत्र जीमूतशब्दस्य पूर्वपदस्य फिट्स्वरेणान्तोदात्तत्वमेव , नतु समासस्येत्यन्तोदात्तत्वम् । अत्र यथार्थत्वप्रयुक्तोऽव्ययीभावस्तु न । “तत्र तस्येव' इति निर्देशात् । क्वाचित्कश्चायं समासः । अत एव बहुचा एव पदपाठे अवगृह्णन्ति । याजुषास्तु भिन्ने एव पदे पठन्ति । “उद्वाहुरिव वामनः' इत्यादिव्यस्तप्रयोगाश्च सङ्गच्छन्ते । 'हरीतकी भुङ्क्ष्व राजन् मातेव हितकारिणीम्' इत्यत्र तु मातरमिवेति भवितव्यम् । “तिङ्समाना धिकरणे प्रथमा' * अभिहिते प्रथमा' इति वार्तिकस्वारस्येन प्रथमायाः कारकविभक्तित्वोक्ति परभाष्येण च क्रियायोग एव प्रथमायाः प्रवृत्त्या मातेति प्रथमायाः मातृसदृशीमित्यर्थे असाधु त्वादित्यास्तान्तावत् । अव्ययीभावः ॥ अधिकारोऽयमिति ॥ एकसंज्ञाधिकारेऽपि अनया सज्ञया समाससंज्ञा न बाध्यते इति *प्राकडारात्' इत्यत्रोक्तम् । अव्ययं विभक्ति ॥ विभक्तयर्थाद्यभावेऽप्यपदिशमित्यादि साधयितुमाह । अव्ययमिति ॥ योगो विभज्यत इति । अत्र “समर्थः पदविधिः' इत्यतस्समर्थग्रहणमनुवृत्तं तृतीयान्ततया विपरिणम्यते । समास इति अव्ययीभाव इति चाधिकृतम् । तदाह । अव्ययं समर्थेनेति ॥ सोऽव्ययी भाव इति ॥ स समासः अव्ययीभावसंज्ञस्यादित्यर्थः । तथाच दिशयोर्मध्द्यमित्यस्वपदविग्रहे मध्द्यार्थकस्य अपेत्यव्ययस्य दिशयोरित्यनेन समाससंज्ञा । तस्य समासस्याव्ययीभावसंज्ञा च सिद्धा । तथाच समासत्वात् प्रातिपदिकत्वे “सुपो धातु’ इति सुब्लुकि सति दिशा अप इति स्थितम् । अत्र उपसर्जनकार्ये वक्ष्यन्नुपसर्जनसज्ञामाह । प्रथमानिर्दिष्टम् ॥ ननु समासे प्रथमानिर्दिष्टमुपसर्जनम् इति व्याख्याने असम्भवः । समासे सति, “सुपो धातु' इति प्रथमायाः लुप्तत्वात् । समासे चिकीर्षिते प्रथमानिर्दिष्टम् इति व्याख्याने तु ‘कृष्णं श्रितः कृष्णश्रितः' इत्यत्र विग्रहे कृष्णशब्दस्य द्वितीयानिर्दिष्टत्वादुपसर्जनत्वन्न स्यात् । श्रितशब्दस्य प्रथमानिर्दिष्टत्वादुप सर्जनत्वं स्यात् । अतो व्याचष्टे । समासशास्त्रे इति । समासपदं समासविधायकशास्त्र