७१४ । । द्वितीयतृतीयचतुर्थतुर्याण्यन्यतरस्याम् । (२-२-३)
एतान्येकदेशिना सह प्राग्वद्वा । द्वितीयं भिक्षाया द्वितीयभिक्षा । ' एकदेशिना' किम् । द्वितीयें भिक्षाया भिक्षुकस्य । अन्यतरस्याङ्ग्रहणसाम र्थ्यात् । 'पूरणगुण-' (सू ७०५) इति निषेधं बाधित्वा पक्षे षष्ठीसमासः । भिक्षाद्वितीयम् ।
७१५ । प्राप्तापन्ने च द्वितीयया । (२-२-४)
पक्षे 'द्वितीया श्रित-' (सू ६८६) इति समासः । प्राप्तो जीविकां प्राप्तजीविकः-जीविकाप्राप्तः । आपन्नजीविकः-जीविकापन्नः । इह सूत्रे ' द्वितीयया अ' इति छित्त्वा अकारोऽपि विधीयते । तेन जीविकां प्राप्ता स्त्री प्राप्तजीविका । आपन्नजीविका ।
द्वितीयतृतीय ॥ द्वितीयं भिक्षाया इति विग्रहोऽयम् । भिक्षाया द्वितीयमर्धमित्यर्थः । द्वितीयभिक्षेति । द्वितीयशब्दस्य प्रथमानिर्दिष्टत्वात् पूर्वनिपातः ।‘परवल्लिङ्गम्’ इति स्त्रीत्वम् । द्वितीयं भिक्षाया भिक्षुकस्येति ॥ भिक्षायाः द्वितीयं भागं भिक्षुकस्येत्यन्वयः । भिक्षाया इत्यवयवषष्टी द्वितीयमित्यत्रान्वेति । द्वितीयमित्येतत्तु भिक्षुकस्येत्यत्र कर्मत्वेनान्वेति । “न लोक इति निषेधान्न षष्ठी । अत्र द्वितीयमित्यस्य भिक्षुकस्येत्यनेन समासो न भवति । द्वितीयं प्रति भिक्षुकस्य एकदेशित्वाभावादित्यर्थः । ननु विभाषाधिकारेण विकल्पे सिद्धे अन्यतरस्याङ्ग्रहणं व्यर्थमित्यत आह । अन्यतरस्यामिति । अन्यतरस्याङ्ग्रहणसामर्थ्यात् पक्षे षष्ठीसमास इत्यन्वयः । अन्यथा षष्ठयपवादभूतेनानेन समासेन मुक्ते उत्सर्गो न प्रवर्तते । महाविभाषाधिकारे
- अपवादेन मुक्ते उत्सर्गो न प्रवर्तते” इति 'पारेमध्ये षष्ठया वा' इतिवाग्रहणेन ज्ञापितत्वादिति
भावः । ननु “पूरणगुण' इति निषेधात् कथमिह षष्ठीसमास इत्यत आह । पूरणगुणेति निषे धम्बाधित्वेति । अन्यथा अन्यतरस्याङ्ग्रहणवैयर्थ्यादिति भावः । इत्येकदेशिसमासनिरूपणम् । प्राप्तापन्ने च द्वितीयया ॥ प्राप्त, आपन्न एतौ शब्दैौ द्वितीयान्तेन समस्येते इत्यर्थः । चकारो द्वितीयासमाससमुच्चयार्थः । तदाह । पक्ष इति । वस्तुतस्तु ‘द्वितीया श्रित' इति सूत्रे
- प्राप्तापन्नशब्दाभ्यां द्वितीयायास्समासविधानमपि निरवकाशमेव इति तत्समुच्चयस्य सिद्ध
त्वात् चकारो न तत्समुच्चयार्थः” इति भाष्ये स्थितम् । तत्र प्रकृतसूत्रेण समासे प्राप्तापन्नयो पूर्वनिपातः । 'द्वितीया श्रित' इति समासे तु द्वितीयान्तस्य पूर्वनिपातः । तदाह । प्राप्त जीविक इत्यादि । अथ जीविकां प्राप्ता स्त्री जीविकामापन्ना स्त्रीति विग्रहे प्रकृतसूत्रेण समासे सति पूर्वपरयोरकारमन्तादेशं साधयितुमाह । इह सूत्रे इति । अकारोऽपीति ॥ प्राप्तापन्ने द्वितीयया समस्येते । तयोरकारोऽन्तादेशश्चेत्यर्थलाभादिति भावः । तेनेति ॥