पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/१७५

एतत् पृष्ठम् परिष्कृतम् अस्ति
४९८
[तत्पुरुष
सिद्धान्तकौमुदीसहिता

इत्यर्थः । अव्ययम्, ब्राह्मणस्य कृत्वा । पूर्वोत्तरसाहचर्यात्कृद्व्ययमेव गृह्यते । तेन 'तदुपरि' इत्यादि सिद्धमिति रक्षितः । तव्यः, ब्राह्मणस्य कर्तव्यम् । तव्यता तु भवत्येव । स्वकर्तव्यम् । स्वरे भेद । समानाधिकरणे । तक्षकस्य सर्पस्य । विशेषणसमासस्त्विह बहुळग्रहणान्न। गोधेनोः' इत्यादिषु 'पोटा-


द्विजस्य कुर्वन्निति न कर्मणि षष्ठी । 'नलोक' इति निषेधात् । नापि द्विजस्य घटं कुर्वन्निति घटाद्यपेक्षया शेषष्ठी । तर्हि सापेक्षत्वेनासामर्थ्यात् कुर्वन्नित्यनेन समासाप्रवृत्तेरित्यत आह । किङ्करः इत्यर्थ इति । द्विजं परिचरन्नित्यर्थ इति यावत् । कृञ्धातुरिह परिचरणे वर्तत इति फलितम् । अव्ययमिति । उदाहरणं वक्ष्यत इति शेषः । पूर्वोत्तरेति । सत्तव्याभ्यां कृभ्द्यामित्यर्थः । “ अनेकमन्यपदार्थे' इति सूत्रभाष्ये सर्वपश्चादिति प्रयोगश्चेह लिङ्गम् । तव्य इति ॥ उदाहरणं वक्ष्यत इत्यर्थः । ब्राह्मणस्य कर्तव्यमिति ॥ “अहं कृत्यतृचश्च तव्यत्तव्यानीयरः' इति कृत्यस्तव्यः । ‘कृत्यानां कर्तरि वा' इति षष्ठी । तव्यता तु भवत्येवेति ॥ षष्ठीसमास इति शेषः । तकारानुबन्धरहितस्यैव तव्यस्य सूत्रे ग्रहणात्तव्यतो न ग्रहणमिति भावः । स्वकर्तव्यमिति ॥ स्वस्य कर्तव्यमिति विग्रहः । “कृत्यानां कर्तरि वा' इति षष्ठी । अत्र तव्यता योगात् समासनिषेधो नेति भावः । ननु तव्यत्प्रत्ययमाश्रित्य ब्राह्मणकर्तव्यमिति समाससम्भवात् किं तव्ययोगे तन्निषेधेनेत्यत आह । स्वरे भेद इति ॥ तव्यति कृते कृदुत्तरपदप्रकृतिस्वरेण प्रकृतिस्वरः, तव्ये तु नेति फलभेद इति भावः । समानाधिकरण इति ॥ 'समानाधिकरणेन षष्ठयन्तं न समस्यते ? इत्यत्रोदाहरणं वक्ष्यत इत्यर्थः । तक्षकस्य सर्पस्येति ॥ अत्र समासे सति पुनस्समासात् षष्ठयुत्पत्तौ तक्षकसर्प स्यति न भवतीत्यर्थः । ननु षष्ठीसमासस्य निषेधेऽपि “विशेषणं विशेष्येण बहुळम्' इति कर्म धारयसमासो दुर्वारः । अतः किं षष्ठीसमासनिषेधेनेत्यत आह । विशेषणसमासस्त्विति ॥ ननु षष्ठीसमासनिषेधसामर्थ्यादेवात्र कर्मधारयो न भविष्यति । तत् किमगतिकगत्या बहुळ ग्रहणाश्रयणेन नच कर्मधारयस्वर एव यथा स्यात्, न तु षष्ठीसमासस्वर इत्येतदर्थष्षष्ठी समासनिषेध इति वाच्यम् । उभयथापि ‘समासस्य’ इत्यन्तोदात्तत्वस्याविशिष्टत्वादिति चेन्मैवम् । कर्मधारये हि सति गमनस्य श्रेयस इत्यादौ * श्रज्यावमकन् पापवत्सु भावे ? इति पूर्वपदप्रकृति स्वरः । षष्ठीसमासे त्वन्तोदात्तत्वं स्यात् । तन्मा भूदित्येतदर्थे षष्ठीसमासनिषेध आवश्यक इति समासनिषेधस्य चरितार्थत्वान्न तस्य विशेषणसमासनिवृत्तिसामर्थ्यमिति बहुळग्रहणमाश्रि तम् । नचैवमपि तक्षकसर्प इति प्रथमान्तविग्रहे कर्मधारये सति तक्षकसर्पस्येति दुर्निवार मिति वाच्यम् । निषेधसामर्थ्यादेव प्रथमान्तकर्मधारयमाश्रित्य तक्षकसर्पस्येत्येवञ्जातीयकप्रयो गाभावोन्नयनात् । अथ समानाधिकरणेन निषेधे उदाहरणान्तरमाह । गोर्धेनोरिति ॥ गोर्धेनोरित्यादिषु षष्ठीसमासः प्राप्तः, सोऽप्यनेन वार्यत इत्यन्वयः । आदिना यूनः खलतेरित्यादि सङ्गहः । ननु षष्ठीसमास एवात्र न प्रसज्यते 'पोटायुवति, युवा खलति' इत्यादिविशेषविहित कर्मधारयेणात्र परस्यापि षष्ठीसमासस्य बाधितत्वादित्यत आह । पोटायुवतीत्यादीनां