पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/१६५

एतत् पृष्ठम् परिष्कृतम् अस्ति
४८८
[तत्पुरुष
सिद्धान्तकौमुदीसहिता

द्वितीयान्तं श्रितादिप्रकृतिकैः सुबन्तैः सह वा समस्यते स तत्पुरुषः । कृष्णं श्रितः कृष्णश्रितः । दुःखमतीतो दुःखातीतः इत्यादि । “ गम्यादीनामुप सङ्ख-यानम्' (वा १२४७) । ग्रामं गमी ग्रामगमी । अन्न बुभुक्षुः अन्नबुभुक्षुः ।

६८७ । स्वयं क्तेन । (२-१-२५)

'द्वितीया-' (सू ६८६) इति न सम्बध्यते अयोग्यत्वात् । स्वयंकृतस्या पत्यं स्वायंकृति ।


विपरिणतं प्रत्यग्रहणपरिभाषया सुबन्तपरम् । प्रत्ययग्रहणपरिभाषया च प्रत्ययग्रहणे प्रकृति प्रत्ययसमुदायग्रहणं लभ्यते । तथाच सुबन्तैरित्यस्य, सुप्तत्प्रकृतिकसमुदायैरित्यर्थः पर्यवस्यति। श्रितादिशब्दास्तु त्क्तप्रत्ययान्ता एव, नतु सुबन्ताः । तेषां सुव्घटितसमुदायात्मकत्वाभावा दित्यत आह । श्रितादिप्रकृतिकैस्सुबन्तैरिति ॥ श्रितादिशब्दाः श्रितादिप्रकृतिकेषु लाक्षणिका इति भावः । “गतिकारकोपपदानां कृद्रिस्सह समासवचनं प्राक्सुबुत्पत्तेः' इत्यस्य तु नायं विषयः । “कर्तृकरणे कृता ' “साधनं कृता' इतिवत् कारकविशेषानुपादानात् ” इति प्रौढमनोरमायां स्थितम् । नव श्रितादीनां समर्थविशेषणत्वात्तदन्तविधौ श्रितादिशब्दप्रकृतिकै रित्यर्थलाभात् परमः कृष्णश्रित इत्यत्रापि समासः स्यादिति वाच्यम् । समासप्रत्ययविधौ तदन्तविधिप्रतिषेधात् । कृष्णं श्रितः इति । श्रयतेर्गतिविशेषार्थकत्वात् 'गत्यर्थाकर्मक इति कर्तरि क्तः । “न लोक' इति कृद्योगषष्ठीनिषेधात् कर्मणि द्वितीया । समासविधौ द्वितीयेति प्रथमानिर्दिष्टत्वात् कृष्णशब्दस्य पूर्वनिपातः । दुःखातीत इति ॥ दुःखमतीत इति विग्रहः । 'इण् गतौ' । अतिपूर्वात् कर्तरि क्तः । इत्यादीति ॥ गते पतितो गर्त पतितः । “ पत्लृ गतौ' कर्तरि क्तः । तनिपतिदरिद्रातिभ्यस्सनो वेट्कत्वेन “यस्य विभाषा' इति इणिषेधप्राप्तावपि अत एव निपातनादिट् । ग्रामं गत: ग्रामगत: ग्राममत्यस्तः अतिक्रान्तः ग्रामात्यस्त: ग्रामं प्राप्तः ग्रामप्राप्तः । संशयमापन्नः संशयापन्नः । गम्यादीना मिति ॥ गम्यादिप्रकृतिकैस्सुबन्तैरपि द्वितीयान्तं समस्यते स तत्पुरुष इति यावत् । ग्रामं गमीति ॥ 'गमेरिनिः’ इति औणादिक इनिप्रत्ययः सच 'भविष्यति गम्यादयः’ इति वचनातू भविष्यति काले भवति । “ अकेनोः’ इति कृद्योगषष्ठीनिषेधात् कर्मणि द्वितीया । ग्रामं गमिष्य न्नित्यर्थः । अत्रं बुभुक्षुरिति ॥ भुजेस्सन् । “सनाशंसभिक्ष उः’ ‘न लोक' इति कृद्योग षष्ठीनिषेधात् कर्मणि द्वितीया । बुभुक्षुशब्दो गम्यादौ पठित इति भावः । स्वयं क्तेन ॥ क्तप्रत्ययान्तप्रकृतिकसुबन्तेन स्वयमित्यव्ययं समस्यते स तत्पुरुष इत्यर्थः। अयोग्यत्वा दिति ॥ स्वयमित्यव्ययस्य आत्मनेत्यर्थकस्य कर्तृशक्तिप्रधानतया तृतीयाया एवोचितत्वादिति तृतायाया भावः । स्वयमित्यव्ययस्य समासे असमासेऽपि को भेदः । असमासेऽपि “ अव्ययादाप्सुप इति लुकः प्रवृत्तेरित्यत आह । स्वयंकृतस्यापत्यं स्वायंकृतिरिति ॥ स्वयंकृतस्याप त्यमित्यर्थे “अत इञ्’ इति स्वयंकृतशब्दात् षष्ठयन्तादिञि तद्धितान्तप्रातिपदिकावयवत्वात् सुब्लुकि 'यस्येति च' इत्यकारलोपे स्वायंकृतिशब्दः। समासाभावे तु कृतशब्दस्यैव