पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/२५

एतत् पृष्ठम् परिष्कृतम् अस्ति
३४८
[स्त्रीप्रत्यय
सिद्धान्तकौमुदीसहिता

इवर्णस्य पक्षेऽकारः । अन्यत्रेत्त्वबाधनार्थमकारस्यैव पक्षेऽकारः । सूतिका सूतका इत्यादि ।

४६५ । उदीचामातः स्थाने यकपूर्वायाः । (७-३-४६)

यकपूर्वस्य स्त्रीप्रत्ययाकारस्य याऽकारस्तस्य कात्पूर्वस्येद्वा स्या

दापि परे । “ केऽण: ' (सू ८३४) इति ह्रस्वः । आर्यका-आर्यिका । चट कका-चटकिका | * आत: ' किम् । साङ्काश्ये भवा साङ्काश्यिका । ' यक'-


इन्मध्द्यः ईन्मध्द्यश्च स्यात् । अत्वविधौ तु पुत्रका पुत्रिकेति अकारमध्द्यः इकारमध्यश्च फल तीति । ननु सूतकाशब्दे वृन्दारकाशब्दे च कात्पूर्वस्याकारस्य अकारविधिः किमर्थमित्यत आह । अन्यत्रेति । सूतकाशब्दे वृन्दारकाशब्दे च 'प्रत्ययस्थात्' इति नित्यभित्त्वे प्राप्त तद्विकल्पार्थ मित्यर्थः।'घूञ् प्राणिगर्भविमोचने' धात्वर्थेनोपसङ्ग्रहादकर्मक । ‘गत्यर्थाकर्मक’ इत्यादिना कर्तरि क्तः,टाप्, स्वार्थिकः कः, ‘केऽणः इति ह्रस्वः, पुनष्टाप् । अत्राकारस्य अत्त्वाभावपक्षे ‘प्रत्ययस्थात्’ इति इत्वम् । बृन्दमस्यास्तीति मत्वर्थे श्रृङ्गवृन्दाभ्यामारकन् इति आरकन्प्रत्ययः । अमरेण तावत् देवतावाची बृन्दारकशब्दः 'अमरा निर्जरा देवाः' इत्यादिना पुलिङ्गेष्वनुक्रान्तः । रूपि वाची मुख्यवाची च त्रिलिङ्गः “त्रिषूत्तरे” इत्युपक्रम्य “बृन्दारकौ रूपिमुख्यौ” इत्यमरः । स्त्रियां टाप् । अत्राप्यकारस्य अत्त्वाभावपक्षे इत्त्वम् । उदीचामात: ॥ ‘प्रत्ययस्थात्' इति सूत्रमनुवर्तते। यश्च कश्च यकौ तौ पूर्वो यस्या इति विग्रहः । यकेति वर्णग्रहणम्, अकारावुच्चार णार्थौं, यकपूर्वाया इत्येतत् आत इत्यस्य विशेषणम् । तेन आकारस्य स्त्रीवाचकत्वं लभ्यते । तदाह । यकपूर्वस्येत्यादिना ॥ “उदीचांग्रहणं विकल्पार्थमेव । नतु देशतो व्यवस्थार्थ म्” इति “न वेति विभाषा' इति सूत्रे भाष्ये स्पष्टम् । नच 'षष्ठी स्थानेयोगा' इत्येव सिद्धेरिह स्थानेग्रहणं व्यर्थमिति वाच्यम् । अनुवादे परिभाषाणामनुपस्थितेः । तत्र च इदमेव स्थाने ग्रहणं ज्ञापकम् । अत एव *वृद्धिर्यस्याचामादिस्तदृद्धम्' इत्यत्र यस्यादिः वृद्धिरित्यनुवादे इक्परिभाषा न प्रवर्तते । तत्प्रवृत्तौ तु शालाशब्दस्य वृद्धसंज्ञा न स्यात्, शकारादाकारस्य इक्स्थानिकत्वाभावात् । ततश्चशालीयइति ‘वृद्धाच्छ:’ इतिछः न स्यात्, औपगवीयः इत्यादावेव स्यादित्यलम् । केऽणः इति हृस्वः इति ॥ आर्यशब्दात् स्वार्थिके कप्रत्यये यकारादाका रस्य “केऽणः' इति हृस्व इत्यर्थः । पुनष्टापि आर्यकाशब्दः । तत्र यकारादकारस्य आकार स्थानिकत्वादित्वविकल्प । “प्रत्ययस्थात्' इति नित्यस्य इत्वस्यापवादः । तदाह । आर्यका-आर्यिकेति ॥ यकारपूर्वस्य उदाहरणमिदम् । अथ ककारपूर्वस्य उदाहरति । चटकका-चटकिकेति ॥ चटकाशब्दात् स्वार्थे कः, 'केऽणः’ इति ह्रस्वः, पुनष्टाप् इत्वविकल्प इति भावः । साङ्कश्यिकेति । सङ्काशेन निर्वृत्तं नगरं साङ्काश्यम् । “बुञ् छण्कटच्’ इत्यादिना सङ्काशादिभ्यो ण्यः, आदिवृद्धिः, * यस्येति च' इत्यकारलोपः । साङ्काश्यशब्दात् भवार्थे 'धन्वयोपधादुञ्’ अकादेशः, 'यस्येति च' इत्यकारलोपः, टाप्, प्रत्ययस्थात्' इति नित्यमित्त्वम् । इह यकारादकारस्य आकारस्थानिकत्वाभावादित्त्व