पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/१८३

एतत् पृष्ठम् परिष्कृतम् अस्ति
५०६
[तत्पुरुष
सिद्धान्तकौमुदीसहिता

७१७ । सप्तमी शौण्डैः । (२-१-४०)

सप्तम्यन्तं शौण्डादिभिः प्राग्वद्वा । अक्षेषु शौण्डोऽक्षशौण्डः । अधि शब्दोऽत्र पठ्यते । '-अध्युत्तरपदात्--' (सू २०७९) इति स्वः । ईश्वराधीनः ।

७१८ । सिदृशुष्कपक्वबन्धैश्च । (२-१-४१)

एतैः सप्तम्यन्तं प्राग्वत् । सांकाश्यसिद्धः । आतपशुष्कः । स्थालीपक्वः । चक्रबन्धः।

७१९ । ध्वाङ्क्षेण क्षेपे । (२-१-४२)

ध्वाङ्क्षवाचिना सह सप्तम्यन्तं समस्यते निन्दायाम् । तीर्थे ध्वाङ्क्ष इव तीर्थध्वाङ्क्षः । तीर्थकाक इत्यर्थः ।

७२० । कृत्यैर्ऋणे । (२-१-४३)

सप्तम्यन्तं कृत्यप्रत्ययान्तैः सह प्राग्वदावश्यके । मासेदेयम् ऋणम् । ऋणग्रहणं नियोगोपलक्षणार्थम् । पूर्वाह्णेगेयं साम ।


अह्लादेशश्च न स्यातामिति भावः । ननु द्वयोरहोस्समाहारो व्यह् इति कथं पूर्वमुक्तम् । तत्राप्यह्णादेशप्रसङ्गादित्यत आह । पूर्वत्र त्विति । निषेध इति । अह्णादेशनिषेध इत्यर्थः । इति षष्ठीसमासनिरूपणम् । सप्तमी शौण्डैः ॥ शौण्डादिभिरिति बहुवचननिर्दे शात् गणपाठाच्च शौण्डशब्दस्तदादिपरः । अक्षेषु शौण्ड इति ॥ शौण्डः क्रियाकुशलः । वैषयिकाधिकरणत्वे सप्तमी । अक्षविषयकक्रीडाकुशल इत्यर्थः । अत्रेति ॥ शैौण्डादावित्यर्थः । ईश्वराधीन इति ॥ प्रपञ्च इति शेषः । ईश्वरे अधि इति विग्रहः “ अधिरीश्वरे' इत्यधेः कर्मप्रवचनीयत्वम् । “यस्मादधिकम्' इति सप्तमी । तदन्तस्य अधिना समासः । सुब्लुक् अषडक्ष' इति अद्धयुत्तरपदत्वात् खः । ईनादेशः । ईश्वराधीन इति रूपम् । सिद्धशुष्क ॥ सप्तमीत्यनुवर्तते । तदाह । एतैस्सप्तम्यन्तं प्राग्वदिति ॥ साङ्काश्यसिद्ध इति ॥ सङ्काशेन निर्वृत्तं नगरं साङ्काश्यम् । तत्र सिद्धः उत्पन्नो ज्ञातो वेत्यर्थः । आतपशुष्क इति ॥ आतपे शुष्क इति विग्रहः । स्थालीपक्व इति ॥ स्थाल्यां पक्वं इति विग्रहः । चक्र बन्ध इति ॥ चक्रे बन्ध इति विग्रहः । शौण्डादिगणे एतेषां पाठाभावात् पृथगुक्तिः । ध्वाङ्क्षेण क्षेपे ॥ ध्वाङ्क्षेत्यर्थग्रहणम् । व्याख्यानात् । तदाह '। ध्वाङ्क्षवाचिना सह सप्त म्यन्तं समस्यते इति ॥ क्षेपपदं व्याचष्टे । निन्दायामिति ॥ तीर्थे ध्वाङ्क्ष इव तीर्थध्वाङ्क्ष इति ॥ ध्वाङ्क्षः काकः स इव यो गुरुकुले चिरन्न तिष्ठति स इत्यर्थः । एवं हि निन्दा भवति । अर्थग्रहणस्य प्रयोजनमाह । तीर्थकाक इति ॥ कृत्यैर्ऋणे ॥ सप्तमी त्यनुवर्तते । कृत्यग्रहणेन प्रत्यग्रहणपरिभाषया कृल्यसंज्ञकप्रत्ययान्तग्रहणम् । “ऋणपदमावश्यकोप लक्षणम्'इति भाष्यम्। तदाह । सप्तम्यन्तं कृत्यप्रत्ययान्तैः सहप्राग्वदावश्यक इति ॥