पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/३४

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
३५५
बालमनोरमा ।

स्तरुणतलुनानामुपसङ्ख-यानम्’ (वा २४२५) । स्त्रैणी । पौंस्री । शाक्तीकी । आढ्यङ्करणी । तरुणी-तलुनी ।

४७१ । यञ्श्च । (४-१-१६)

यञन्तात्स्रियां ङीप्स्यात् । अकारलोपे कृते ।


पिति कृति' इति तुक्, इत्वरशब्दात् ङीप्, 'यस्येति चव ', 'स्थेशभास' इति वरचो व्यावृत्तये ककारानुबन्धग्रहणम् । “विन्यस्तमङ्गळमहौषधिरीश्वरायाः” इति भारविः । “सैन मीश्वराप्रदह” इति वेदे क्वरपि, अन्यतरानुबन्धेनैव वरचो व्यावृत्तिसिद्धेः अनुबन्धद्वयो पादानं स्पष्टार्थम् । ईश्वरी इति तु ईश्वरशब्दात् ईश्वरस्य स्त्रीति पुंयोगे ङीष् । अथवा अश्र्नोतेराशुकर्मणि वरट् च' इति वरडन्तात् टित्वात् ङीप् । यद्वा “आतो मनिन्क्वनि ध्वनिपश्च' * अन्येभ्योऽपि दृश्यते' इति क्वनिपि वनिपि च * वनो र च' इति ङीब्रौ । ताच्छीलिके णेऽपीति ॥ तच्छीले भवस्ताच्छीलिकः । तच्छीलार्थक इति यावत् । तस्मिन् णप्रत्यये सति तदन्तादपि ङीप् भवतीत्यर्थः । ज्ञापकसिद्धमेतत् । तथाहि । शील मित्यनुवृत्तौ ‘छत्रादिभ्यो णः' इति विहिते णप्रत्यये अण्कार्यं भवति । “कार्मस्ताच्छील्ये इति ज्ञापकात् । कर्म शीलमस्येति विग्रहे छत्रादित्वात् णप्रत्यये “नस्तद्धिते' इति टिलोपे कार्म इति भवति । नतु “अन्’ इति सूत्रेण अण्यन् प्रकृत्या स्यादित्यर्थकेन प्रकृतिभाव इति तदर्थः । अत्र आणि विहितस्य प्रकृतिभावस्य णप्रत्यये परतः प्रतिषेधात् ताच्छीलिके णप्रत्यये अण्कार्य विज्ञायते । अतस्ताच्छीलिकणप्रत्ययान्तादण्कार्यं ङीप् भवतीति भावः । चौरीति ॥ चुरा शीलमस्या इति विग्रहः । छत्रादित्वात् णः, आदिवृद्धिः, 'यस्येति च चौरशब्दात् ङीपि, 'यस्येति च' । नञ्स्नञ् ॥ नञ्, स्रञ्, ईकक्, ख्युन्, तरुण, तलुन एतेषामपि ङीविधौ वचनं कर्तव्यमित्यर्थः । नञ्जादयश्चत्वारः प्रत्ययाः । अतस्तदन्तविधिः । स्त्रैणी, पौस्नीति ॥ * स्त्रीपुंसाभ्याम्' इति नञ्स्रञौ। तत्र स्त्रीशब्दान्नजि, आदिवृद्धिः, णत्वम्, ङीप्, “यस्येति च' पुंस्शब्दात् स्नञि आदिवृद्धिः, ङीप् , 'यस्येतिच'। शाक्तीकी ति ॥ शक्तिः आयुधविशेषः प्रहरणम् अस्या इति विग्रह । ‘शक्तियष्ठयोरीकक्', आदि वृद्धिः, ङीप्, यस्येति च । आाढ्यङ्करणीति ॥ अनाढ्यः आढ्यः क्रियते अनयेति विग्रहः । आढ्यसुभग' इत्यादिना ख्युन् । ‘युवोः' इत्यनादेशः । 'अरुर्द्विषित्' इति मुम् । णत्वं ङीप्, ‘यस्येति च' । तरुणी-तलुनीति ॥ यद्यप्यनयोः 'वयसि प्रथमे' इत्येव ङीप् सिद्ध तथापि गौरादिषु पाठातू ङीषि प्राप्त इदं वचनम् । गौरादिपाठात् हीषि स्वरे विशेष इति भावः । यञश्च ॥ यञ इति प्रत्ययत्वात्तदन्तग्रहणम् । 'ऋन्नेभ्यः' इत्यतो ङीबित्यनुवर्तते । स्त्रियामित्यधिकृतम् । तदाह । यञन्तादिति ॥ यद्यपि ‘टिड्ढाणञ्' इति पूर्वसूत्र एव यञ्ग्रहणं कर्तुमुचितम् । तथापि ‘प्राचां ष्फ तद्धितः' इत्युत्तरसूत्रे, यञ एवानुवृत्तये पृथक् सूत्रमिति भावः । अकारलोपे कृते इति ॥ गार्गीत्युदाहरणं वक्ष्यति । गर्गस्यापत्यं स्त्री इत्यर्थे ‘गर्गादिभ्यो यञ्' इति यञ्, आदिवृद्धिः, 'यस्येति च' इति गकारादकारस्य लोपः