पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/५७

एतत् पृष्ठम् परिष्कृतम् अस्ति
३७०
[स्त्रीप्रत्यय
सिद्धान्तकौमुदीसहिता

पिका तत्र वा डीषु वाच्यः । उपाद्धयायी—उपाद्धयाया । “ आचार्यादणत्वं (वा २४७७) । आचार्यस्य स्त्री आचार्यानी । पुंयोग इत्येव । आचार्या, स्वयं व्याख्यात्री ।' अर्यक्षत्रियाभ्यां वा' (वा २४७८) । अर्याणी-अर्या । स्वामिनी वैश्या वेत्यर्थः । क्षत्रियाणी-क्षत्रिया । पुंयोगे तु, अर्यी । क्षत्रियी कथं । ब्रह्माणी' इति । ब्रह्माणमानयति जीवयतीति । ‘कर्मण्यण् '(सू २९१३)

५०६ । क्रीतात्करणपूर्वात् । (४-१-५०)

क्रीतान्तादन्तात्करणादेः स्त्रियां ङीष्स्यात् * वस्त्रक्रीती । 'क्वचिन्न' धनक्रीता ।


मिदम् । “पुरा युगेषु नारीणां मौञ्जीबन्धनमिष्यते। अध्द्यापनश्च वेदानां सावित्रीवचन न्तथा।” इति स्मरणात् । आाचार्यांदणत्वञ्च इत्यपि वार्तिकम् । चकारः आनुड्डीषोस्समुच्च यार्थः । आचार्यानीति ॥ आचार्यस्य स्रीत्यर्थः । ‘अट्कुप्वाङ्' इति णत्वं न भवति उपनीय तु यशिष्यं वेदमध्द्यापयेत्तु यः । सकल्पं सरहस्यञ्च तमाचार्य प्रचक्षते ॥” “एकदेशमुपाध्द्यायम् इति स्मृतिः । पुंयोग इत्येवेति ॥ पुंयोगग्रहणमनुवर्तत एवेत्यर्थः। तत्प्रयोजनमाह । आ चार्येति । अत्र पुंयोगाभावं विशदयति । स्वयं व्याख्यात्रीति ॥ धर्मोपदेष्ट्रीत्यर्थ यस्माद्धर्मानाचिनोति स आचार्यः' इति स्मरणादिति भावः । अर्यक्षत्यिाभ्यां वा इति वार्तिकम् । आनुड्डीषाविति शेषः । स्वार्थ इति व्याख्यानलभ्यम्, तेन पुंयोगनिरासः, अत एव भाष्ये “अर्याणी-अर्या' इत्येवोक्तम् । पुंयोग एव प्रवृत्तौ तु उपाध्द्यायीतिवत् अयति डीष मेवोदाहरेत् । अर्यशब्दं व्याचष्टे । स्वामिनी, वैश्या वेत्यर्थ इति ॥ * अर्यः स्वामिवैश्य योः' इति निपातनादिति भावः । क्षतूियाणी-क्षतूियेति ॥ क्षतूियात् क्षतूियायां भार्या यामुत्पन्नेत्यर्थ सवर्णेभ्यस्सवर्णासु जायन्ते हि सजातयः' इत्युपक्रम्य *विन्नास्वेष्वधिस्मृत इति स्मरणात् । विन्नास्वित्यस्य ऊढास्वित्यर्थः । पुंयोगे तु अर्यीं क्षतूियीति ॥ अर्यस्य स्त्री अर्यी, क्षत्तूियस्य स्त्री क्षत्तूियी, वैश्या शूद्रा वेत्यर्थः । कथमिति ॥ 'इन्द्रवरुण इत्यादिसूत्रे ब्रह्मन्शब्दस्य अग्रहणात् ब्रह्मणः स्त्रीत्यर्थे ब्रह्माणीत्यानुड्डीषौ कथमिति प्रश्नः। उत्तरमाह । ब्रह्माणमिति ॥ आनयतीत्यस्य व्याख्यानं जीवयतीति। अन प्राणने प्राणनं जीवनम्, अस्माद्धातोर्हेतुमण्णिचि उपधावृद्वौ तिपि शपि गुणायादेशयोः आनयतीति रूपम् । भर्तृजीवनस्य जायासौमङ्गल्यायत्तत्वात् । ततश्च ब्रह्माणमानयतीति विग्रहे आनि इति ण्यन्तात् “ कर्मण्यण्' इति अणि “णेरनिटि' इति णिलोपे आनशब्देन ब्रह्माणमित्यस्य उपपद समासे सुब्लुकि सवर्णदीर्घे ब्रह्मानशब्दात् “टिड्ढाणञ्' इति डीपि 'यस्येति च' इत्यकारलोपे पूर्वपदात् संज्ञायाम्' इति णत्वे ब्रह्माणीति रूपमिति भावः । “एकाजुत्तरपदे' इति तु न आणि सति प्रातिपदिकस्य यच्कत्वात् । लुप्तेऽप्यणि लोपस्य स्थानिवत्वात् । पूर्वत्रासिद्धीये न स्थानिवत्' इति तु न तस्य दोषः' इत्युक्तेः । क्रीतात्करणपूर्वात् ॥ प्रातिपदिकादित्य नुवृत्तम् अत इत्यनुवृत्तेन क्रीतादित्यनेन च विशेष्यते, तदन्तविधिः । तदाह । क्रीतान्ता