पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/१८६

एतत् पृष्ठम् परिष्कृतम् अस्ति
समासप्रकरणम्]
५०९
बालमनोरमा ।

७२७ । दिक्संख्ये संज्ञायाम् । (२-१-५०)

'समानाधिकरणेन' इत्यापादपरिसमाप्रधिकारः। संज्ञायामेव' इति निय मार्थ सूत्रम् । पूर्वेषुकामशमी । सप्तर्षयः । नेह, उत्तरा वृक्षाः । पञ्च ब्राह्मणाः ।

७२८ । तद्धितार्थोत्तरपदसमाहारे च । (२-१-५१)

तद्धितार्थे विषये उत्तरपदे च परतः समाहारे च वाच्ये दिक्संख्ये प्राग्वद्रा । पूवस्या शालायां भवः पौर्वशालः । समासे कृते हिक्पूर्वपदादसं-


इति ॥ मीमांसामधीयते मीमांसकाः। क्रमादिभ्यो वुन्' पुराणाश्च ते मीमांसकाश्चेति विग्रहः। नवपाठका इत नवाश्च ते पाठकाश्चेति विग्रहः । अत्र पुराणसाहचर्यान्नव शब्दो नूतनवाच्यव गृह्यते । नतु सङ्खयाविशेषवाची केवलवैयाकरणा इति।। व्याकरणमधीयते विदन्ति वा वैयाकरणाः इति। * तदधीते तद्वेद' इत्यण्। न य्वाभ्याम्। इति वृद्धिनिषेध ऐजागमश्च । केवलाश्च ते वैयाकरणाश्चेति विग्रहः । दिक्संख्ये संज्ञायाम् अधिकार इति।। पूर्वकालंक' इतिसूत्रस्थं समानाधिकरणेनेत्यतत् आपादसमाप्तेरनुवर्तते इत्यर्थः। ततश्च दिक्सख्ये समानाधिकरणेन सुबन्तेन समस्येते स तत्पुरुष इत्यर्थः। विशेषणं विशेष्येण' इत्येव सिद्धे किमर्थमिदं वचनमित्यत आह । संज्ञायामेवेति नचैवं सति पञ्च गावो यस्य सः पञ्चगुरिति बहुव्रीहिर्न स्यात् । पञ्चानां गवां समाहारः पञ्च गवमित्यत्र “तद्धितार्थ ' इति समासश्च न स्यादिति वाच्यम् । “विशेषणं विशेष्येण' इति यदि दिक्संख्ययोस्समासः स्यात् तर्हि संज्ञायामेवेति नियमशरीराभ्युपगमात्। पूर्वसूत्रं पूर्वमासः, पूर्वसमुद्रः " इत्यादौ तु संज्ञात्वाभावेऽपि कालदेशवाचकत्वात् समासो भवत्येव। ननु “त्रिलोकनाथः पितृसद्मगोचरः' इति कथं काळिदासप्रयोगः । त्रिलोकशब्दस्य असंज्ञाः त्वात्। त्रयाणां लोकानां समाहार इति विग्रहे “तद्धितार्थ' इति द्विगुसमास तु “द्विगोः इति ङीप्प्रसङ्गः। अकारान्तोत्तरपदो द्विगुस्त्रियामिष्टः इति स्त्रीलिङ्गत्वात् । पात्रादित्वात् न स्त्रीत्वमित्यभ्युपगमे । “यदि त्रिलोकी गणनापरा स्यात्' इत्यादिप्रयोगाः न युज्येरन् । इति चेत्सत्यम् । लोकशब्दोऽत्र लोकसमुदायपरः। त्रयवयवो लोकस्त्रिलोक इति मध्द्यमपदलोपी समासः। द्विगोर्लुगनपत्त्ये' इति सूत्रे भाष्ये स्पष्टम् । षोडशपदार्थानामित्यत्र तु षोडशत्व सङ्खयाकाः पदार्था इति मध्द्यमपदलोपी समास इत्यलम् । पूवेषुकामशमीति ॥ पूर्वशब्दस्य इषुकामशमीशब्देन देशविशेषस्य संज्ञेयम् । सप्तर्षय इति ॥ मरीच्यत्रिप्रभृतीनां सप्तानामृषीणां संज्ञेयम् । नेहेति ॥ असंज्ञात्वादिति भाव तद्धितार्थ ॥ एकापि सप्तमी विषयभेदात् भिद्यते तत्र तद्धितार्थेत्यंशे वैषयिकाधारत्वे वर्तते । उत्तरपदेत्यंशे सामी पिकमाधारत्वमादाय परसप्तमी पर्यवस्यति । समाहाररांशे तु वाच्यतया आधारत्वे सप्तमी पूर्वसूत्रात् दिक्सङ्खये इत्यनुवर्तते। तदाह । तद्धितार्थे विषये इति । तद्धितार्थे भविष्यत्तद्धितजन्यज्ञानविषये सतीत्यर्थः । तद्धिते भविष्यतीति यावत्। प्राग्वदिति।। समानाधिकरणेन समस्यते स तत्पुरुषः इत्यर्थः । तद्धितार्थे दिक्समासमुदाहरति ५०९ " .