वृषलपतिः । अथ ' वृषलस्य पत्नी' इति व्यस्ते कथमिति चेन्न । पत्नीव पत्नीत्युपचारात् । यद्वा । आचारक्विबन्तात्कर्तरि किप् अस्मिञ्च पक्षे पत्नियौ । पत्निय: इतीयङ्कविषये विशेषः । । सपूर्वस्य' किम्। गवां पतिः स्त्री ।
४९२ । नित्यं सपत्न्यादिषु । (४-१-३५)
पूर्वविकल्पापवादः । समानख्य सभावोऽपि निपात्यते । समानः पति र्यस्याः सा सपत्नी । एकपत्नी । वीरपत्नी ।
पतिशब्देऽपि पुनव्यपारे मानाभावादिति भावः । तेनेति । अनुपसर्जनत्वस्य पत्यन्तविशेषणत्वे नेत्यर्थः । यज्ञसंयोगग्रहणमनुवर्त्यं प्राप्तविभाषा कुतो न स्यादित्यत आह । वृषळपत्नीति ॥ पाति रक्षतीति पतिः वृषळस्य पतिः स्त्री इति विग्रहः । अपशूद्राधिकरणे शूद्राणां यज्ञाधिकार निराकरणादिह यज्ञसंयोगाभावादप्राप्तमेव नत्वं विभाष्यत इति भावः । आक्षिपति । अथेति ॥ आक्षेपारम्भद्योतकोऽथशब्दः, प्रश्रद्योतको वा । “मङ्गळानन्तरारम्भप्रश्रकार्त्स्न्येष्वथो अथ ' इत्यमरः । व्यस्ते इति । विग्रहवाक्ये इत्यर्थः । ततश्च सपूर्वत्वाभावात् न प्रकृतसूत्रेण नत्वविकल्पः । यज्ञसंयोगाभावाच्च न पूर्वेसूत्रेण । अतो वृषळस्य पत्नीत्यनुपपन्नमित्याक्षेपः । इति चेन्नेति । इत्याक्षिपसि चेत् नैतद्युक्तमित्यर्थः । पत्नीवेति । यज्ञसंयुक्तायां द्विजभार्यायां यः पत्नीशब्दो व्युत्पादितः तस्यैव शूद्रस्त्रियामपि यज्ञसंयुक्तायां पाणिग्रहणादिधर्मपुरस्कारेण गौण्या वृत्त्या प्रयोगः । यथा गङ्गायामिति स्त्रीलिङ्गस्य तीरे प्रयोगः । उक्तश्च भाष्ये । “तुषज कस्य पत्नीत्युपमानात्सिद्धम्” इति । यद्वेति प्रौढिवादमात्रमिदम् । स्त्रियामाचारक्विबन्त प्रकृतिकक्विबन्तशब्दाः न सन्तीति “अनुपसर्जनात्' इत्यत्रोक्तत्वात् । सपूर्वस्येति कि मिति । प्रातिपदिकविशेषणतया पतिशब्दस्य तदन्तलाभे सति पतिशब्दान्तस्य सपूर्वत्वा व्यमिचारात् सपूर्वस्येति किमर्थमिति प्रश्नः । गवां पतिः स्त्रीति । स्वामिनी रक्षित्री वे त्यर्थः । असमस्तत्वात् गवामित्यस्य न पूर्वावयवत्वामिति भावः । यद्यपि “यत्र सङ्घाते पूर्वो भागः पदं तत्र चत् प्रातिपदिकसंज्ञा भवति तर्हि समासस्यैव, इति नियमेन गवांपतिः इति समुदायस्य पत्यन्तत्वेऽपि प्रातिपदिकत्वाभावादेवात्र नत्वविकल्पो न भवति । तथापि गवां पतिरित्यत्र पतिशब्दस्यैव व्यपदेशिवत्वेन तदन्ततया नत्वविकल्पप्राप्तौ तन्निवृत्त्यर्थ सपूर्वस्येति वचनामिति भावः । वस्तुतस्तु “व्यपदेशिवद्भावोऽप्रातिपदिकेन' इति निषेधादिह केवलपति शब्दस्य पांतेशव्दान्तत्वाभावादेव नत्वविकल्पनिवृत्तिसिद्धेः सपूर्वस्येति स्पष्टार्थमित्याहुः । नित्यं सपत्नयादिषु । विषयसप्तम्येषा । सपत्नयादिविषये तत्सिध्द्यर्थे नित्यं नत्वमित्यर्थः । पूर्व विकल्पेति ॥ “विभाषा सपूर्वेस्य' इति विकल्पस्यापवाद इत्यर्थः । आरम्भसामर्थ्यादेव सिद्धे नित्यग्रहणं स्पष्टार्थम् । ननु समानः पतिर्यस्यास्सा सपत्नीति वक्ष्यति । तत्र समानशब्दस्य सभावोऽनुपपन्नः, अतः सदृशपर्यायेण सहशब्देनैव बहुव्रीहिराश्रयणीयः । एवञ्च 'वोपसर्जनस्य इति वैकल्पिकस्सभाव इत्यत आह । समानस्येति । इह गणे समान, एक, वीर, भ्रातृ. पुत्र, इति समानादयः पठिताः । अतस्समानशब्देनैव बहुत्रीहिरुचितःनिपातनादेव ,