पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/३७

एतत् पृष्ठम् परिष्कृतम् अस्ति
३६०
[स्त्रीप्रत्यय
सिद्धान्तकौमुदीसहिता

४७७ । कौरव्यमाण्डूकाभ्यां च । (४-१-१९)

आभ्यां ष्फः स्यात् । क्रमेण टाव्डीषोरपवादः ।“कुर्वादिभ्यो ण्यः'(सू ११७५) । कोरव्यायणी ढक्च मण्डूकात्' (सू ११२२) इत्यण् । माण्डू कायनी । * आसुरेरुपसङ्खयानम्' (वा २४३३) आसुरायणी ।

४७८ । वयसि प्रथमे । (४-१-२०)

प्रथमवयोवाचिनोऽदन्तात्स्त्रियां ङीप्स्यात् । कुमारी । वयस्यचरम इति वाच्यम्' (वा २४३५) । वधूटी । चिरण्टी । वधूटचिरण्टशब्दैौ


षित्वात् ङीषिति भाव:। कात्यायनीति पूर्ववत् प्रक्रिया बोध्या। कौरव्यमाण्डूका भ्याश्व आभ्यामिति । कौरव्यमाण्डूकाभ्यामित्यर्थः । क्रमेणेति।।कौरव्यशब्दात् टापः माण्डूकशब्दात् ङीषश्चापवाद इत्यर्थः। कौरव्यशव्दस्य यञ्जन्तत्वात् माण्डूक्यशब्दस्य अण न्तत्वाच्च । ङीपोऽपवाद इत्युचितमिति भ्रमं वारयितुमाह । कुर्वादिभ्य इत्यादिना कौरव्यायणीति ॥ कुरोरपत्यं स्री इति विग्रहः। कुर्वादिभ्यो ण्यः' इति ण्यः। णकार इत् ओर्गुणः' आदिवृद्धिः, “गोत्रञ्च वरणैस्सह' इति जातित्वेऽपि योपधत्वात् “जातेतरस्त्रीविषयातू इति डीषभावे टाप् प्राप्तः । तं बाधित्वा ष्फः, ष इत्, आयन् “यस्येति च इत्यकारलोपः । षि त्वात् डीष् । 'यस्येति च' इति भावः । माण्डूकायनीति । मण्डूको नाम ऋषिः तस्यापत्यं स्री इति विग्रहः 'ढक् चव मण्डूकात्' इत्यणु, आदिवृद्धिः 'यस्यति च' 'गोत्रञ्च चरणैस्सह' इति जातित्वात् डीष् प्राप्तः, तं बाधित्वा रुफः, ष इत्, आयन्, ‘यस्येति च' षित्वात् डीष् यस्येति च' इति भावः । टाब्डीपोरपवाद इति पाठतु प्रामादिकः । आसुरेरुपसङ्खयान मिति ॥ ष्फस्येति शेषः । आसुरायणीति ॥ असुरस्यापत्यं स्त्री इति विग्रहः “अत इञ् आदिवृद्धिः । ष्फः, ष इत्, आयन् ‘यस्यति च' षित्वात् डीष् “यस्येति च' णत्वमिति भाव वयसि प्रथमे ॥ प्राणिनां कालकृतावस्थाविशेषो वयः । तच्च कौमारं यौवनं वार्द्धकञ्चेति त्रिधा। पिता रक्षति कौमारे भर्ता रक्षति यौवने । पुत्रस्तु स्थाविरे भावे न स्त्री स्वातन्त्रयमर्हति इति दर्शनात् । चतुर्विधं वय इत्यन्ये आद्ये वयसि नाधीतं द्वितीये नार्जितं धनम् । तृतीये न तपस्तप्तं चतुर्थे किं करिष्यति इति दर्शनात् । प्रथमे वयसीत्यनन्तरं विद्यमानादिति विशेषः । अजाद्यतष्टाप्' इत्यतः अत इत्यनुवृत्तेन प्रातिपदिकादित्यधिकृतं विशेष्यते। तदन्तविधि त्रियामत्यधिकृतम् । ऋश्र्नेभ्यः' इत्यतो डीबित्यनुवर्तते । तदाह । प्रथम वयोवाचिन इत्यादिना ॥ कुमारीति । अत्रादुर्भूतयौवनेत्यर्थः । वृद्धा कौमारीति तु वृद्धायामेव कुमारीत्वारोपात् बोध्द्यः। वयस्यचरम इति ॥ चरमम् अन्त्यं वय तद्भिन्नम् अचरमं, प्रथमे इत्यपनीय अवरमे इति वक्तव्यमित्यर्थः । किमर्थमित्यत आह । वधूटी, चिरण्टीति ॥ अनयोर्द्वितीयवयोवाचित्वादप्राप्तिरिति भाव अनयोर्द्वितीयवयसि अप्रसिद्धत्वादाह । वधूटचिरण्टशब्दौ यौवनवाचिनाविति ॥ भाष्यप्रामाण्यादिति