पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/१७८

एतत् पृष्ठम् परिष्कृतम् अस्ति
समासप्रकरणम्]
५०१
बालमनोरमा ।

७११ । नित्यं क्रीडाजीविकयोः । (२-२-१७)

एतयोरर्थयोरकेन नित्यं षष्ठी समस्यते । उद्दालकपुष्पभञ्जिका । क्रीडाविशेषस्य संज्ञा । 'संज्ञायाम्' (सू ३२८६) इति भावे ण्वुलू । जीवि कायां दन्तलेखक: । तत्र क्रीडायां विकल्पे जीविकायां “ तृजकाभ्यां कर्तरि ' (सू ७०९) इति निषेधे प्राप्त वचनम् ।

७१२ । पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे । (२-२-१)

अवयविना सह पूर्वादयः समस्यन्ते । एकत्वसङ्खयाविशिष्टश्चेद्वयवी । षष्ठीसमासापवादः । पूर्व कायस्य पूर्वकायः । अपरकायः । ' एकदेशिना'


पात्तत्वात् कथमिहाकस्यैवानुवृत्तिः, न तु तृच इत्यत आह । नेहेति ॥ तद्योगे इति ॥ तृचः कर्तरि विहितत्वेन स्रष्टा कृष्ण इत्यादौ कर्तुः कृताभिहिततया तत्र कर्तरि षष्ठया एवा प्रसक्तया त्तसमासेनिषेधस्य शशश्रृङ्गेण कण्डूयनं न कर्तव्यमितिवदसम्भवपराहतत्वादित्यर्थः । तत्समासांनषेधस्य शशश्श्रृङ्गण कण्डूयनं न नित्यं क्रीडाजीविकयोः ॥ उद्दालकपुष्पभञ्जिकेति ॥ उद्दालकः श्लेष्मातकः तस्य पुष्पाणि तेषां भञ्जनमित्यस्वपदविग्रहः । संज्ञायामिति स्त्रियां क्तिन्’ इत्यधिकारे 'संज्ञायाम् इति भावे ण्वुल् इत्यर्थः । अत्र कर्मणि षष्ठयाः समासः । वस्तुतस्तु “स्त्रियां क्तिन्' इत्यधिकारे ‘धात्वर्थनिर्देशे ण्वुल्’ इति भाव ण्वुलियेव युक्तम् । ‘संज्ञायाम्’ इति तु अधिकरणार्थमिति कृदन्ते वक्ष्यते । तथासति उद्दालकपुष्पाणि भज्यन्ते यस्यां क्रीडायामिति विग्रहः । जीविकाया मिति । उदाहरणं वक्ष्यत इत्यर्थः । दन्तलेखक इति ॥ दन्तानां लेखनेन जीवतीत्यस्वपद विग्रहः । लिखेः कर्तरि ल्युट् । अनादेशः । जीविका समासगम्या । ननु * षष्ठी' इति सूत्रेणैव अत्र षष्ठीसमाससिद्धः किमर्थमिदमित्यत आह । तत्रेति । तत्र तस्मिन् उदाहरणद्वये क्रीडाबोधके उद्दालकपुष्पभञ्जिकेत्यत्र विभाषाधिकारात् षष्ठीसमासविकल्पे प्राप्ते जीविकाबोधके तु दन्तलेखक इत्यत्र “तृजकाभ्याम्' इति षष्ठीसमासनिषेधे प्राप्ते इदं सूत्रमारब्ध मित्यर्थः । पूर्वापर ॥“पूर्वपराधरोत्तरम्' इति समाहारद्वन्द्वात् प्रथमैकवचनम् । एकदेशशब्दः अवयवे रूढः । एकदेशः अस्यास्तीत्येकदेशी अवयवी, तेनेति लभ्यते । अधिकरणं द्रव्यम्। एकमधिकरणम्, एकाधिकरणम्, एकत्वविशिष्टद्रव्ये वर्तमानेन अवयविवाचकसुबन्तेन पूर्वापराध रोत्तरशब्दास्सुबन्तास्समस्यन्ते स तत्पुरुषः इत्यर्थः । फलितमाह । अवयविना सहे त्यादिना । ननु पूर्वश्चासौ कायश्चेत्येव कर्मधारयेणैव पूर्वकाय इत्यादि सिद्धम् । भक्त्या कायशब्दस्य कायावयववाचित्वेन सामानाधिकरण्योपपत्तेरित्यत आह । षष्ठीसमासापवाद इति ॥ पूर्व कायस्येति विग्रहे “षष्ठी' इति सूत्रेण समासे सति षष्ठयन्तस्य समासविधौ प्रथमानिर्दिष्टत्वात् पूर्वनिपातस्स्यात् । तन्निवृत्त्यर्थमिदं वचनमित्यर्थः । पूर्व कायस्य इति । अत्र पूर्व कायस्यति विग्रहवाक्यम् । अर्धमिति गम्यम् । विशेष्याभिप्रायान्नपुंसकत्वम् । ‘तस्य परमाम्रेडितम्' इति निर्देशादवयववृत्तिदिक्शब्दयोगे पञ्चम्यभावात् षष्ठी । पूर्वकाय इति ॥