पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/१७२

एतत् पृष्ठम् परिष्कृतम् अस्ति
समासप्रकरणम्]
४९५
बालमनोरमा ।

स्तोकान्मुक्तः । अल्पान्मुक्तः । अन्तिकादागतः । अभ्याशादागतः । दूरादागतः । विप्रकृष्टादागतः । कृच्छ्रादागतः । * पञ्चम्याः स्तोकादिभ्यः' (सू ९५९) इत्यलुक् ।

७०२ । षष्ठी । (२-२-८)

राज्ञः पुरुषो राजपुरुषः ।

७०३ । याजकादिभिश्च । (२-२-९)

एभिः षष्ट-यन्तं समस्यते । * तृजकाभ्यां कर्तरि' (सू ७०९) इत्यस्य प्रतिप्रसवोऽयम् । ब्राह्मणयाजकः । देवपूजकः । “गुणात्तरेण तरलोपश्चेति वक्तव्यम्’ (वा ३८४१) । तरबन्तं यद्गुणवाचि तेन सह समासस्तरलोपश्च । न निर्धारणे' (सू ७०४) इति ' पूरणगुण-' (सू ७०५) इति च निषेधख्य प्रतिप्रसवोऽयम् । सर्वेषां श्वेततरः सर्वश्चेतः । सर्वेषां महत्तरः सर्वमहान् स्तोकान्तिकदूरेषु सम्बध्यते । अल्पान्मुक्तः इति ॥ स्तोकपर्यायस्योदाहरणम् । अभ्याशा दागतः इति ॥ अन्तिकपर्यायस्योदाहरणम् । विप्रकृष्टादागतः इति ॥ दूरशब्दपर्याय उदाहार्यः । 'करणे च स्तोक' इति पञ्चमी । दूरादागत इत्यत्र तु “दूरान्तिकार्थेभ्यः' इति पञ्चमी । अत्र 'सुपो धातु' इति लुकमाशङ्कय आह । पञ्चम्यास्तोकादिभ्य इत्यलु गिति ॥ इति पञ्चमीसमासः । षष्ठी ॥ षष्ठयन्तं सुबन्तन समस्यते, स तत्पुरुष इत्यर्थः । राजपुरुष इति ॥ राजन् अस् पुरुष स् इत्यलौकिकविग्रहवाक्ये समासे सति सुब्लुकि अन्तर्वर्तिनीं विभक्ति प्रत्ययलक्षणेनाश्रित्य नलोपः । नच लुका लुप्तत्वान्न प्रत्ययलक्षणमिति वाच्यम् । पदत्वस्य सुव्घटितसमुदायधर्मत्वेन तस्य अङ्गकार्यत्वाभावादिति भावः । याज कादिभिश्च ॥ ननु ‘षष्टी'इति पूर्वसूत्रेणैव सिद्धेकिमर्थमिदमित्यत आह । तृजकाभ्यामिति ॥ ब्राह्मणयाजकः इति ॥ ब्राह्मणस्य याजकः इति विग्रहः । यजतेर्ण्यन्तात् कर्तरि ल्युट् । अकादेशः । 'कर्तृकर्मणोः कृति' इति कर्मणि षष्ठी । देवपूजक इति ॥ देवानां पूजक इति विग्रहः । पूजकशब्दो याजकादिरिति भावः । भूभर्तेति तृजन्तस्योदाहार्यम् । भर्तृशब्दस्य याजकादित्वात् । गुणात्तरेणेति ॥ वार्तिकमिदम् । “सर्व गुण' इति सूत्रे भाष्ये स्थितम् । गुणवाचकात् विहितो यस्तरप् तदन्तेन षष्ठी वा समस्यते, तरपो लोपश्चेत्यर्थः । फलितमाह तरबन्तं यदिति ॥ ननु “षष्ठी' इति सूत्रेणैव सिद्धे किमर्थमिदमित्यत आह । ननिर्धाः रणे इति ॥ 'सर्व गुण' इति सूत्रे भाष्ये तु “पूरणगुण' इत्यस्यापवाद इत्येवोक्तम् । सर्व शब्दानुवृत्तेस्सर्वशब्द एवेदं वार्तिकमित्यभिप्रेत्योदाहरति । सर्वेषां श्वेततरस्सर्वश्वेतः इति ॥ बकानां गुण इति शेषः । द्रव्यान्तरवृत्तिश्वतरूपापेक्षया सर्वेषां बकानां श्वतगुणोऽयमधिक