पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/१७९

एतत् पृष्ठम् परिष्कृतम् अस्ति
५०२
[तत्पुरुष
सिद्धान्तकौमुदीसहिता

किम् । पूर्वं नाभेः कायस्य । ' एकाधिकरणे' किम् । पूर्वश्छात्राणाम् । “सर्वो ऽप्येकदेशोऽह्ना समस्यते । “सङ्ख-याविसाय-' (सू २३८) इति ज्ञापकात् । मध्याह्नः । सायाह्नः । केचित्तु ' सर्व एकदेशः कालेन समस्यते न त्वह्नैव । ज्ञापकस्य सामान्यापक्षत्वात् । तेन “मध्यरात्रः’, ‘ उपारता: पश्चिमरात्र गोचरात्' इत्यादि सिद्धमित्याहुः ।


पूर्वशब्दस्य समासविधौ प्रथमानिर्दिष्टत्वात् पूर्वनिपातः । 'परवलिङ्गम्' इति पुंस्त्वमिति भावः । 'यत्र उत्सर्गापवादौ महाविभाषया विकल्प्येते तत्रापवादेन मुक्ते पुनरुत्सर्गो न प्रवर्तत” इति पारे मध्ध्ये षष्ठया वा' इत्यत्रोक्तम् । ततश्च एकदेशिसमासाभावे षष्ठीसमासेो न भवति । अपरकाय इति । अपरं कायस्येति विग्रहः । अधरकायः । उत्तरकायः । एकदेशिना किमिति । एकद्रव्यवाचिना पूर्वादयस्समस्यन्ते इत्येवास्त्वित्यर्थः । पूर्वन्नाभेः कायस्ये ति । अत्र नाभेरिति पूर्वशब्देऽन्वेति । दिग्योगे पञ्चमी । नाभ्यपेक्षया यत् पूर्वमर्ध तत् कायावयवभूतमित्यर्थः । अत्र नाभिशब्दस्य नाभ्यपेक्षया पूर्वांशेऽन्वयः । अत्र पूर्वस्याशस्य नाभिरवधिरेव । नत्ववयविर्नि । अतो नाभिशब्देन पूर्वशब्दस्य समासो न भवतीत्यर्थः । पूर्वश्छा त्राणामिति । अत्र छात्रश्शब्दः छात्रसमुदायपरः । उद्भूतावयवसमुदायापेक्षं बहुवचनम् । अव यवावयविभावसम्बन्धे षष्ठी । छात्रसमुदायस्य पूर्वमर्धमित्यर्थः । अत्र छात्रसमुदायस्य एकत्वेऽपि उद्भदूतावयवकतया बहुत्वादेकत्वसंख्यावैशिष्टयाभावान्न समास इति भावः । ननु अह्नो मध्ध्ये मध्द्याह्न मित्यत्र कथमेकदेशिसमासः । मध्द्यशब्दस्य पूर्वादिष्वनन्तर्भावादित्यत आह । सर्वोऽप्येकदेश इति ॥ पूर्वादिभिन्नोऽपीत्यर्थः । ज्ञापकादिति ॥“तत्पुरुषस्य'इति ‘अहस्सर्वेकदेशसंख्यातपुण्याच' इति च प्रकृते ‘अह्नोऽह्न एतेभ्य:’ इत्येकदेशवाचकात् परस्य अह्नशब्दस्य अह्नादेशो विधीयते । ततश्चाह्नः साय इति विग्रहे अवयविवृतिना अहन्शब्देन षष्ठयन्तेन अवयववृतिसायशब्दस्य तत्पुरुषसमासे सति प्रथमानिर्दिष्टत्वात् सायशब्दस्य पूर्वनिपाते सति एकदेशवृतिसायशब्दात् परस्य अहन्शब्दस्य अह्नादेशे “ रात्राह्नाहाः पुंसि' इति पुंस्त्वे सायाह्न इति भवति । तस्मात् सप्तम्येक वचने परे “सङ्खयाविसाय' इति सायशब्दपूर्वकस्याहृशब्दस्य अहन्नादेशविकल्प उक्तः । सायाह्नि सायाहनि सायाह्ने, इत्युदाहरणम् । तत्र अह्नस्साय इति विग्रहे यदि सायशब्दस्य पूर्वाद्यप्रविष्ट्वादहन्शब्देन समासो न स्यात् । तदा ‘षष्ठी’ इति सूत्रेण अहन्शब्दस्य षष्ठयन्तस्य सायशब्देन समासे सति षष्ठयन्तस्यैव समासशास्त्रे प्रथमानिर्दिष्टत्वात् पूर्वनिपाते सति सायशब्दात् परस्याह्न शब्दस्य अहन्नादेशविधानन्निर्विषयं स्यात् । अतः 'सर्वोऽप्येकदेशोऽह्ना समस्यते' इति विज्ञायत इत्यर्थः । मध्याह्नः इति ॥ अहो मध्यमिति विग्रहे अयं समासः । “राजाहस्सखिभ्यष्टच् इति टच् । “अह्नोऽह्न एतेभ्यः' इत्यह्नादेशः । सायाह्नः इति । अह्नस्साय इति विग्रहः । मध्याह्नवत् । ननु 'सर्वोऽप्येकदेशः कालेन समस्यते' इत्ययुक्तम् । “सङ्खयाविसाय' इति सूत्रे अहृन्शब्दस्येवोपात्ततया तदितरकालवाचिना सर्वस्यैकदेशस्य समासज्ञापनानुपपत्तेरित्यत आह । ज्ञापकस्येति । अहन्शब्देन सह सायशब्दस्य तत्पुरुषसमासं सिद्धवत्कृत्य सायशब्दादह्नः