पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/५६

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
३७९
बालमनोरमा ।

५०५ ।इन्द्रवरुणभवशर्वरुद्रमृडहिमारण्ययव यवनमातुलाचार्याणामानुक् । (४-१-४९)

एषामानुगागम: स्यान्डीष्च । इन्द्रादीनां षण्णां मातुलाचार्ययोश्च पुंयोग एवेष्यते । तत्र डीषि सिद्धे आनुगागममात्रं विधीयते । इतरेषां चतुर्णा मुभयम् । इन्द्राणी । 'हिमारण्ययोर्महत्वे' (वा २४७२) । महद्धिमं हिमानी । अरण्यानी । “यवाद्दोषे' (वा २४७३) । दुष्टो यवो यवानी । * यवना ल्लिप्याम्' (वा २४७४) । यवनानां लिपिर्यवनानी । मातुलोपाद्धयाययोरानु ग्वा । मातुलानी-मातुली । उपाद्धयायानी—उपाद्धयायी । या तु स्वयमेवाद्धया


न तु देवतेत्यर्थः । तच्च महाभारतादौ स्पष्टम् । नच “सूर्याद्देवतायान्न ” इत्येवोच्यताम्, डीषि निषिद्धे टापैव सूर्येति सिद्धेरिति वाच्यम्, टापि हि सति पित्वादनुदात्तत्वम् । “ अनुदात्तौ सुप्पितौ इत्युक्तेः । चापि तु “चितः' इत्यन्तोदात्तत्वमिति भेदः । इन्द्रवरुण ॥ आनुगागम इति ॥ कित्वादागमलिङ्गादिति भावः । डीष् चेति ॥ 'अन्यतो डीष्' इत्यतस्तदनुवृत्तेरिति भावः । पुंयोग एवेष्यते इति ॥ पुंयोगादित्यनुवृत्तेः तेषां स्त्रीत्वे पुंयोगं विना अप्रवृत्तेश्चेति भावः । नन्वेवं पुंयोगादित्येव सिद्धे डीष्विधिर्व्यर्थ इत्यत आह । तत्रेति ॥ तत्र इन्द्रादषट्सु मातु लाचार्ययोश्च पुंयोगादित्येव डीषि सिद्धे तत्सान्नियोगेन आनुगागममात्रं विधीयते इत्यर्थः । इतरेषामिति ॥ हिमारण्यवयवनानान्तु आनुक् ङीष् चेत्युभयं विधीयते । तत्र पुंयोग स्यासम्भवादिति भावः । इन्द्राणीति ॥ आनुकि ककार इत्, उकार उच्चारणार्थः, कित्त्वा दन्तावयवः, सवर्णदीर्घः, णत्वमिति भावः । वरुणानी, भवानी, शर्वाणी, रुद्राणी, मृडानी इत्युदाहरणानि सुगमत्वात् उपेक्षितानि । दीर्घोच्चारणं विना अनुग्विधौ तु पररूपापतिः । अकारोच्चारणस्य अल्लोपनिवृत्त्या चरितार्थत्वात् । नुग्विधौ तु अल्लोपापत्तिरित्यन्यत्र विस्तरः । हिमारण्ययोर्महत्त्वे इति वार्तिकम् । महत्त्वविशिष्ट हिमे अरण्ये च वर्तमानयोरानुड्डीषा वेित्यर्थः । महद्धिमं हिमानीति ॥ महत्त्वयोगे स्त्रीत्वमत एव ज्ञेयम् । अरण्यानीति ॥ महदरण्यमित्यर्थः । “यवाद्दोषे' इति वार्तिकम् । आनुड्डीषाविति शेषः । दुष्टयवे वृत्तौ स्त्रीत्वमत एव ज्ञेयम् । यवनाल्लिप्याम् इत्यपि वार्तिकम् । लिपिरक्षरविन्यासः । तत्र लक्षणया वृत्तौ आनुड्डीषावित्यर्थः । मातुलोपाध्द्याययोरानुग्वेति ॥ इदमपि वार्तिकम् । अत्र पुंयोगादिति सम्बध्द्यते । हिमादिष्विवात्र असम्भवाभावात् । अत्र आनुगव तु विकल्प्यते आनुगभावेऽपि पक्षे डीष् भवत्येव । मातुलान्नित्यं प्राप्ते उपाध्ध्यायादप्रासे विभाषेयम् । मातु लानी-मातुलीति ॥ मातुलस्य स्त्रीत्यर्यः । उपाध्द्यायानी-उपाध्द्यायीति ॥ उपाध्द्या यस्य स्त्रीत्यर्थः । या तु स्वयमेवेति ॥ इदन्तु वार्तिकं तृतीयस्य तृतीये 'इडश्च इति सूत्रे पठितम् । या स्वयमेव अध्ध्यापयति न तूपाध्द्यायस्य स्त्री, तत्र पुंयोगाभावे केवलडीष्विकल्पो वाच्य इत्यर्थः। युगान्तरे ब्रह्मवादिन्यः स्त्रियस्सन्ति, तद्विषय