पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/५०

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
३७३
बालमनोरमा ।

तिष्यपुष्ययोर्नक्षत्राणि यलोप इति वाच्यम्’ (वा ४२००) । मत्सी । “मा- तरि षिच' (वा २७१०) इति षित्वादेव सिद्धे गौरादिषु मातामहीशब्द पाठादनित्यः षितां डीष् । दंष्ट्रा ।

५०० । जानपदकुण्डगोणस्थलभाजनागकालनीलकुशकामुक कबरादृत्यमत्रावपनाकृत्रिमाश्राणास्थौल्यवर्णानाच्छादना योविकारमैथुनेच्छाकेशवेशेषु । (४-१-४२)

एकादशभ्यः प्रातिपदिकेभ्यः क्रमाद्वत्यादिष्वर्थेषु डीष्स्यात् । जान पदी वृत्तिश्चेत्, अन्या तु जानपदी । उत्सादित्वाद्ञ्यन्तत्वेन 'टिडू-' (सू ४७०) इति डीप्याद्युदात्तः । कुण्डी अमत्रं चेत्, कुण्डान्या । “कुडि दाहे' ।


तेनेह न, मत्स्यस्येदं मात्स्यम् । सूर्यागस्त्ययोश्छे च ङयाञ्चेति । सूरीयः । सूरी । अगस्तीय अगस्ती। नेह सौर्यम् । आगत्स्यम् । तिष्येति ॥ नक्षत्रेण युक्तः कालः सन्धिवेलाधृतुनक्षत्रेभ्योऽण्' इति च विहिते नक्षत्रसम्बन्धिनि अणि परतः तिष्यपुष्ययो र्यलोपः इत्यर्थः । तत्र तिष्यस्य यलोपो नियम्यते । पुष्यस्य त्वप्राप्तो विधीयते । तिष्येण युक्तः पूर्णमास तिध्ये भवो वा तैषः। एव पौषः। नेह । तिष्यस्य पुष्यस्य वाऽयं तैष्यः, पौष्यः । मत्सीति । मत्स्यशब्दात् गौरादिडीषि यलोपः, “यस्येति च' इत्यकारलोपः । ननु 'पितृव्यमातुलमातामहपितामहाः’ इति सूत्रे मातुः पिता पितुः पितेति विग्रहे मातृपितृभ्यां डामहचि टिलोपे मातामहपितामहशब्दौ निपातितौ । तत्र मातुर्माता पितुर्मातेति विग्रहे डामहचषित्वं विहितं “मातरि षिच्च ' इति । ततश्च षित्वविधानादेव ङीष् सिद्धेः गौरादिषु मातामहोशब्दपाठो न कर्तव्यः । नच 'मातरि षिच्च' इति न क्रियतामिति वाच्यम् । पितामहीत्यत्र डीषर्थ तस्यावश्यकत्वादित्यत आह । मातरीति । दंष्ट्रेति ॥ दंशेः दाम्नीशास' इति करणे ष्टून् । अत्र षित्वे सत्यपि न डीषिति भावः । सूर्यादीनामङ्गानामुपधा भूतस्य यकारस्य लोप इति तु न व्याख्यातम् । तथा सति सौरी बलाकेति न सिध्द्येत् । सूर्येणैकदिक् इत्यर्थे 'तेनैकदिक्' इत्यणि तदन्तात् डीपि अणन्तमङ्गम्, नतु सूर्यशब्द इति तदसिद्धिः । वचनन्तु सूरी कुन्तीत्यत्र चरितार्थमित्यन्यत्र विस्तरः । जानपद ॥ जानपदे त्यादि कबरादित्यन्तमेकपदम् । समाहारद्वन्द्वात् पञ्चमी । जानपदीति ॥ जनपदे भवेत्यर्थः । वृत्तिश्चेदिति ॥ जीविका गम्या चेदित्यर्थः । ननु “उत्सादित्वादञ्' इति डीपैव सिद्धे डीष् विधिव्यर्थ इत्यत आह । उत्सादित्वादिति ॥ * अनुदात्तौ सुप्पितौ' इति ङीप्याद्युदात्तत्वम् । डीषि तु प्रत्ययस्वरेरणान्तोदात्तत्वमिति भेद इत्यर्थः । कुण्डीति ॥ * पिठरं स्थाल्युखा कुण्डम् इत्यमरः । “पात्रामत्रे च भोजनम्' इति च । कुण्डशब्दस्य स्त्रीत्वमपि डीष्विधिसामर्थ्यात् ।

  • पिठरे तु न ना कुण्डम्' इति विश्वः । कुण्डान्येति ॥ दहनीयेत्यर्थः । तदेव विशदयति ।