पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/१८९

एतत् पृष्ठम् परिष्कृतम् अस्ति
५१२
[तत्पुरुष
सिद्धान्तकौमुदीसहिता

७३२ । कुत्सितानि कुत्सनैः । (२-१-५३)

कुत्स्यमानानि कुत्सनैः सह प्राग्वत् । वैयाकरणखसूचिः । मीमांसकदुर्दुरूटः ।

७३३ । पापाणके कुत्सितैः । (२-१-५४)

पूर्वसूत्रापवादः । पापनापितः । अणककुलालः ।

७३४ । उपमानानि सामान्यवचनैः । (२-१-५५)

घन इव श्यामो घनश्यामः । इह ' पूर्वेपदं तत्सदृशे लाक्षणिकम्'इति सूचयितुं लौकिकविग्रहे इवशब्दः प्रयुज्यते । पूर्वनिपातनियमार्थ सूत्रम् ।


त्याहुः । स नपुंसकमिति ॥ समाहारे द्विगुर्द्वन्द्वश्च नपुंसकं स्यादिति तदर्थो मूले वक्ष्यते । इति द्विगुसमासः । कुत्सितानि कुत्सनैः ॥ वर्तमाने त्क्तः व्याख्यानात् । तदाह । कुत्स्यमानानीति ॥ कुत्सनैरिति करणे ल्युट् । प्राग्वदिति ॥ समानाधिकरणेन समस्य ते स तत्पुरुष इत्यर्थः । वैयाकरणखसूचिरिति ॥ वैयाकरणश्चासौ खसूचिश्चेति विग्रहः । यः प्रक्रियां पृष्टस्सन् प्रश्नं विस्मारयतुमाकाशन्दर्शयति पश्यति वा स एवमुच्यते । अत्र वैयाकरणः प्रक्रियाविस्मरणान्निन्द्यः । खसूचनं निन्दाहेतुः । मीमांसकदुर्दुरूट इति ॥ दुल उत्क्षेपे' चुरादिः । दुःपूर्वादौणादिकः कूटप्रत्ययः । 'बहुळमन्यत्रापि' इति णेर्लुक् । रलयोरभेदात् र: । यो मीमांसामधीत्यान्यथा जानानो दुराक्षेपं करोति स एवमुच्यते । विशे ष्यस्य पूर्वनिपातार्थ सूत्रम् । विशेषणसमासे तु विशेषणस्य पूर्वनिपातस्स्यातं । पापाणके कुत्सितैः ॥ पापशब्दः अणकशब्दश्च कुत्सितवाचकैस्समस्यते स तत्पुरुष इत्यर्थः । ननु विशेषणसमासेनैव सिद्धे किमर्थमिदामेत्यत आह । पूर्वसूत्रेति ॥ पापमस्यास्तीति मत्वर्थीयो अर्शआद्यच् । पापशब्दः पापवति वर्तते । अणकशब्दः कुरूपिणि वर्तते । ‘कुरूपकुत्सिता वद्यखेटगर्ह्याणकास्समाः' इत्यमरः । ततश्च पापाणकशब्दौ निन्दाहेतुभूतपापकुरूपात्मकप्रवृत्ति निमित्तौ कुत्सनाभिधायिनौ । ततश्चानयोः पूर्वसूत्रेण समासे परनिपातस्स्यात् । अतः पूर्व निपातनियमार्थमिदं सूत्रमित्यर्थः । पापनापित इति ॥ पापश्चासौ नापितश्चति विग्रहः । अणककुलाल इति ॥ अणकश्चासौ कुलालश्चेति विग्रहः । उपमानानि सामान्य वचनैः । उपमीयन्ते सदृशतया परिच्छिद्यन्ते यैस्तान्युपमानानि सादृश्यनिरूपकाणीत्यर्थः । सामान्यः उपमानोपमेयसाधारणधर्मः तमुक्तवन्तः शब्दाः सामान्यवचनाः। बाहुळकः कर्तरि ल्युट्। पूर्व सामान्यमुक्रा तद्वति द्रव्ये ये पर्यवस्यन्ति ते सामान्यवचना इति यावत् । तथाच सादृश्यनिरूपकशब्दापरपर्याया उपमानशब्दा: उपमानोपमेयसाधारणधर्मविशिष्टवाचिभिस्समा नापिकरणैस्समस्यन्ते स तत्पुरुष इत्यर्थः । घन इव श्यामो घनश्यामः इति ॥ नन्विह घन इव श्याम इति विग्रहे घनशब्दस्य श्यामशब्दस्य चैकार्थवृत्तित्वलक्षणसामानाधिकरण्या भावात् कथमिह समासः इवशब्दापेक्षत्वेनासामर्थ्याच्चेत्यत आह । इह पूर्वपदमिति ॥