पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/१९

एतत् पृष्ठम् परिष्कृतम् अस्ति
३४२
[स्त्रीप्रत्यय
सिद्धान्तकौमुदीसहिता

४५८ । टावृचि । (४-१-९)

ऋचि वाच्यायां पादन्ताट्टाप् स्यात् । द्विपदा ऋक् । एकपदा । “न षट् स्वस्रादिभ्यः' (सू ३०८) । पञ्च । चतस्रः । * पञ्च' इत्यत्र नलोपे कृतेऽपि 'ष्णान्ता षट्’ (सू ३६९) इति षट्संज्ञां प्रति ‘नलोपः सुप्स्वर-' (सू ३५३) इति नलोपस्यासिद्धत्वात् “न षट्स्वस्रादिभ्यः' (सू ३०८) इति न टाप् ।

४५९ । मनः । (४-१-११)


समासान्ते कृते परिशिष्टः पाद्शब्दः इह गृह्यत इत्यर्थः । तदन्तादिति ॥ पाच्छब्दान्तादि त्यर्थः । पाद इति पञ्चम्यन्तेन “प्रातिपदिकात्’ इत्यधिकृतस्य विशेषणादिति भावः । ङीब्वा स्यादिति ॥ 'ऋत्रेभ्यः' इत्यतः तदनुवृत्तेरिति भावः । द्विपदीति । द्वौ पादौ यस्या इति बहुव्रीहिः । 'सङ्खयासुपूर्वस्य’ इति पादशब्दान्तस्याकारस्य लोपः । ङीपि भत्वात् पादः पत्, द्विपदीति रूपम् । ङीबभावे तु । द्विपादिति ॥ टाबृचि ॥ पादन्तादिति ॥ प्राति पदिकादिति शेषः । 'पादेऽन्यतरस्याम्' इत्यतः अनुवृत्तेन पाच्छब्देन प्रातिपदिकादित्यधिकृतस्य विशेषणादिति भावः । 'पादोऽन्यतरस्याम्' इति ङीपोऽपवादोऽयम् ॥ द्विपदा ऋगिति ॥ द्वौ पादौ यस्या इति विग्रहः । एकपदेति । एकः पादो यस्या इति विग्रहः । उभयत्रापि टापि, पादः पत् । “डयाप्प्रातिपदिकात्' इति सूत्रभाष्ये तु पादशब्दसमानार्थकं पदशब्दमवः ष्टभ्य प्रत्याख्यातमेतत् । नच ऋचि वाच्यायां द्विपदी द्विपादिति प्रयोगव्यावृत्तये एतत्सूत्रमिति वाच्यम् । एतद्भाष्यप्रामाण्येन तथाविधप्रयोगस्यापीष्टत्वादित्यलम् । न षट्स्वस्रादिभ्यः इति ॥ इदमजन्ताधिकारे ऋकारान्तनिरूपणे व्याख्यातम् । पञ्चेति ॥ इहान्तरङ्गत्वात् नान्तलक्षणङीपि प्राप्ते षट्त्वान्निषिद्धे “षड्भ्यो लुक्' इति जश्शसोर्लुकि नलोप इति भावः । चतस्रः इति ॥ चतसृभावे सति ऋदन्तलक्षणङीब न, स्वस्रादित्वात् । ननु “न षट्स्वस्रादिभ्यः' इति ङीबेव प्रतिषिध्यताम्, किं टावनुवृत्त्या । नान्तत्वात् टापः प्रसत्तेरभावेन तन्निषेधवैयर्थ्यादित्यत आह । पञ्चेत्यत्रेति ॥ पञ्चेत्यत्र ‘न षट्स्वस्रादिभ्यः' इति न टाबित्यन्वयः । अदन्तलक्षणष्टाबिति शेषः । नान्तलक्षणङीपि प्रतिषिद्धे सति जश्शसोर्लुकि नलोपे कृते अदन्तत्वात् प्राप्तस्य टापः प्रतिषेधार्थमिह टाबनुवृत्तिरावश्यकीति यावत् । नच नलोपस्यासिद्धत्वात् टापः प्रसक्तिरेव नेति वाच्यम् । सुप्स्वरसंज्ञातुग्विधिषु टाविधेरनन्तर्भावेन तस्मिन् कर्तव्ये नलोपस्यासिद्धत्वा भावात् । ननु “न षट्स्वस्रादिभ्यः' इत्यत्र सत्यामपि टाबनुवृत्तौ कथमिह षट्संज्ञानिबन्धनस्त न्निषेधः, नलोपे कृते षट्संज्ञाविरहात् । नच टाब्निषेधे कर्तव्ये नलोपस्यासिद्धत्वं शङ्कयम् । टाब्नि षेधस्य सुप्स्वरसंज्ञातुग्विधिषु अनन्तर्भावादित्यत आह । नलोपे कृतेऽपीत्यादि असि द्वत्वादित्यन्तम् ॥ टाब्निषेधविधिरयं षट्संज्ञामपि विधत्ते । कार्यकालपक्षाश्रयणात् । ततश्च तस्मिन्कर्तव्ये नलोपस्यासिद्धत्वेन षट्संज्ञाया निर्बाधतया षट्संज्ञानिबन्धनष्टाप्प्रतिषेधोऽत्र निर्बाध इति भावः । वस्तुतस्तु नलोपस्यासिद्धत्वेऽपि भूतपूर्वषट्संज्ञामाश्रित्य टाब्निषेध उपपद्यते । अत एव