पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/१५१

एतत् पृष्ठम् परिष्कृतम् अस्ति
४७४
[अव्ययीभाव
सिद्धान्तकौमुदीसहिता

समीपमुपकृष्णम् । समया ग्रामम्, निकषा लङ्काम्, आराद्वनादित्यत्र तु ना व्ययीभावः 'अभितः परितः-' (वा १४४२) ' अन्यारात्--' (सू ५९५) इति द्वितीयापञ्चम्योर्विधानसामर्थ्यात् । मद्राणां समृद्धिः सम्मद्रम् । यवनानां व्यद्धिर्दूर्यवनम् । विगता ऋद्धिर्व्यूंद्धिः । मक्षिकाणामभावो निर्मक्षिकम् ।


नाव्ययीभावात्’ इत्यमि पूर्वरूपमिति भावः । “गोस्त्रियोः' इति तु नात्र प्रसज्यते । स्त्रीप्रत्यया न्तत्वाभावात् । समीपे इति । समीपार्थकाव्ययस्य समासे उदाहरणं वक्ष्यत इत्यर्थः । कृष्णस्य समीपमिति ॥ लौकिकविग्रहवाक्यमेतत् । अत्र समस्यमानस्य उपशब्दस्य स्थाने समीपमिति प्रयुक्तम् । कृष्णस्य उप इति तु न विग्रहः । नित्यसमासत्वेनास्वपदविग्रहौ चित्यात् । ननु ‘समया ग्रामं, निकषा लङ्काम्, आराद्वनात्' इत्यत्रापि समयाद्यव्ययानां समीपा र्थकत्वात् अव्ययीभावस्यात् । ततश्च ‘ग्रामं समया, ग्रामं निकषा, वनादारात्’ इति च प्रयोगो न स्यात् । अव्ययीभावसमासे अव्ययस्य पूर्वनिपातनियमादित्यत आह । समयेति ॥ विधा नसामर्थ्यादिति ॥ ‘समया ग्रामं, निकषा लङ्काम्, आराद्वनात्' इत्यत्र शेषषष्ठयां सत्यामपि अव्ययीभावसमासे सति प्रातिपदिकावयवत्वात् उपपदविभक्त्योः द्वितीयापञ्चम्योः षष्ठया वा लुकि समासात् प्रातिपदिकार्थादिविवक्षायां सर्वासु विभक्तिषु जातासु यथायथं अम्भावे तद्विकल्पे च ‘समयाग्रामें, निकषा लङ्काम्, आराद्वनं, समया ग्रामेण, निकषालङ्केन, आराद्वनेन, समयाग्रामे निकषालङ्के, आराद्वने' इति स्यादेव । ततश्च द्वितीयापञ्चम्योर्विधिः व्यर्थस्यात् । षष्ठयैव गतार्थः त्वात् । नच समासात् पुनरुपपदविभक्ती द्वितीयापञ्चम्यौ शङ्कय । सकृत्प्रवृत्तयोः पुनः प्रवृत्त्य योगात् । वस्तुतस्तु मध्द्यार्थकसमयाशब्दयोगे द्वितीयाविधानस्य दूरार्थकाराच्छब्दयोगे पञ्चमी विधानस्य चरितार्थत्वात् इदमयुक्तम्। नचैवं सति ‘समया ग्रामम्’ इत्यादौ अव्ययीभावश्शङ्कयः। अब्भक्ष इत्यादौ इव विभक्तयर्थसमीपादिमात्राव्ययस्यैव ग्रहणात् । समयानिकषाराच्छ ब्दानाञ्चाधिकरणशक्तिप्रधानतया समीपमात्रवृत्तित्वाभावात् । ग्रामस्य समीपे इति हि । तेषामर्थः । उपशब्दस्तु तन्मात्रवाची । उपकृष्णं भक्ता इत्यत्र कृष्णसामीप्यवन्त इति बोधात्। मद्राणां समृद्धिरिति ॥ समित्यव्ययपर्यायः समृद्धिशब्दो विग्रहवाक्ये ज्ञेयः । एतत्सूत्र विहितसमासस्य नित्यतया अस्वपदविग्रहः । एवमग्रेऽपि ज्ञेयम् । सम्मद्रमिति ॥ सर्वत्र सुब्लुगादि पूर्ववत् ज्ञेयम् । समृद्धा मद्राः सम्मद्रा इत्यादौ तु नाव्ययीभावः । वचनग्रहण सामर्थ्येनाव्ययार्थप्राधान्य एव तत्प्रवृत्तेरिति भाष्ये स्पष्टम् । यवनानां व्यृद्धिः दुर्यवन मिति ॥ दुर्शब्दार्थको व्यृद्धिशब्दो विग्रहे ज्ञेयः । विगतेति ॥ अभावप्रतियोगिनीत्यर्थः । ऋद्धेरभावो व्यृद्धिरिति यावत् । नचार्थाभावेऽयमिति भ्रमितव्यम् । समस्यमानपदार्थभाव स्यैव विवक्षितत्वात् । इह च यवनाभावस्याप्रतीतेः । प्रतीतेः । तत् यवनीयवृध्द्यभावस्येव प्रतीतेः। तत् ध्वनयन् अर्थाभावे उदाहरति । मक्षिकाणामभावो निर्मक्षिकमिति ॥ विग्रहे निर्शब्द समानार्थकमभावपदमिति भावः । घटः पटो नेत्यत्र तु नाव्ययीभावः । अर्थग्रहणसामर्थ्येेना