पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/३८

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
३६१
बालमनोरमा ।

यौवनवांचिनौ | ' अत:' किम्, शिशुः । ' कन्याया न' । ' कन्यायाः कनीन च' (सू १११९) इति निर्देशात् ।

४७९ । द्विगोः । (४-१-२१)

अदन्ताद्विगोर्ङीप्स्यात्। त्रिलोकी । अजादित्वात्रिफला । त्र्यनीका सेना ।

४८० । अपरिमाणबिस्ताचितकम्बळ्येभ्यो न तद्धितलुकि । (४-१-२२)

अपरिमाणान्ताद्विस्ताद्यन्ताच्च द्विगोर्ङीन्न स्यात्तद्धितलुकि सति । पञ्च भिरश्वैः क्रीता पञ्चाश्वा । आर्हीयष्ठक् । “ अध्यर्ध -' (सू १६९३) इति


भावः । शिशुरिति ॥ शिशुशब्दस्य प्रथमवयोवाचित्वेऽपि अदन्तत्वाभावात् न ङीबिति भावः । कन्याया नेति । ङीबिति शेषः । कुत इत्यत आह । कन्यायाः कनीन चेति ॥ नच द्विवर्षी स्त्री इत्यादावपि ङीप् शङ्कयः । शालादावपि प्रयोगसत्त्वेन द्विवर्षेत्यादेः प्रथमवयोवाचित्वाभावात् । पदान्तरसमभिव्याहारप्रकरणाद्यनपेक्ष्य यः वयोवाची तस्यैव विव क्षितत्वात् । द्विगोः । स्त्रियामिति अत इति डङीबिति चानुवर्तते । तदाह । अदन्तादिति । त्रिलोकीति । त्रयाणां लोकानां समाहार इति विग्रहः । “तद्धितार्थोत्तरपदसमाहारे च ' इति द्विगुसमासः “ अकारान्तोत्तरपदो द्विगुः स्त्रियामिष्टः' इति स्त्रीत्वम्। त्रिलोकशब्दात् टाबप वादो ङीप् । 'यस्येति च' इति भावः । ननु त्रिफला खयनीका इत्यत्रापि ङीप् प्राप्रोतीत्यत आह । अजादित्वात् त्रिफला, त्रत्यनीकेति ॥ भवतीति शेषः । त्रयाणां फलानां समाहार इति, त्रयाणामनीकानामिति च विग्रहे 'ताद्धितार्थ' इति द्विगुः । “ अकारान्तोत्तरपदः इति स्त्रीत्वम्, “द्विगोः' इति ङीपं बाधित्वा अजादित्वाट्टाबिति भावः । अनीकशब्दः ऐन्द्रवाय वाग्रत्वे शुक्राग्रत्वे आग्रयणाग्रत्वे च वर्तते इति त्रयनीकाधिकरणे मीमांसकाः । अपरिमाण ॥

  • द्विगोः' इति ङीबिति चानुवर्तते । प्रातिपदिकादित्यधिकृतमपरिमाणादिभिर्विशेष्यते । तदन्त

विधिः । तदाह । अपरिमाणान्तादित्यादिना ॥ अपरिमाणान्तमुदाहरति । पञ्च भिरिति ॥ तद्धितलुकं दर्शयति । आर्हीयष्ठक् । अध्यर्धेति लुगिति । पञ्चभिः रश्चैः क्रीतेति विग्रहे “तद्धितार्थ' इति द्विगुः । “ आर्हीदगोपुच्छसङ्खयापरिमाणाठ्ठक’ इत्यधि कारे *तेन क्रीतम्' इति ठक् । अध्द्यर्धपूर्वाद्दिगोर्लुगसंज्ञायाम्' इति तस्य लुक्। अत्र द्विगोः' इति ङीप् न भवति, अपरिमाणान्तद्विगुत्वात् । नन्वत्र 'द्विगोः' इति प्राप्तङीन्निषेधे ऽपि 'टिड्ढाणञ्' इति ठन्निमित्तको ङीप् दुर्वारः । द्वाभ्यां शताभ्यां क्रीता द्विशतेत्यत्र

  • सङ्खयाया अतिशदन्तायाः' इति कनः “अद्यर्ध' इति लुकि “ अपरिमाण' इति निषेधस्य

चरितार्थत्वात् इति चेत् । सत्यम् टिड्ढाणन्' इत्यत्र प्रत्यासत्त्या टिड्ढाणजादीनां य अकारः तदन्तमिति विवक्षितम् । पञ्चाश्वशब्दश्चायं ठगवयवाकारान्तो न भवतीति न दोषः ।