पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/२७

एतत् पृष्ठम् परिष्कृतम् अस्ति
३५०
[स्त्रीप्रत्यय
सिद्धान्तकौमुदीसहिता

सूत्रेण सिद्धम् । एषा द्वा एतयोस्तु सपूर्वयोर्नेत्त्वम् । अन्तर्वर्तिनीं विभक्तिमा श्रित्य * असुपः' इति प्रतिषेधात् । अनेषका । परमैषका । अद्वके । परमद्वके ।


तथा सति केवलानां भस्रादिशब्दानां ग्रहणव्यावृत्तिस्यादित्यपिशब्द इति व्याख्यातुमुचित मिति चेन्न । एवं सति निर्भस्त्रिकेत्याद्यसिद्धेः । तस्मात् “नञ्पूर्वाणामिति स्पष्टार्थमेव' इति भाष्ये स्पष्टम् । ननु भस्त्राशब्दस्य नित्यस्त्रीलिङ्गतया “अभाषितपुंस्काञ्च' इत्युत्तरसूत्रेणैव इत्त्वविकल्पसिद्धेरिह भस्त्राग्रहणं व्यर्थमित्यत आह । भस्राग्रहणमुपसर्जनार्थमिति निर्भस्त्रिका इत्युपसर्जनत्वे त्रिलिङ्गतया भाषितपुंस्कत्वेन तत्र “अभाषितपुंस्काञ्च' इत्यस्य अप्र वृत्तेरिति भावः । अन्यस्य त्विति । उपसर्जनादन्यस्य भस्त्राशब्दस्य तु परमभस्त्रका-परम भस्त्रिकेत्यत्र नित्यस्त्रीलिङ्गतया “ अभाषितपुंस्काच' इत्युत्तरसूत्रेणैव पाक्षिकमित्वं सिद्धम्। अत भस्त्रैषा' इत्यत्र भस्त्राग्रहणं तदर्थन्न भवतीत्यर्थः । ननु अनेषका, परमैषका, अद्वके परमट्टके, इत्यत्रापि पाक्षिकमेतदित्वं स्यादित्यत आह । एषा द्वेति । एषा द्वा एतयोस्तु पूर्व पदसहितयोरिदं पाक्षिकमित्वन्नेत्यर्थः । कुत इत्यत आह । अन्तर्वर्तिनीमिति । अत्राप्यसुप इत्यनुवर्तते । इह तु टाप् सुपः पर इति भावः । ननु टाबत्र सुपः परो न भवति । तथाहि एतच्छब्दस्य टेः प्राक् ‘अव्ययसर्वनान्नाम्' इति अकचि, एतकद्शब्दात् सौ “तदेोस्सस्सौ' इति तकारस्य सत्वे, “आदेशप्रत्यययोः' इति षत्वे, त्यदाद्यत्वे, पररूपे, स्त्रियामदन्तत्वात् टापि, सवर्णदीर्घे, हल्ङयादिलोपे, एषकेति रूपम् । ततः न एषकेति विग्रहे नञ्तत्पुरुषे कृते, “नलोपो नञः' इति नञो नकारस्य लोपे, “त स्मान्नुडचि' इति नुटि, अनेषकेति रूपम् । तथा परमा एषकेति कर्मधारये, परमैषकेति रूपम् । अत्र सौ परे, प्रवृत्तत्यदाद्यत्वसिद्ध मदन्तत्वमाश्रित्य प्रवृत्तष्टाप् कथं सुपः परस्यात् । नच नञ्तत्पुरुषे सोस्सामासिके लुकि सति, सत्वत्यदाद्यत्वटान्निवृत्तौ, समासात् पुनस्सौ, सत्वत्यदाद्यत्वटाप्सु कृतेषु, हल्ङयादिलोपे अनेषकेत्यत्र समासात् प्राक् प्रवृत्तात् सुपः पर एव टाबिति वाच्यम् । सामासिकलुगपेक्षया हल्डयादिलोपस्यैवान्तरङ्गत्वात् प्रवृत्तेः । ततश्च लुसेऽपि सौ प्रत्ययलक्षणसत्त्वेन निमित्तानपायात् पूर्वप्रवृत्तसत्वत्यदाद्यत्वटापां निवृत्तिर्नास्ति । सच टाप् न सुपः परः इति चेत्, अत्र बूमः । अन्तरङ्गानपि विधीन् बहिरङ्गो लुक् बाधते' इति परिभाषया “सुपो धातुप्रातिपदिकयोः' इति सुब्लुग्विषये अन्तरङ्गोऽपि हल्ङयादिलोपो न प्रवर्तते । अतः राजकुमारीत्यादौ श्रूयमाणे एव सुपि समासः प्रवर्तते । एवञ्च गोमान् प्रियो यस्य सः गोमत्प्रियः इत्यत्र गोमच्छब्दात् सोर्लुका लुप्तत्वात् ‘उगिदचाम्’ इति नुमुपधादीर्घादिकं न इति *प्रत्ययोत्तरपदयोश्च' इति सूत्रभाष्ये स्थितम् । “कृत्तद्धित' इति सूत्रे प्रौढमनोरमायां परिष्कृतमेतत् । एवञ्च नञ् सु, एतकद् सु इति स्थिते, नञ्तत्पुरुषे कृते, “अन्तरङ्गानपि' इति न्यायेन त्यदाद्यत्वप्रवृत्तेः प्रागेव सामासिक लुकि, अनेतकद्शब्दात् समासात्पुनस्सौ, सत्वे, त्यदाद्यत्वे, पररूपे, टापि, सवर्णदीर्घे, सोर्ह ल्डयादिलोपे, अनेषकेति भवति । अत्र सवर्णदीर्घप्रवृत्तेः प्राक्समासात्पूर्वोत्पन्नसुपः पर एव टाप् भवतीत्यास्तान्तावत् । अद्वके इति ॥ न सु, द्वकि औ, इति स्थिते, नञ्तत्पुरुषे “ अन्तरङ्गा नपि' इति न्यायेन त्यदाद्यत्वप्रवृत्तेः प्रागेवं समासे, औडो लुकि कृते, अद्वकिशब्दात् समासा