पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/१५९

एतत् पृष्ठम् परिष्कृतम् अस्ति
४८२
[अव्ययीभाव
सिद्धान्तकौमुदीसहिता

६७३ । सङ्खया वंश्येन । (२-१-१९)

वंशो द्विधा, विद्यया जन्मना च। तत्र भवो वंश्यः। तद्वाचिना सह सङ्ख-या वा समस्यते । द्वेौ मुनी वंश्यौ द्विमुनि व्याकरणस्य । त्रिमुनि । विद्यातद्वतामभेदविवक्षायां, त्रिमुनि व्याकरणम्। एकविंशतिभारद्वाजम् ।

६७४ । नदीभिश्च । (२-१-२० )

नदीभिः सङ्ख-या प्राग्वत् । * समाहारे चायमिष्यते' (वा १२४६) । सप्तगङ्गम् । द्वियमुनम् ।


मध्यादिति वाक्यं न स्यादित्यत आह । महाविभाषयेति ॥ विभाषत्यधिकृता महाविभाषा सर्वेषु समासविधिषु प्रायेण तस्यानुवृत्तेः महत्त्वं बोध्यम् । ननु अव्ययीभावसमासस्य षष्ठी समासापवादत्वेऽपि तस्य महाविभाषया वैकल्पिकत्वात् तदभावपक्षे उत्सर्गतः षष्ठीतत्पुरुषः प्रवर्तत एव । तस्यापि षष्ठीसमासस्य विभाषाधिकारस्थत्वेन वैकल्पिकत्वात् तदभावपक्षे वाक्यमपि सिध्द्यत्येव । तस्मादिह सूत्रे वाग्रहणं व्यर्थमेवेति चेदुच्यते । “यत्र उत्सर्गापवादौ महाविभाषया विकल्पितौ तत्रापवादेन मुक्ते पुनरुत्सर्गो न प्रवर्तते' इति ज्ञापनार्थमिह वाग्रहणम् । तेन पूर्व कायस्येत्यत्र एकदेशिसमासेन मुक्ते षष्ठीसमासो न भवति । दक्षस्यापत्यं दाक्षिरित्यत्र अत इञा मुक्त्ते ‘तस्यापत्यम्’ इत्यण् न भवति । किन्तु वाक्यमेवेति भाष्ये स्पष्टम् । सङ्खया वंश्येन । वंशो द्विधेति ॥ वंशस्सन्ततिः । “सन्ततिर्गोत्रजननकुलान्यभिजना न्वयौ । वशोऽन्ववायस्सन्तानः” इत्यमरः । विद्यया जन्मनेति । तत्र जन्मना वंशः पुत्रादिपरम्परेति प्रसिद्धमेव । विद्यया तु वंशः गुरुपरम्परा । “यस्माद्धर्मानाचिनोति स आचार्यः । तस्मै न द्रुह्येत् कदाचन । स हि विद्यातस्तं जनयति । तच्छ्रेष्ठं जन्म । शरीरमेव मातापितरौ जनयतः” इत्याद्यापस्तम्बस्मरणात् । तत्र भवो वंश्य इति ॥ दिगादित्वात् यत् । वा समस्यते इति ॥ सोऽव्ययीभावः इत्यपि बोध्यम्। द्वौ मुनी वंश्याविति ॥ विग्रहोऽयम् । मुनिशब्दो विद्यावंशवाचीति सूचनाय वंश्यावित्युक्तम् । द्विमुनि व्याकरणस्येति । द्वौ च तौ मुनी चेति विग्रहे 'विशेषणं विशेष्येण बहुळम्’ इति कर्मधारयं बाधित्वा अव्ययीभावः । अव्ययत्वात् सुब्लुक् । व्याकरणविद्यायाः प्रवर्तकौ द्वौ मुनी पाणिनिकात्यायनावित्यर्थ । त्रिमुनीति ॥ त्रयो मुनयः पाणिनिकात्यायनपतञ्जलय इति विग्रहः । नन्वेवं त्रिमुनि व्याक रणमिति सामानाधिकरण्यानुपपत्तिरित्यत आह । विद्यातद्वतामिति । यद्यपि बहुव्रीहि णाप्येतत् सिद्धम् । तथापि विभक्तयन्तरेषु रूपभेद इत्याहुः । अथ जन्मना वंश्यमुदाहरति । एकविंशतिभारद्वाजमिति । एकविंशतिभारद्वाजा इति कर्मधारयं बाधित्वा अव्ययी भावः । तत्र विग्रहवाक्ये भरद्वाजशब्दात् बिदादित्वादञ् । “यञ्ञोश्च' इति लुक् । समासे तु 'उपकादिभ्योऽन्यतरस्यामद्वन्द्वे' इति लुगभावः । “तृतीयासप्तम्योर्बहुळम्’ इति सूत्रे एकविंशतिभारद्वाजम्’ इति प्रयोगदर्शनेन उपकादिषु भारद्वाजशब्दस्य पाठानुमानात् । नदीभिश्च । प्राग्वदिति ॥ नदीभिस्सङ्खया समस्यते सोऽव्ययीभाव इत्यर्थः । समाहारे