पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/१६९

एतत् पृष्ठम् परिष्कृतम् अस्ति
४९२
[तत्पुरुष
सिद्धान्तकौमुदीसहिता

(प २९) । नखनिर्भिन्नः । * कर्तृकरणे' इति किम् । भिक्षाभिरुषितः हेतावेषा तृतीया । बहुळग्रहणं सर्वोपाधिव्यभिचारार्थम् । तेन * दात्रेण लून वान्’ इत्यादौ न । “कृता' किम् । काटैः पचतितराम् ।

६९५ । कृत्यैरधिकार्थवचने । (२-१-३३)

स्तुतिनिन्दाफलकमर्थवाद्वचनमधिकार्थवचनम् । तत्र कर्तरि करणे च तृतीया कृत्यैः सह प्राग्वत् । वातच्छेद्य तृणम् । काकपेया नदी ।

६९६ । अन्नेन व्यञ्जनम् । (२-१-३४)

संस्कारकद्रव्यवाचकं तृतीयान्तमन्नेन प्राग्वत् ।दध्ना ओदनो दध्यो दनः । इहान्तर्भूतोपसेकक्रियाद्वारा सामर्थ्यम् ।

६९७ । भक्ष्येण मिश्रीकरणम् । (२-१-३५)

गुडेन धानाः गुडधानाः । मिश्रणक्रियाद्वारा सामर्थ्यम् ।


समर्थविशेषणत्वेऽपि समासप्रत्ययविधौ तदन्तविधिप्रतिषेधान्नखनिर्भिन्न इत्यत्र न स्यादित्यत आह । कृङ्ग्रहणे इति ॥ परिभाषेयं “गतिरनन्तरः’ इति सूत्रे भाष्ये स्थिता । पचतितरा मिति ॥ अतिशयेन पचतीत्यर्थः । अतिशायने 'तिडश्च' इत्यनुवृत्तौ ‘द्विवचनविभज्य' इति तरप् । “किमेतिडव्ययघादामद्रव्यप्रकर्षे' इत्याम् । अत्र तद्धितान्तेन समासनिवृत्त्यर्थे कृद्रहण मिति भावः । कृत्येरधिकार्थवचने।। अर्थवादवचनमिति । असदुक्तिरित्यर्थः । वातच्छेद्यं तृणमिति ॥ वातेन च्छेद्यामिति विग्रहः। छेत्तुं योग्यमित्यर्थः । ‘ऋहलोर्ण्यत्’ इति कृत्यप्रत्ययः । कोमळत्वेन स्तुतिः । दुर्बलत्वेन निन्दा वा । काकपेयेति ॥ “अचो यत्' इति यत् 'ईद्यति' इति ईत्वं, गुणः । अत्र पूर्णाम्भस्त्वेन स्तुतिः। अल्पाम्भस्त्वेन निन्दा वा । अन्नेन व्यञ्जनम् ॥ व्यञ्जनशब्दं व्याचष्टे । संस्कारेतेि ॥ संस्क्रियते गुणविशेषवत्तया क्रियते अनेनेति संस्कारः, उपसेकादिसाधनं दध्यादि, तद्वाचकमित्यर्थः । अन्नेनेति ॥ अन्नम् ओदनः। तद्वाचकशब्देनेत्यर्थः । 'भिस्सा स्री भक्तमन्धोऽन्नम्’ इति कोशः । दध्ना ओदनो दध्यो दन इति ॥ नन्विह दध्नेति करणत्वस्य उपसिक्तपदापेक्षत्वात् असामर्थ्यात् कथमिह समास इत्यत आह । अन्तर्भूतेति ॥ उपसेकक्रियां विना दध्नः अन्नसंस्कारत्वानुपपत्त्या दध्ना इत्यस्य दधिकरणकोपसेके प्रवृत्तेर्नासामर्थ्यमिति भावः । तदुक्तं भाष्ये-–“युक्तार्थसम्प्रत्ययात् सामर्थ्यम् इति । भक्ष्येण मिश्रीकरणम् ॥ मिश्रीक्रियते खाद्यं द्रव्यमनेनेति मिश्रीकरणं, गुडादि । तद्वाचकं तृतीयान्तं भक्ष्यवाचकेन समस्यते इत्यर्थः । कठिनद्रव्यं खाद्यम् । पृथुकादि भक्ष्यं विवक्षितम् । गुडेन धाना गुडधाना इति ॥ “धाना भ्रष्टयवेऽस्त्रियाम्' इत्यमरः । गुडेन मिश्रा धाना इत्यर्थः । ननु गुडकरणत्वस्य मिश्रपदापेक्षत्वान्न सामर्थ्यमित्यत आह ।