पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/१७३

एतत् पृष्ठम् परिष्कृतम् अस्ति
४९६
[तत्पुरुष
सिद्धान्तकौमुदीसहिता

'कृद्योगा च षष्ठी समख्यत इति वाच्यम्' (वा १३१७) । इध्मस्य प्रव्रश्चन इध्मप्रव्रश्चनः ।

७०४ । न निर्धारणे । (२-२-१०)

निर्धारणे या षष्ठी सा न समख्यते । नृणां द्विजः श्रेष्ठः । ' प्रतिपद् विधाना षष्ठी न समख्यत इति वाच्यम्' (वा १३२०) । सर्पिषो ज्ञानम् ।

७०५ । पूरणगुणसुहितार्थसद्व्ययतव्यसमानाधिकरणेन । (२-२-११)

पूरणाद्यर्थैः सदादिभिश्ध षष्टी न समस्यते । पूरणे, सतां षष्ठः। गुणे काकस्य कार्ष्ण्यम् । ब्राह्मणस्य शुक्लाः । यदा प्रकरणादिना दन्ता इति विशेष्यं


इत्यर्थः । 'द्विवचनविभज्य' इति विभक्तव्योपपदे तरप् । अत्र सर्वेषामिति षष्ठयन्तस्य श्वेत तरशब्देन समासे तरपो लोपे सर्वश्वेत इति रूपम् । सर्वमहानिति । ईश्वर इति शेषः । पूर्ववत्तरप् । सर्वेषां महत्तरः इति विग्रहः । इतरसम्बन्धिमहत्त्वापेक्षया ईश्वरस्य महत्त्वमधिक मित्यर्थः । कृद्योगेति ॥ कृता योगो यस्या इति विग्रहः । “कर्तृकर्मणोः कृति' इति विहिता इति भाष्यम् । इध्मप्रव्रश्चन इति ॥ कुठार इति शेषः । प्रवृश्चयतेऽनेनेति प्रव्रश्चनः । करणे ल्युट् । इध्मानां प्रव्रश्चन इति विग्रहः । कर्मणि षष्ठी । 'प्रतिपदविधाना' इति वक्ष्य माणनिषेधस्यापवादोऽयम् । न निर्धारणे । नृणां द्विजश्श्रेष्ठः इति । अत्र नृणामिति षष्ठयन्तस्य द्विजशब्देन समासो न भवति । पुरुषाणामुत्तमः पुरुषोत्तमः इत्यत्र तु शेषषष्ठयेव न तु निर्धारणषष्ठी । यतो निर्धारणम्, यञ्च निर्धार्यते, यश्च निर्धारणहेतुः, एतत्त्रितयसन्निधान एव तस्याः प्रवृत्तेरिति कैयटः । गुणेन निषेधस्त्वनित्य इति तरप्सूत्रे कैयटः । केचितु “उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः” इति गीतावाक्यात् कर्मधारय एव । उत्तमशब्दस्य विशेषणत्वे ऽपि राजदन्तादित्वात् परनिपातः । प्रतिपदविधानेति ॥ पदं पदं प्रतीति वीप्सायामव्ययी भावः । प्रतिपदं विधानं यस्यास्सा प्रतिपदविधाना * षष्ठी शेषे' इति शेषलक्षणां षष्ठीं वर्जयित्वा सर्वा षष्ठी प्रतिपदविधानेति भाष्यम् । सर्पिषो ज्ञानमिति ॥ अत्र 'ज्ञोऽविदर्थस्य करणे ' इति विहितषष्ठयास्समासो न भवति । “न निर्धारणे' इति प्रत्याख्येयमेवेति भाष्ये स्पष्टमि त्यलम् । पूरणगुण ॥ पूरणगुणसुहितानि अर्थी येषान्ते पूरणगुणसुहितार्थाः, ते च सच्च अव्ययञ्च तव्यश्च समानाधिकरणश्चेति समाहारद्वन्द्वात् तृतीया । तदाह । पूरणाद्यर्थैरिति ॥ पूरणे इति। उदाहरणं वक्ष्यत इति शषः। सतां षष्ठ इति ॥ षण्णां पूरणःइत्यर्थे ‘तस्यपूरणे डट्, षट्कातिकतिपयचतुरां थुक्” नच कुम्भपूरणमित्यत्रापि स निषेधस्यादिति वाच्यम् । सोऽचि लोपे चेत् पादपूरणम्' इति निर्देशेन पूरणार्थकप्रत्ययस्यैव ग्रहणात् । “उञ्छषष्ठाङ्कित सैकतानि' इत्यत्र तु उञ्छात्मकष्षष्ठ इति व्याख्येयम् । गुण इति ॥ उदाहरणं वक्ष्यते