ज्ञातं तदेदमुदाहरणम् । “ अनित्योऽयं गुणेन निषेधः' । “तदशिष्यं संज्ञा प्रमाणत्वात्' (सू १२९५) इत्यादिनिर्देशात् । तेन “ अर्थगौरवम्’ “बुद्धि मान्द्यम्’ इत्यादि सिद्धम् । सुहितार्थास्तृप्त्यर्थाः । फलानां सुहितः । तृतीया समासस्तु स्यादेव । स्वरे विशेषः । सत्, द्विजस्य कुर्वन्-कुर्वाणो वा । किङ्कर
इत्यर्थः । प्रधानत्वेन वा उपसर्जनत्वेन वा गुणवाची गुणशब्दः । व्याख्यानात् । तदाह । काकस्य कार्ष्ण्यम्, ब्राह्मणस्य शुक्ला इति ॥ कृष्णशब्दातू ‘गुणवचनब्राह्मणादिभ्यः’ इति भावे ष्यञ् । शुक्लशब्दात्तु “गुणवचनेभ्यो मतुपो लुक्' इति लुक् । ननु दन्ता इति शेषपूरणेन ब्राह्मणस्य दन्ताश्शुक्लाः। इत्यर्थे ब्राह्मणशब्दस्य दन्तशब्देनैवान्वयात् शुक्लशब्देनान्वयाभावा दसामर्थ्यात् कथमिह समासप्रवृत्तिरित्यत आह । यदा प्रकरणादिनेति ॥ प्रकरणादर्थद्वे त्यर्थः । दन्तास्संयुक्ताश्शुभावहाः, न तु विरळा इत्यादिदन्तवर्णने प्रकृते यदा ब्राह्मणस्य शुक्ला इत्युच्यते, तदा प्रकरणात् दन्ता इति विशेष्योपास्थितिः । यदा वा कृष्णवर्णेषु कृष्णवस्रभूषणेषु प्रकृतेषु ब्राह्मणस्य शुक्ला इत्युच्यते, तदा अर्थात् दन्ता इति विशेष्योपस्थितिः, तत्र सामर्थ्यं सत्त्वात् समासे प्राप्ते निषेधः इत्यर्थः । अत्र “आकडारात्' इति सूत्रोक्तगुणवचनसंज्ञकानां तृतीया तत्कृत' इति सूत्रे प्रपञ्चितानां गुणानां न ग्रहणम् । अत्र गुणवचनशब्दाभावात् । किन्तु वोतो गुणवचनात्' इत्यत्र सूत्रभाष्ये प्रपञ्चितानां “सत्वे निविशतेऽपैति' इत्यादिलक्षण लक्षितगुणानामेव ग्रहणमिति बोध्द्यम् । एतेन “आकडारात्' इति सूत्रभाष्ये तद्धितान्तस्य गुण वचनत्वपर्युदासात् कथं कार्ष्ण्यादिशब्दानां गुणवाचित्वमिति निरस्तम् । अथ अर्थगौरवमित्यादौ षष्ठीसमासं साधयितुमाह । अनित्योऽयमिति । संज्ञाप्रमाणत्वादिति ॥ सज्ञायाः प्रमाणत्वं संज्ञाप्रमाणत्वं तस्मादिति विग्रहः । अत्र प्रमाणत्वस्य गुणत्वात् तेन षष्ठीसमास निषेधात्समासनिर्देशोऽनुपपन्नस्यात् । अतो गुणेन समासानिषेधः अनित्य इति विज्ञायत इत्यर्थः । इत्यादीति ॥ आदिना गुणकार्त्स्यमित्यादिसङ्गहः । वस्तुतस्तु अनित्यो गुणेन निषेध इत्य मर्थो भाष्ये न दृश्यते । नच कृष्णैकत्वमित्यादौ समासानुपपत्तिरिति वाच्यम् । 'पङ्क्तिविंशति' इति सूत्रे विंशत्यादिशब्दा भाववचना भवन्तीत्युक्ता गुणवाचित्वमास्थाय गवां विंशतिर्गवां सहस्रमित्यर्थे गोविंशतिर्गोसहस्रामित्यादिप्रयोगात् । अर्थगौरवमित्यादौ तु अर्थगतं गौरवमिति मद्यमपदलोपिसमासो बोध्द्य इति शब्देन्दुशेखरे प्रपञ्चितम् । सुहितपदं व्याचष्टे । सुहिता र्थास्तृप्तयर्था इति ॥ फलानां सुहित इति ॥ करणत्वस्याविवक्षायां सम्बन्धविवक्षायां षष्ठी । अर्थग्रहणात् फलानां तृप्तिरित्यादावपि न समासः । नपुंसकत्वे सति फलसुहितामिति कथं समास इत्यत आह । तृतायास्समासस्तु स्यादेवेति ॥ करणत्वांविवक्षायां तृतीया । कर्तृकरणे कृता बहुळम्’ इति समास इति भावः । तहिं सुहितयोगे षष्ठीसमासनिषेधो व्यर्थ इत्यत आह । स्वरे विशेष इति ॥ तृतीयासमासे 'तृतीया कर्मणि' इति पूर्वपदप्रकृति स्वरः । षष्ठीसमासे तु समासस्येत्यन्तोदात्तत्वमिति फलभेद इति भावः । सदिति ॥ सद्योगे षष्ठीसमासनिषेधः उदाह्रियत इत्यर्थः । “तौसत्' इति शतृशानचोस्सदिति संज्ञा वक्ष्यते । ननु