पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/१८२

एतत् पृष्ठम् परिष्कृतम् अस्ति
समासप्रकरणम्]
५०५
बालमनोरमा ।

७१६ । कालाः परिमाणिना । (२-२-५)

परिच्छेद्यवाचिना सुबन्तेन सह कालाः समस्यन्ते । मासो जातस्य मासजातः । व्द्यहजातः । द्वयोः अरह्नोः समाहारो व्द्यहः । द्यहो जातस्य इति विग्रहे 'उत्तरपदेन परिमाणिना द्विगोः सिद्धये बहूनां तत्पुरुषस्योप सङ्खयानम्' (वा १२८८) । द्वे अहनी जातस्य यस्य स व्यह्नजातः । 'अह्नो ऽह्नः-' (७९०) इति वक्ष्यमाणोऽह्नादेशः । पूर्वत्र तु *न सङ्ख-यादेः समाहारे (सू ७९३) इति निषेधः ।


प्राप्तापन्नयोराकारस्यान्तस्य स्थाने अकारविधानेनेत्यर्थः । कालाः परिमाणिना । परेि माणिपदं व्याचष्टे । परिच्छेद्यवाचिनेति ॥ “कालाः' इति बहुवचनात् कालविशेषवाचका- इत्यर्थः । मासो जातस्य मासजात इति । अत्र विग्रहे मासः प्रधानम् । समासे तु जातः प्रधानम् । मासजातो दृश्यतामित्यादौ जातस्यैव दर्शनकर्मत्वादिप्रतीतेः । विशेषणविशेष्य भावतु एकार्थीभावसम्बन्धसाध्द्यः। एतदेवाभिप्रेत्य मूले क्वचित् पुस्तके मासो जातस्य यस्य सः इति पठितम् । तत्र विग्रहे जातस्येति परिच्छेद्यपरिच्छेदकभावे षष्ठी। जातपरिच्छेदको मास इति विग्रह वाक्ये बोधः । मासपरिच्छेद्यो जात इति समासाद्वोधः । तत्र मासस्तावत् जननं साक्षात् परिच्छि नत्ति । जननाश्रयन्तु देवदत्तं जननद्वारा परिच्छिनत्ति । तथाच मासपरिच्छेद्यजननाश्रयो देवदत्त इति समासाद्वोधः फलति । षष्ठीसमासापवादोऽयम् । षष्ठीसमासे तु जातमास इति स्यात् । नच मासो जातस्य यस्य सः मासजात इति बहुव्रीहिणैव एतात्सिद्धमिति वाच्यम्। समानाधिकरणानामेव वहुव्रीहिविधानात् । “निष्ठा' इति जातशब्दस्य पूर्वनिपातापत्तेश्च । “जातिकालसुखादिभ्यः परा निष्ठा वाच्या' इति जातशब्दस्य परनिपातस्तु न । सुखादावस्य पाठकल्पनायां प्रमाणा भावादित्यलम् । ह्यहो जातस्येति ॥ 'तद्धितार्थ' इति समाहारे द्विगुः । “राजाह्रस्सखि भ्यः' इति टच् । “रात्राह्नाहाः पुंसि' इति पुंस्त्वम् । उत्तरपदेनेति ॥ 'तद्धितार्थ' इति सूत्रभाष्ये इदं वार्तिकं पठितम् । तेन हि सूत्रेण उत्तरपदे परे दिक्सङ्खयोस्सुबन्तेन द्विगुसमासो विहितः । उत्तरशब्दश्च समासस्य चरमावयवे रूढः । ततश्च द्वे अहनी जातस्य यस्येति विग्रहे त्रयाणां समासे सति जातशब्दे उत्तरपदे सम्पन्ने पूर्वयोस्सुबन्तयोर्द्विगुसमासप्रवृत्तिर्वक्तव्या । सच समासत्रयाणां “कालाः परिमाणिना' इति पूर्वसूत्रेण न सम्भवति । 'सुप्सुपा' इत्येकत्वस्य विव क्षितत्वात् । अतः उत्तरपदेन परिमाणिना परिच्छेद्यवाचिना परनिमित्तभूतेन हेतुना द्विगोस्सिद्धये बहूनां तत्पुरुषस्योपसंख्यानं वक्तव्यमित्यर्थः । उत्तरपदभूतपरनिमित्तकद्विगुसिद्धये त्रिपदतत्पुरुषो वाच्य इति यावत् । 'सुप्सुपा' इत्येकत्वं विवक्षितमित्यत्र इदमेव लिङ्गम् । द्वे अहनी इति ॥ द्वे अहनी जातस्येति विग्रहे त्रयाणां समासे सुब्लुकि व्द्यहन् जात इति जातशब्दे उत्तरपदे परे द्वि अहन् इत्यनयोः “तद्धितार्थ' इति द्विगुसमासे 'राजाहस्सखिभ्यः' इति टचि “अह्नोऽह्न एतेभ्यः' इत्यह्नादेशे व्द्यह्नजात इति रूपमियर्थः । अत्र पूर्वयोर्द्विगुतत्पुरुषत्वाभावे टच्