पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/१४९

एतत् पृष्ठम् परिष्कृतम् अस्ति
४७२
[अव्ययीभाव
सिद्धान्तकौमुदीसहिता

६५७ । नाव्ययीभावादतोऽम्त्वपञ्चम्याः । (२-४-८३)

अदन्तादव्ययीभावात्सुपो न लुक्, तस्य तु पञ्चमीं विना अमादेशश्च स्यात् । दिशयोर्मध्येऽपदिशम् । ' क्लीबाव्ययं त्वपदिशं दिशोर्मध्ये विदिक् स्त्रियाम्' इत्यमरः ।

६५८ । तृतीयासप्तम्योर्बहुळम् । (२-४-८४)

अदन्तादव्ययीभावात्तृतीयासप्तम्योर्बहुळमम्भावः स्यात् । अपदिशम्-- अपदिशेन । अपदिशम्-अपदिशे । बहुळग्रहणात् “सुमद्रम्’ * उन्मत्तगङ्गम् इत्यादौ सप्तम्याः नित्यमम्भाव । ' विभक्ति-' इत्यादेरयमर्थः । विभक्त्यर्था-


वाचरन्वा ब्राह्मणः कुमारीलयत्रातिप्रसङ्गात् । अव्ययीभावश्चेत्यव्ययत्वमिति । तथाच अव्ययीभावसमासादुत्पन्नानां सुपां 'अव्ययादाप्सुपः' इति लुक् स्यादिति शङ्कायामाह । ना व्ययीभावात् ॥ अम् तु अपञ्चम्या इति छेदः । नाव्ययीभावादतः, इत्येकं वाक्यम् ।

  • ण्यक्षत्रियार्ष' इत्यतो लुगित्यनुवर्तते । “अव्ययादाप्सुपः' इत्यतस्सुप इति च । अता

अव्ययीभावो विशेष्यते । तदन्तविधिः । तदाह । अदन्तादव्ययीभावात् सुपो न लुगिति ॥ अम् तु अपञ्चम्याः, इति वाक्यान्तरम् । पञ्चमीभिन्नस्य तु सुपः अमादेशस्स्यात् । पञ्चम्यास्तु अम् न भवतीति लभ्यते । तदाह । तस्य पञ्चमीं विना अमादेश इति ॥ अत्रापञ्चम्या इति प्रतिषेधोऽयम् अनन्तरत्वादम एव भवति, न तु लुङ्निषेधस्यापि । एवञ्चादन्तादव्ययीभावात् परस्य पञ्चमीभिन्नस्य सुपो न लुक्, किंत्वमादेशः। पञ्चम्यास्तु लुक् अमादेशश्च न भवतीति स्थितिः। सूत्रे एतत्सूचनार्थमेव तुशब्दः । ‘अव्ययीभावादतोऽम्त्वपञ्चम्याः’ इत्येवोत्तौ तु अदन्तादव्ययीभावात् परस्य पञ्चमीभिन्नस्य सुपः लुकोऽपवादः अमादेशस्यादित्येव लभ्येत । एवं सति पञ्चम्या अमोऽभावे “अव्ययादाप्सुपः' इति लुक् स्यात् । अतो लुङ् निषिध्यत इत्यास्तान्तावत् । अपदिशमिति ॥ पञ्चमीभिन्नविभक्तीनामुदाहरणम् । पञ्चम्यास्तु अपदिशादित्युदाहार्यम् । यद्यपि नपुंसकह्रस्वत्वेनाप्येतत् सिध्द्यति । “अव्ययीभावश्च' इति नपुसकत्वस्य वक्ष्यमाणत्वात् । तथापि चित्रगुः अतिखट्टः इत्याद्यर्थमावश्यकामिति “गोस्त्रियो इति सूत्रं इहापि न्याय्यत्वादुपन्यस्तम् । तदेवमव्ययमिति भाष्यादृष्टेनापि योगविभागेन अप दिशमिति रूपसाधनं वृद्धसम्मतमित्याह । क्लीबाव्ययमिति ॥ तृतीया ॥ “नाव्ययी भावात्’ इत्यस्मात् अत इत्यनुवर्तते । तदाह । अदन्तादिति ॥ अमादेशाभावे तु “नाव्ययी भावात्' इत्यलुक् । ननु वेति सिद्धे किं बहुळग्रहणेनेत्यत आह । बहुळग्रहणादिति ॥ तदेवमव्ययमिति योगं विभज्य व्याख्याय तदुत्तरखण्डं व्याख्यातुमुपक्रमते । विभक्तीत्यादे रयमर्थ इति ॥ विभक्तीत्यनेन विभक्त्यर्थो विवक्षितः । उच्यन्त इति वचनाः । कर्मणि ल्युट् । विभक्ति, समीप, समृद्धि, व्यृद्धि, अर्थीभाव, अत्य, असम्प्रति, शब्दप्रादुर्भाव, पश्चात्, यथा, आनुपूर्व्य, यौगपद्य, सादृश्य, सम्पत्ति, साकल्य, अन्त, एतेषां षोडशानां द्वन्द्वः।