पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/१८

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
३३७
बालमनोरमा

वक्तव्यम्’ (वा २४०५) । हृशन्ताद्धातोर्विहितो यो वन् तदन्तात्तदन्ता न्ताञ्च प्रातिपदिकान्डीव्रश्च नेत्यर्थः “ औणृ अपनयने' वनिप् * विड्वनोः (सू २९८२) इत्यात्वम् । अवावा ब्राह्मणी । राजयुध्वा । * बहुव्रीहौ वा' (वा २४०७) । बहुधीवरी । बहुधीवा । पक्षे डाव्वक्ष्यते ।

४५७ । पादोऽन्यतरस्याम् । (४-१-८)

पाच्छब्दः कृतसमासान्तस्तदन्तात्प्रातिपदिकान्ङीव्वा स्यात् । द्विपदी- द्विपाद् ।


इति दीर्घ इति स्थितम् । शर्वरीति ॥ 'श्रू हिंसायाम्' 'आतो मनिन्क्वनिव्वनिपश्च अन्येभ्योऽपि दृश्यते' इति भाषायामपि वनिप् “सार्वधातुकार्धधातुकयोः इति गुणः,

  • वनो र च' इति ङीप् रश्च । वन्नन्तस्योदाहरणमेतत् । अतिशर्वरीति पाठे तु इदमपि

वन्नन्तान्तस्योदाहरणम् । सुत्वरी, धीवरी, शर्वरी, इति वन्नन्तस्योदाहरणानि । वनो नेति । पूर्ववत् वन्नन्तं वन्नन्तान्तञ्च गृह्यते । हृश इति पञ्चमी, तेन च धातोरित्यधि कृत्य विहितेन वना आक्षिप्तं धातोरित्येतत् विशेष्यते, तदन्ताविधिः, ङीबिति रश्चेति चानुवर्तते । तदाह । हशन्तादित्यादिना ॥ विहितविशेषणस्य प्रयोजनन्दर्शयन् वन्न न्तोदाहरणं दर्शयितुमाह । औणृ इत्यादिना ॥ वनिबिति । “अन्येभ्योऽपि दृश्यते इत्यनेति शेषः । अवावेति ॥ ओण् इत्यस्मात् वनिपि ‘विड़नोरनुनासिकस्यात्' इति णकारस्य आत्त्वे ओकारस्यावादेशे अवावन्शब्दः । स्त्रीत्वस्फोरणाय ब्राह्मणीति विशेष्यम् । अत्र ओण् इति धातोः हशन्तात् वन् विहितः, तदन्तत्वात् न डीब्रत्वे, किन्तु राजवद्रूपम् । हशन्तात् धातोः परो यो वन् इति व्याख्याने तु आत्वे सति वनो हशःपरत्वाभावात् निषेधो न स्यादिति भावः । वन्नन्तान्तमुदाहरति । राजयुध्वेति ॥ राजानं योधितवतीत्यर्थः । भूते कर्मणि क्विबित्यनुवर्तमाने 'राजनि युधिकृञः' इति कनिप्, कर्मीभूते राजनि उपपदे युधेः कृञश्च क्वनिबिति तदर्थः । उपपदसमासे सुब्लुक् राजयुध्वन्शब्दः । अत्र हशो विहितो वन्, तदन्तो युध्वन्शब्दः, तदन्तो राजयुध्वन्शब्दः, अतो न ङीब्रादेशावित्यर्थः । बहुव्रीहौ ॥ इदं वार्तिकम् वनो र च' इति विधिः बहुव्रीहौ वा स्यादित्यर्थः । “अनेो बहुव्रीहेः' इति निषेधस्यापवादः । बहुधीवरीति ॥ बहवो धीवानो यस्या इति विग्रहः । बहुधीवेति ॥ ङीबुत्वयोरभावे राजवद्रूपम् । नव बहूनि पर्वाणि यस्यास्सा बहुपर्वेत्यत्रापि ङीब्रत्वविकल्पस्यादिति वाच्यम् अलोपोऽनः' इति उपधालोपयोग्यस्थले एव एतद्वार्तिकस्य प्रवृत्तेः भाष्ये उक्तत्वात् । बहु पर्वन्शब्दे च “न संयोगाद्वमन्तातू' इति अल्लोपनिषेधात् । पक्षे इति ॥ ङीब्रत्वाभावपक्षे डाबुभाभ्याम्' इति डाप् वक्ष्यत इत्यर्थः । डपावितौ । बहुधीवन् आ इति स्थिते *टेः' इति टिलोपे बहुधीवाशब्दात् सोहल्ड्यादिलोपे बहुधीवा इति रमावद्रूपम् । ङीब्रत्वयोः डापश्चाभावे सौ बहुधीवेयेव रूपम् । ङीब्रत्वयोः बहुधीवरीति । औजसादिषु तु बहुधीवर्यौ-बहुधीवे बहुधीवानौ, इत्यादि रूपत्रयमिति भावः। पादो । कृतसमासान्तः इति ॥ अन्तलोपात्मके