पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/१५५

एतत् पृष्ठम् परिष्कृतम् अस्ति
समासप्रकरणम्]
४७८
बालमनोरमा ।

६६४ । अक्षशलाकासंख्याः परिणा । (२-१-१०)

द्यूतव्यवहारे पराजये एवायं समासः । अक्षेण विपरीतं वृत्तमक्षपरि । शलाकापरि । एकपरि ।

६६५ । विभाषा । (२-१-११)

अधिकारोऽयम् । एतत्सामर्थ्यादेव प्राचीनानां नित्यसमासत्वम् । सुप्सुपा' इति तु न नित्यसमासः । ' अव्ययम्' इत्यादिसमासविधानाज्ज्ञापकात् ।


अतस्तेन शाकस्येति सुबन्तस्य समासः । समासविधौ सुबन्तस्य प्रथमानिर्दिष्टत्वेन उपसर्जन त्वात्पूर्वनिपातः, नतु प्रतेः । तस्य समासविधौ तृतीयानिर्दिष्टत्वात् । वृक्षं प्रतीति ॥ अत्र प्रतेः मात्रार्थकत्वाभावात् न तेन समासः । नच “लक्षणेत्थम्' इति कर्मप्रवचनीयत्वविधान सामर्थ्यादेवात्र समासो न भविष्यति । सति समासे द्वितीयायाष्षष्ठया वा लुकि समासात्तद्विभ क्तयुत्पत्तेरिति वाच्यम् । *वृक्षं प्रति सिञ्चति' इत्यादौ “उपसर्गात् सुनोति' इति षत्वनिवृत्त्या कर्मप्रवचनीयस्य चरितार्थत्वादित्यन्यत्र विस्तरः । अक्षशालाका ॥ समस्यते सोऽव्ययीभाव इति शेषः । द्यूतव्यवहारे इति वार्तिकमिदम् । द्यूतं तावत् अक्षैश्शलाकाभिर्वा भवति यदि अक्षाश्शलाका वा कृत्स्नाः उत्ताना अवाञ्चो वा पतन्ति, तदा पातयिता जयति । अन्यथा पराजयतीति स्थितिः । अक्षेणेति । कर्तरि तृतीया । विपरीतं वृत्तमित्यत्र वृतेः र्भावे क्तः । विपरीतमिति क्रियाविशेषणम् । जये यथा परिवर्तितव्यं न तथा परिवृत्तमित्यर्थः । शलाकापरीति ॥ शलाकया विपरीतं वृत्तमिति भावः । एकपरीति ॥ एकेन विपरीतं वृत्तमित्यर्थः । एवं द्विपरि त्रिपरि इत्यादि । विभाषा ॥ अधिकारोऽयमिति ॥ ततश्च उत्तरत्र समासविधिषु एतदनुवर्तते इति लभ्यते । ननु “प्राकडारात् समासः' इत्यत ऊर्ध्वे सह सुपा' इत्यतः प्रागेव कुतो विभाषाधिकारो न कृत इत्यत आह । एतत्सामर्थ्यादिति । मध्ये विभाषाधिकारपाठसामर्थ्यादेवेतः प्राचीनानां नित्यसमासत्वं गम्यत इत्यर्थः । यद्यपीतः प्राचीनानां विकल्पे प्रमाणाभावादेव नित्यत्वं सिद्धम् । तथापि तस्यैव लिङ्गे दृढीकरणमिति बोध्यम् । नन्वेवं सति 'सुप्सुपा' इत्यपि नित्यसमासस्स्यात् । ततश्च पूर्वं भूतः इति लौकिक विग्रहवाक्यमनुपपन्नं स्यात् । “सुप्सुपा' इति विषये विस्पष्टं पटुः विस्पष्टपटुरिति विग्रहप्रदर्श नपरम् “ आकडारात्' इति सूत्रस्थभाष्यमपि विरुध्द्येत इत्यत आह । सुप्सुपांते तु न नित्यसमासः इति ॥ कुत इत्यत आह । अव्ययमित्यादीति ॥ “ आकडारात्' इत्येव सिद्धे 'प्राकडारात्' इति प्राग्ग्रहणं समाससंज्ञायाः अव्ययीभावादिसंज्ञासमावेशार्थम् । अन्यथा एकसंज्ञाधिकारात् पर्यायस्स्यादिति “आकडारात्’ इति सूत्रे भाष्ये स्थितम् । तत्र “अव्ययं विभक्ति' इत्याद्यव्ययीभावादिविधिषु “सुप्सुपा' इति समासमनूद्य नाव्ययीभावादिसज्ञा विधेयाः ।


१. अत्र १२४३ वार्तिकं मानम् ।