पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/६२

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
३८५
बालमनोरमा ।

वचनं मध्येऽपवाद्न्यायात् । सहनञ्लक्षणस्तु प्रतिषेधः परत्वाद्स्य वाधक तुङ्गनासिकी-तुङ्गनासिंकेत्यादि । नेह। सहनासिका । अनासिका । अत्र वृत्तिः। अङ्गगात्रकण्ठेभ्यो वक्तव्यम्।स्वङ्गी-स्वङ्गेत्यादि ।एतच्चानुक्तसमुच्चायार्थेन चकारेण संग्राह्यमिति केचित् । * भाष्याद्यनुक्तत्वादप्रमाणम् इति प्रामाणिकाः। अत्र वार्तिकानि पुच्छाञ्च' (वा २४८९) । सुपुच्छी-सुपुच्छा कबरमणिविषशरेभ्यो नित्यम्' (वा २४९०) । कबरं चित्रं पुच्छं यस्याः सा कबरपुच्छी मयूरीत्यादि उपमानात्पक्षाच्च पुच्छाच्च' (वा २४९१) नित्यमित्येव । उलूकपक्षी शाला । उलूकपुच्छी सेना ।


दिति ।। “पुरस्तादपवादाः अनन्तरान्विधीन् बाधन्ते नोत्तरान्’ इति न्यायात् इत्यर्थः । ततश्च सहनञ्’ इति निषेधो न क्रोडादिसूत्रेण व्यवहितत्वात् ‘नासिकोदर’ इत्यनेन बाधं नार्हतीत्यर्थे ओष्ठादिपञ्चकस्य प्रयोजनमाह । ओष्टादीनामिति । सुगुल्फेत्यादौ असंयोगोपधादित्यस्य सावकाशत्वादिति भावः।ननु सहोष्ठा, अनोष्ठा, इत्यादौ “सहनञ्' इति निषेधोऽप्यनेन बाध्द्यतामित्यत आह । मध्द्येऽपवादेति ॥ “मध्ध्येऽपवादाः पूर्वान्विधीन् बाधन्ते नो त्तरान्' इति न्यायादित्यर्थः ननु “नासिकोदर' इति डीष्विकल्पस्तु तुङ्गनासिकी इत्यादौ सावकाशः। सहनञ्' इति निषेधस्तु सहकेशेत्यादौ सावकाशः, सहनासिकेत्यादौ तु उभय प्राप्तौ कतरस्य बाध इत्यत आह । सहनञ्जलक्षणस्त्विति ॥ अस्येति ॥ “नासिकोदर इति डीविकल्पविधेरित्यर्थः । तुङ्गनासकी-तुङ्गनासिकेति॥ न क्रोडादिबह्वचः' इति बह्वज्लक्षणडीष्निषेधं बाधित्वा “नासिकोदर' इति विकल्पः । इत्यादीति ॥ कुम्भोदरी कुम्भोदरा । अत्र बह्वज्लक्षणनिषेध बाधित्वा डीष्विकल्पः । बिम्बोष्ठी-बिम्बोष्ठा । सुजङ्घी सुजङ्घा । शुभ्रदन्ती-शुभ्रदन्ता । सुकर्णी-सुकर्णा । सुश्श्रृङ्गी-सुश्शृङ्गा । ओष्ठादिषु संयोगोपधत्वे ऽपि डीष्विकल्पः । नेह सहनासिकेति ॥ सहशब्दो विद्यमानवचनः, सह नासिका यस्या इति विग्रहः । अविद्यमाना नासिका यस्या इति च विग्रहः । इह उभयत्रापि “सहनञ्विद्य मान' इति डीष्निषेधः, नतु “नासिकोदर' इति डीष्विकल्प इत्यर्थः । वक्तव्यमिति।। वा डीषिति शेषः । संयोगोपधत्वाद्वचनम् । स्वङ्गीति ॥ सु शोभनानि अङ्गानि यस्या इति विग्रहः । सुगात्री-सुगात्रा । सुकण्ठी-सुकण्ठा । वृत्तिग्रन्थस्य मूलं दर्शयति । एतच्चेति प्रामाणिकाः इति ॥ एवञ्च तन्वङ्गी, सुगात्री, कळकण्ठी, इत्यपभ्रंशा एवेति भावः । पुच्छा च्चेति ॥ संयोगोपधत्वेऽपि पुच्छशब्दान्तातू डीष्वेति वक्तव्यमित्यर्थः । कबरमणीति कबरादिभ्यः परो यः पुच्छशब्दः तदन्तात् नित्यं डीषिति वक्तव्यमित्यर्थः । पुच्छाच्चेत्युक्त विकल्पापवादः । कबरमित्यस्य व्याख्यानं चित्रमिति । इत्यादीति ॥ मणिपुच्छी वृश्चिकी विषपुच्छी. शरपुच्छी पक्षिजातिविशेषः । उपमानादिति ॥ उपमानात् परौ यौ पक्षपुच्छ शब्दौ तदन्तादपि डीषेित्यर्थः । नित्यमित्येवेति ॥ नित्यमित्यनुवर्तत एवेत्यर्थः । विकल्पा पवादः । उलूकपक्षी शालेति ॥ उलूकः पक्षिविशेषः, उलूकपक्षाविव पक्षौ पार्श्व यस्या