पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/५३

एतत् पृष्ठम् परिष्कृतम् अस्ति
३७६
[स्त्रीप्रत्यय
सिद्धान्तकौमुदीसहिता

शुचिः । 'गुणः-' इति किम् । आखुः । 'खरुसंयोगोपधान्न ' (वा २४६०) । 'खरुः, पर्तिवरा कन्या' । पाण्डुः ।

५०३ । बह्वादिभ्यश्च । (४-१-४५)


येषु अश्वादिष्वसत्त्वान्नातिव्याप्तिरिति भावः । एवमपि क्रियायामतिव्याप्तिवारणाय आह । आधेयश्चाक्रियाजश्चेति । आधीयते उत्पाद्यते इत्याधेयः उत्पाद्यः अक्रियाजः अनुत्पाद्यः । उत्पाद्यत्वानुत्पाद्यत्वाभ्यां द्विविध इति यावत् । गुणो नित्यानित्यभेदेन द्विविधो भवति । नित्यगतानां गुणानां नित्यत्वात्, अनित्यगतानामनित्यत्वात् । क्रियायास्तु सर्वस्या अप्युत्पा द्यत्वान्नातिव्याप्तिरिति भावः । एवमपि द्रव्ये अतिव्याप्तिः । तस्य अवयवद्रव्यसमवेतत्वात् विजातीयपार्थिवाद्यवयवेषु सत्त्वात् नित्यानित्यभेदसत्त्वाच्च । अत आह । असत्त्वप्रकृतिरिति । अद्रव्यस्वभाव इत्यर्थः । द्रव्यभिन्न इति यावत् । मात्रपदेन सत्ताजातेः, अपैती

त्यनेन द्रव्यत्वस्य, पृथग्जातिषु दृश्यते इत्यनेन गोत्वादिजातेश्च निरासात् तद्रिन्नत्वमिति लब्धम् । 'आधेयश्चाक्रियाजश्च' इत्यनेन क्रियानिरासात् क्रियाभिन्नत्वं लब्धम् । असत्वप्रकृतिः इत्यनेन द्रव्यस्य निरासान् द्रव्यभिन्नत्वं लव्धम् । तथाच जातिभिन्नत्वे सति क्रियाभिन्नत्वे सति समवेतत्वं गुणलक्षणं निष्कृष्टं वेदितव्यम् । समवेतत्वाभावादभावनिरासः । अत्र नित्यद्रव्यवृत्तयो विशेषास्त्वनन्ता एव' इति तार्किकाभिमतविशेषपदार्थङ्गीकारे तद्भिन्नत्व मपि निवेश्यम् । “ आकडारादेका संज्ञा' इतिं सूत्रभाष्ये तु “समासकृदन्ततद्धितान्तसर्वनाम जातिसङ्कयासंज्ञाशब्दव्यतिरिक्तमर्थवच्छब्दरूपं गुणवचनसंझं भवति ” इत्युक्तम् । तदिदं प्रकृतसूत्रभाष्यस्थलक्षणस्यास्योक्त्तस्य प्रपञ्चनपरं वेदितव्यम् । परन्तु आकडारसूत्रभाष्ये संख्याशब्दभिन्नत्वमप्युपात्तम् । तदप्युक्तलक्षणे निवेश्यम् । न चैवमपि मृदुपट्वादिशब्दानां गुणविशिष्टद्रव्यवाचित्वात् गुणवचनत्वाभाव इति वाच्यम् । गुणवचनेत्यन्वर्थसंज्ञया गुणोपसर्जन द्रव्यवाचित्वस्यैव विवक्षितत्वात् । एवञ्च रूपशब्दस्य न गुणवचनता, तस्य प्राधान्येन रूप वाचितया रूपवति प्रयोगाभावात् । रूपादिशब्दस्यापि गुणवचनशब्देन ग्रहणे “गुणवचनेभ्यो मतुपो लुगिष्टः” इत्यत्रापि रूपादिशब्दानां ग्रहणापत्तौ रूपो घटः इत्यादिप्रयोगापत्तेः । प्रप ञ्चितचैतदरुणाधिकरणेऽस्माभिरध्वरमीमांसाकुतूहलवृत्तौ । शुचिरिति । शुक्लेत्यर्थः । “शुक्ल शुभ्रशुचिवश्वेतविशदश्येतपाण्डुराः” इत्यमरः । नच शुचिधातोः “इगुपधात् कित्' इत्यौणादिके इप्रत्यये उत्पन्नस्य शुचिशब्दस्य आकडारसूत्रे भाष्ये कृदन्तस्य गुणवचनत्वपर्युदासादेवात्र डीषु न भविष्यतीति वाच्यम् । उणादीनाम् अव्युत्पतिपक्षाश्रयणात् । आखुरिति । मूषिके त्यर्थः । आखोस्तु जातिविशिष्टद्रव्यवचनत्वादुक्तगुणवचनत्वाभावान्न ङीप् । 'खरुसंयोगोपधान्न इति वार्तिकम् । खरुश्च संयोगोपधश्चेति समाहारद्वन्द्व । खरुशब्दात् संयोगोपधाच्च “वोतो गुणवचनात्’ इति डीप् नेत्यर्थः । खरुशव्दमप्रसिद्धत्वात् व्याचष्टे । पर्तिवरा कन्येति । पतिलाभोत्कण्ठावतीत्यर्थः । औत्कण्ठ्यलक्षणगुणोपसर्जनद्रव्यवाचितया गुणवाचित्वात् प्राप्तिः । पाण्डुरिति । श्वेतेत्यर्थः । संयोगोपधत्वात् न ङीप् । बह्वादिभ्यश्च । गुणवचनत्वादेव