पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/४०

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
३६३
बालमनोरमा ।

विहेितस्य मात्रचः *प्रमाणे लः, द्विगोर्नित्यम्' इति लुक् । 'क्षेत्रे' किम् । द्विकाण्डी रज्जु

४८२ । पुरुषात्प्रमाणेऽन्यतरस्याम् । (४-१-२४)

प्रमाणे यः पुरुषस्तदन्ताद्विगोर्ङीव्वा स्यात्तद्धितलुकि । द्वौ पुरुषौ प्रमाणमस्याः सा द्विपुरुषी-द्विपुरुषा वा परेिखा ।


दर्शयितुमाह । प्रमाणे द्वयसजिति । नच काण्डादित्यस्य प्रातिपदिकविशेषणतया तदन्तलाभादन्तग्रहणं व्यर्थमिति शङ्कयम् । असति ह्यन्तग्रहणे क्षेत्र इत्येतत् काण्डस्यैव विशेषणं स्यात् । श्रुतत्वात् । क्षेत्रे यः काण्डशब्दः तदन्तादिति लभ्येत । एवञ्च द्विकाण्डा क्षेत्रभक्तिरित्यत्र द्विकाण्डशब्दस्यैव क्षेत्रवर्तित्वात् काण्डशब्दस्य प्रमाणवाचित्वात् ङीन्निषेधो न स्यात् । द्वाभ्यां काण्डाभ्यां काण्डप्रमितक्षेत्राभ्यां क्रीता द्विकाण्डी बडबेत्यत्रैव ङीन्निषेधः स्यात् । अतः अन्तग्रहणम् । द्विकाण्डी रज्जुरिति ॥ पूर्ववत् मात्रचो लुकि 'द्विगो इति ङीप् । क्षेत्रवृत्तित्वाभावात् न तन्निषेध इति भावः । ननु “अपरिमाण' इति पूर्वसूत्रे परेि माणशब्देन किं परिच्छेदकमात्रं विवक्षितम्, उत “ऊध्र्वमानं किलोन्मानं परिमाणन्तु सर्वतः । आयामस्तु प्रमाणं स्यात्” इति वार्तिकानुसारेण परितः सर्वतः आरोहतः परिणाहतश्च येन मीयते तत् परिमाणमित्याढककुडबाद्येव आयामव्यावृत्तं विवक्षितम् । नाद्यः । तथा सति द्वैौ हस्तौ प्रमाणमस्या इति विग्रहे द्विहस्ता भित्तिरित्यत्र पूर्ववन्मात्रचो लुकि ङीनिषेधो न स्यात् । न द्वितीयः । तथा सति काण्डशब्दस्यायामप्रमाणपरतया उक्तपरिमाणपरत्वाभावेन अपरिमाण इत्यनेनैव द्विकाण्डाक्षेत्रभक्तिः इत्यत्रापि ङीनिषेधसम्भवेन काण्डान्तात् क्षेत्रे इति सूत्रारम्भवैयर्थ्यादित्युभयत:पाशा रज्जुरिति चेत् । सत्यम् । “ अपरिमाण' इति पूर्व सूत्रे पारिभाषिकमेव परिमाणं विवक्षितं, न त्वायामोऽपि । ततश्च द्विहस्ता भित्तिरित्यत्र “अप रिमाण' इति ङीनिषेधो निर्बाधः । काण्डान्तादिति सूत्रन्तु काण्डान्तात् क्षेत्र एव ङीब्नि षेधः नान्यत्र द्विकाण्डी रज्जुरित्यादाविति नियमार्थमित्यन्यत्र विस्तरः । पुरुषात् ॥ द्विगो रिति तद्धितलुकीति ङीबिति चानुवर्तते । तदाह । प्रमाणे य इत्यादिना ॥ प्रमाणमायामः आयामस्तु प्रमाणं स्यात्' इति वचनात् । द्वौ पुरुषाविति ॥ पञ्चहस्तायामः पुरुषः इत्युच्यते । “पञ्चारत्निः पुरुषः' इति शुल्बसूत्रात् । द्वौ पुरुषौ प्रमाणमस्या इति विग्रहे “तद्धि तार्थ' इति द्विगुसमासः । 'प्रमाणे द्वयसज्दघ्नञ्मात्रचः' इति विहितस्य मात्रचः “प्रमाणे ल: द्विगोर्नित्यम्' इति लुक् । अत्र उक्तरीत्या पुरुषप्रमाणस्य आयामात्मकस्य “अपरिमाण' इति नित्यं ङीनिषेधे प्राप्ते विकल्पार्थमिदं वचनम् । अन्ये तु “तदस्य परिमाणम्’ इति ठक्ठञौ वा । “अध्द्यर्ध' इति लुक् । तत्र हि उत्तरसूत्रानुरोधात् परिमाणशब्देन परिच्छेदकमात्रं गृह्यते इत्याहुः, इत्यास्तान्तावत् । द्विपुरुषी द्विपुरुषा वा परिखेति ॥ तिर्यक् द्विपुरुषायतेत्यर्थः । दुर्गे परितः तत्संरक्षणार्थो जलाशयः परिखा । अथ कुण्डमिव ऊधो यस्या इति बहुव्रीहौ