पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/१५३

एतत् पृष्ठम् परिष्कृतम् अस्ति
४७६
[अव्ययीभाव
सिद्धान्तकौमुदीसहिता

हरेः सादृश्यं सहरि । वक्ष्यमाणेन सहस्य सः । ज्येष्ठस्यानुपूर्व्येणेत्यनुज्येष्ठम् । चक्रेण युगपदिति विग्रहे

६६० । अव्ययीभावे चाकाले । (६-३-८१)

सहस्य सः स्याद्व्ययीभावे न तु काले । सचक्रम् । काले तु सहपूर्वा हम् । सदृशः सख्या ससखि । यथार्थत्वेनैव सिद्धे पुनः सादृश्यग्रहणं गुण भूतेऽपि सादृश्ये यथा स्यादित्येवमर्थम् । क्षत्राणां सम्पत्तिः सक्षत्रम् । ऋद्धे राधिक्यं समृद्धिः । अनुरूप आत्मभावः सम्पत्तिरिति भेदः । तृणमप्यपरि त्यज्य सतृणमत्ति । साकल्येनेत्यर्थः । न त्वत्र तृणभक्षणे तात्पर्यम् । अन्ते, अग्निग्रन्थपर्यन्तमधीते, साग्नि ।


पदार्थानतिक्रमे वर्तते इत्यर्थः , हरेस्सादृश्यं सहरीति । अत्र सहेत्यव्ययं सादृश्ये वर्तत इति भावः । वक्ष्यमाणेनेति ॥ * अव्ययीभावे चाकाले' इत्यनेन इत्यर्थः । ज्येष्ठस्या नुपूर्व्येणेत्यनुज्येष्टमिति ॥ कार्यं कृतमिति शेषः । तत्तद्विभक्तया विग्रह इति पक्षाभिप्राये णेदम् । पूर्वस्य क्रमेण इत्यनुपूर्वम्, ततस्स्वार्थे ष्यञ् । एतत्सूत्रगृहीताव्ययेन समासो नेत्यनु पदमेवोक्तम् । सूत्रगृहीतानुनाप्यनुज्येष्ठमिति समासः । अनुपूर्वेति निर्देशात् । सूत्रे युगपच्छ ब्दात् स्वार्थे ष्यञ्, यौगपद्यशब्दः । तत् ध्वनयन्नाह । चक्रेण युगपदिति ॥ युगपत्पर्या यस्य सहशब्दस्य चक्रेण इत्यनेन समासे कृते सतीत्यर्थः । युगपच्छब्देन तु न समासः । सूत्रे गृहीतत्वादिति भावः । अव्ययीभावे सहस्य सस्स्यादिति ॥ 'सहस्य सस्संज्ञा याम्' इत्यतः तदनुवृत्तेरिति भावः । न तु काले इति ॥ कालवाचके परे सहस्य सो नेत्यर्थः । चक्रेण युगपत्प्रयुक्तमित्यर्थः । सहपूर्वाह्नमिति । समीपादौ अव्ययीभावः । सूत्रे सादृश्येति स्वार्थे ष्यञ् । तद्ध्ववनयन्नाह । सदृशस्सख्या ससखीति ॥ सहेत्यव्ययं सदृशार्थकमिति भावः । गुणभूतेऽपीति । वचनग्रहणसामर्थ्येनाव्यार्थप्राधान्य एव समास प्रवृत्तेः । गुणीभूतसादृश्ये अप्राप्त्या तद्रहणमिति भावः । क्षत्राणां सम्पत्तिः सक्षत्रमिति । क्षत्रियाणामनुरूपं कर्मेत्यर्थः । सहेत्यव्ययमत्र सम्पत्तौ वर्तते इति भावः । सम्पत्तिसमृद्धि शब्दयोः पौनरुक्तयं परिहरति । ऋद्वेरिति ॥ धनधान्यादेरित्यर्थः । अनुरूप इति ॥ अनुरूपं योग्यः आत्मभावः स्वभावः, स्वोचितं कर्मेति यावत् । तृणमप्यपरित्यज्य सतृण मत्तीति ॥ “परावरयोगे च' इति क्वा । परावरत्वं बौद्धमेव । सहशब्दोऽत्रापरिवर्जने वर्तते । नतु तृणसहभावेऽपीति भावः । नन्वेवं सति साकल्ये कथमिदमुदाहरणं स्यादित्यत आह । साकल्येनेत्यर्थ इति ॥ पात्रे परिविष्टं सकलं भक्षयतीति यावत् । नत्वत्रेति ॥ तृणभक्षणस्याप्रसत्तेरिति भावः । अन्ते इति । उदाहरणं वक्ष्यत इति शेषः । सूत्रे अन्तशब्देन अन्तावयवसाहित्यं विवक्षितमित्यभिप्रेत्योदाहरति । अग्निग्रन्थपर्यन्तमधीते साग्नीति ॥ अग्निशब्देन अग्निचयनप्रतिपादको ग्रन्थो विवक्षितः । तेनान्तावयवेन सहित