पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/१५२

एतत् पृष्ठम् परिष्कृतम् अस्ति
समासप्रकरणम्]
४७५
बालमनोरमा ।

हिमस्यात्ययोऽतिहिमम् । अत्ययो ध्वंसः । निद्रा सम्प्रति न युज्यते इत्यति निद्रम् । हरिशब्दस्य प्रकाशः इतिहरि । विष्णोः पश्चादनुविष्णु । पश्चाच्छब्दस्य तु नायं समासः। “ततः पश्चात्स्रंस्यते' ध्वंस्यते इति (१-१-५७ सूत्रे) भाष्यप्र योगात् । योग्यतावीप्सापदार्थानतिवृत्तिसादृश्यानि यथार्थाः। । अनुरूपम्, रूपस्य योग्यमित्यर्थः । अर्थमर्थं प्रति प्रत्यर्थम् । प्रतिशब्दस्य वीप्सायां कर्मप्रवचनीयसंज्ञा विधानसामर्थ्यत्तद्योगे द्वितीयागर्भं वाक्यमपि । शक्तिमनतिक्रम्य यथाशक्ति ।


त्यन्ताभावस्यैव विवक्षितत्वात् । हिमस्यात्ययोऽतिहिममिति ॥ अतीत्यव्ययपर्यायः । अत्ययशब्दो विग्रहे ज्ञेयः । अर्थाभावेत्यनेन पौनरुक्तयन्निरस्यति । अत्ययो ध्वंसः इति ॥ अर्थाभावशब्देनात्यन्ताभाव एव विवक्षितः । तेन पटस्य प्रागभावः निष्पटमिति न भवतीति भावः । सूत्रे असम्प्रतीत्यस्य सम्प्रति न युज्यते इत्यर्थः । “एतर्हि सम्प्रतीदानीम्” इत्यमरः । युजिक्रियान्तभोवेण एकार्थीभावान्नञ्समासः । तदाह । निद्रासम्प्रति न युज्यते इति अतिनिद्रमिति ॥ अतीत्यव्ययस्यासम्प्रत्यर्थकस्य स्थाने सम्प्रति न युज्यते इति विग्रहवाक्यं ज्ञेयम् । सूत्रे शब्दप्रादुर्भाव इत्यनेन शब्दस्य प्रकाशनं विवक्षितम् । तदाह । हारशब्दस्य प्रकाशः इतिहरि इति ॥ इतीत्यव्ययं शब्दप्रकाशे वर्तते । तस्य हरिशब्देन स्वरूपपरेण षष्ठयन्तेन समास इति भावः । विष्णोः पश्चादनुविष्णु इति ॥ अनु इत्यव्ययं पश्चादर्थे वर्तते इत्यर्थः । भाष्येति ॥ “अचः परस्मिन्’ इति सूत्रभाष्ये इत्यर्थः । “ततः पश्चात् इत्यत्राव्ययीभावे तु पश्चाच्छब्दस्य पूर्वनिपातस्स्यादिति भावः । एतद्राष्यप्रयोगादेव एतत्सूत्रे तत्तदर्थबोधकपदघटकतया गृहीताव्ययेन तत्तदर्थकेनायं समासो नेति विज्ञायते । अत एव यथाऽसादृश्ये' इति सूत्रे सादृश्यसम्पत्तीति प्राप्नोतीत्येव । उक्तं भाष्ये । यथाशब्देन तु भवत्येव समासः । उत्तरसूत्रारम्भात् । सूत्रे यथाशब्देन तदर्थो लक्ष्यते । यथार्थे विद्यमानमव्ययं समस्यते इति लभ्यते इत्यभिप्रेत्य आह । योग्यतेति ॥ अनुरूपमिति ॥ अत्रानु इत्यव्ययं योग्यतायाम्, अतो यथार्थे वर्तते इति भावः । अर्थमर्थं प्रतीति ॥ लौकि कविग्रहवाक्यम् । अत्र वीप्सायां द्विर्वचनम् । 'लक्षणेत्थम्भूताख्यान' इति वीप्सायां द्योत्यायां प्रतेः कर्मप्रवचनीयत्वात् तद्योगे द्वितीया । समासे तु द्विर्वचनं न । समासेन वीप्सायाः द्योतित त्वात् इति ‘हयवरट्' इति सूत्रे कैयटः । प्रत्तिन्ना तस्योक्तत्वादिति तु तत्त्वम् । नन्वर्थमर्थं प्रतीति लौकिकविग्रहप्रदर्शनं न सम्भवति । नित्यसमासत्वादित्यत आह । प्रतिशब्दस्येति । साम र्थ्यदिति ॥ अव्ययीभावसमासस्य नित्यत्वे तु शेषष्ठयामपि अव्ययीभावे सुब्लुकि समासात् सर्वविभक्तीनामभावे तद्विकल्पे च प्रत्यर्थे प्रत्यर्थेनेत्यादिसिद्धे द्वितीयाफलकं प्रतेः कर्मप्रवचनीय त्वविधानमनर्थकं स्यादिति भावः । वस्तुतस्तु प्रतिस्थानमित्यादौ 'उपसर्गात्सुनोति' इति षत्वाभावसम्पादनेन कर्मप्रवचनीयत्वं चरितार्थमेव । “ अर्थमर्थं प्रति प्रत्यर्थम्’ इति “स्वं रूपम् इति सूत्रे भाष्ये ण्योगदर्शनात् इह वैकल्पिकसमास इति तत्त्वम् । शक्तिमनतिक्रम्य यथाशक्तीति ॥ “परावरयोगे च' इति क्ताप्रत्ययः । परावरत्वञ्च बौद्धम् । अत्र यथेत्यव्ययं