पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/४४

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
३६७
बालमनोरमा

४९० । पत्युर्नो यज्ञसंयोगे । (४-१-३३)

पतिशब्दस्य नकारादेशः स्याद्यज्ञेन सम्बन्धे । वसिष्ठस्य पत्नी । तत्कर्तृकस्य यज्ञस्य फलभोक्रीत्यर्थः । दम्पत्योः सहाधिकारात् ।

४९१ । विभाषा सपूर्वस्य । (४-१-३४)

पतिशब्दान्तस्य सपूर्वस्य प्रातिपदिकस्य नो वा स्यात् । गृहस्य पतिः गृहपतिः-गृहपत्नी । “अनुपसर्जनस्य' इतीहोत्तरार्थमनुवृत्तमपि न पत्युर्विशेषणं किं तु तदन्तस्य । तेन बहुव्रीहावपि । दृढपत्नी-दृढपतिः । वृषलपत्नी-


इति प्रकृतिभावः सम्पद्यत इति भावः । वत्वमिति । पतिरस्याः अस्तीति विग्रहे * तदस्याः स्त्यस्मिन्' इति मतुपो मकारस्य मादुपधात् परत्वाभावेन “मादुपधायाः’ इति वत्वमप्राप्त न्निपात्यते इत्यर्थः । प्रत्युदाहरणं त्विति ॥ गर्भिण्यामेव मतुन्निपातनादन्तरस्त्यस्यां शालायां घट इति विग्रहवाक्यमेव , नतु मतुबित्यर्थः । पतिमती पृथिवीति ॥ जीव द्भर्तृकायामेव वत्त्वनिपातनादिह वत्त्वाभाव इति भावः । पत्युर्नो । पत्युरिति षष्ठी । न इत्यकार उच्चारणार्थः, स्त्रियामित्यधिकृतम् । तदाह । पतिशब्दस्येति । यज्ञेनेति । यज्ञसम्बन्धः यज्ञेन सह स्वामितया सम्बन्धः, यज्ञफलभोक्तृत्वमिति यावत् । तदाह । तत्कर्तृकस्येति ॥ वसिष्ठकर्तृकस्येत्यर्थः । ननु वसिष्ठकर्तृकयज्ञस्य वसिष्ठ एव फलभोक्त्ते त्युचितं, नतु तत्स्त्रयपि, स्वर्गकामः इत्यादिपुलिङ्गशब्दैः पुंस एवाधिकारावगमात् इत्यत आह । दम्पत्योस्सहाधिकारादिति । एतच्च प्रकृतसूत्रे भाष्ये स्पष्टम् । अत एव पूर्वमीमांसायां षष्ठस्य प्रथमपादे “लिङ्गविशेषनिर्देशात् पुंयुक्तमैतिशायन ” इत्यधिकरणे “स्वपतेस्तु वचनादैककर्म्ये स्यात्' इत्यधिकरणे च दम्पत्योस्सहाधिकारस्सिद्धान्तितः । प्रपश्चित चैतदस्माभिरध्वरमीमांसाकुतूहलवृत्तौ । विभाषा सपूर्वस्य ॥ पत्युर्नः इत्यनुवर्तते । प्रातिपदिकादित्यनुवृत्तं षष्ठया विपरिणतं पत्युरित्यनेन विशेष्यते, तदन्तविधिः, सपूर्वस्यत्यतत् पतिशब्दान्तप्रातिपदिके अन्वेति । पूर्वावयवसाहितस्येत्यर्थः । तदाह । पतिशब्दान्तस्येत्या दिना ॥ यज्ञसंयोगाभावेऽपि अप्राप्तविभाषेयम् । गृहपतिः-गृहपत्नीति ॥ नत्वपक्षे ऋन्न' इति ङीप् । अत्र गृहपतिशब्दः पतिशब्दान्तः गृहशब्दात्मकपूर्वावयवसहितश्चेति भावः । नच “ग्रहणवता प्रातिपदिकेन' इति निषेधश्शङ्कयः । “शूद्रा चामहत्पूर्वा' इति लिङ्गेन तस्य स्त्रियामित्यधिकारे अप्रवृत्तेरुक्तत्वात् । ननु दृढः पतिः यस्या इति बहुव्रीहौ दृढपतिः-दृढपत्नीति नत्वविकल्प इष्यते, स तु न सम्भवति । अनुपसर्जनादित्यधिकारात् पतिशब्दस्यात्रोपसर्जन त्वात् । नच 'अनुपसर्जनात्' इति नात्र सम्बध्द्यते इति वाच्यम्। उत्तरत्रानुवृत्तये इहापि तदनु वृत्तेरावश्यकत्वात् इत्यत आह । अनुपसर्जनस्येत्यादि । किन्तु तदन्तस्येति ॥ सपू र्वस्येति पत्यन्तस्य श्रुतत्वेन तद्विशेषणताया एव न्याय्यत्वात् अवान्तरवाक्यार्थबोधोत्तरमेव अनुपसर्जनत्वविशेषणप्रवृत्त्या तत्काले सपूर्वस्य श्रुतत्वेन तेनैव सम्बन्धे जाते सति पश्चात्