पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/१७०

एतत् पृष्ठम् परिष्कृतम् अस्ति
समासप्रकरणम्]
४९३
बालमनोरमा ।


६९८ । चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः । (२-१-३६)

चतुर्थ्यन्तार्थाय यत्तद्वाचिनार्थादिभिश्च चतुर्थ्यन्तं वा प्राग्वत् । तदर्थेन प्रकृतिविकृतिभाव एव' । बलिरक्षितग्रहणाज्ज्ञापकात् । यूपाय दारु यूप दारु । नेह । रन्धनाय स्थाली । अश्वघासाद्यस्तु षष्ठीसमासाः । 'अर्थेन नित्यसमासो विशेष्यलिङ्गता चेति वक्तव्यम्' (वा १२७३-१२७४) । द्विजायायं द्विजार्थः सूपः । द्विजार्था यवागूः । द्विजार्थ पयः । भूतबलिः । गोहितम् । गोमुखम् । गोरक्षितम् ।


मिश्रेणेति । गुडेनेत्यस्य गुडकरणकमिश्रणे वृत्तेनसामर्थ्यमिति भावः । चतुर्थी ॥ प्रत्यय ग्रहणपरिभाषया चतुर्थीत्यनेन चतुर्थ्यन्तं गृह्यते । तदर्थ, अर्थ, बलि, हित, सुख, रक्षित एषां द्वन्द्वः । चतुर्थ्यन्तं एतैष्षड्भिस्समस्यते, स तत्पुरुषः इति फलितम् । तदर्थेत्यत्र तच्छब्देन चतुर्थ्यन्तार्थो विवक्षितः । तस्मै चतुर्थ्यन्तार्थाय इदन्तदर्थम् । “अर्थेन नित्यसमासः' इति वक्ष्यमाणस्समासः । चतुर्थ्यन्तवाच्यप्रयोजनकं यत् तत् तदर्थमिति पर्यवस्यति । तदाह । चतुर्थ्यन्तार्थायेत्यादिना । तदर्थेनेति ॥ तदर्थेन समास इति यदुक्तं तत्प्रकृतिविकृति भाव एव भवति, नत्वन्यत्रेत्यर्थः । कुत इत्यत आह । बलिरक्षितेति । याद तादर्थ्यमात्रे अयं समासः स्यात्, प्रकृतिविकृतिभाव एवेति नोच्येत, तर्हि बलिरक्षितग्रहणं व्यर्थ स्यात् । भूतभ्यो बलिः, गोभ्यो रक्षितं तृणमित्यत्रापि बलेर्भूतार्थतया रक्षिततृणस्य गवार्थतया च तदर्थेत्येव समाससिद्धेरिति भावः । यूपायेति ॥ अत्र चतुर्थ्यन्तवाच्ययूपार्थं दारु । अतो दारुशब्देन यूपायेत्यस्य समासः । यूपस्य दारुविकृतित्वाच्च । तक्षादिना अष्टाश्रीकृतवृक्षस्यैव यूपशब्दार्थत्वात् । अथ प्रकृतिविकृतिभावग्रहणस्य प्रयोजनमाह । नेहेति । रन्धना येति ॥ पाकायेत्यर्थ । " रध हिंसायाम्। इह पाको विवक्षितः । भावे ल्युट्, अनादशः ।

रधिजभोरचि' इति नुम् । । स्थाल्याश्चतुर्थ्यन्तवाच्यपाकार्थत्वेऽपि प्रकृतिविकृतिभाववि रहान्न समासः । ननु अश्वेभ्यो घासः अश्वघासः, धर्माय नियमः धर्मनियमः इत्यादौ कथं तदर्थेन समासः । प्रकृतिविकृतिभावविरहादित्यत आह । अश्वघासादयस्तु षष्ठीसमासः इति ॥ नचैवं रन्धनाय स्थालीत्यत्रापि षष्ठीसमासः स्यादेवेति प्रकृतिविकृतिभावनियमो व्यर्थ इति वाच्यम् । शाब्दबोधे सम्बन्धत्वतादर्थ्यत्वकृतवैलक्षण्येन उक्तनियमसाफल्यात् । एवञ्च रन्धनाय स्थालीति सम्बन्धत्वेन भाने षष्ठीसमास इष्ट एव । तादर्थ्यत्वेन भाने चतुर्थीसमास वारणाय तु प्रकृतिविकृतिभावनियमाश्रयणमित्यास्तान्तावत् । तदवन्तदर्थेयंशः प्रपश्चितः। अथेदानीमर्थशब्देन चतुर्थ्यन्तस्य समासे विशेषमाह । अर्थेनेति ॥ अर्थशब्देन चतुर्थ्यन्तस्य नित्यसमास इति वक्तव्यम् । अन्यथा विभाषाधिकाराद्विकल्पस्यात् । विशेष्यस्य प्रधानस्य यल्लिङ्गं तल्लिङ्गमित्यपि वक्तव्यम् । अन्यथा अर्थशब्दस्य नित्यं पुलिङ्गत्वात् “परवलिङ्गम्' इति सर्वत्र पुलिङ्गतैव स्यादित्यर्थः । अर्थशब्दोऽत्र वस्तुपरः । “ अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु