पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/६३

एतत् पृष्ठम् परिष्कृतम् अस्ति
३८६
[स्त्रीप्रत्यय
सिद्धान्तकौमुदीसहिता

५१२ । न क्रोडादिबह्वचः । (४-१-५६)

क्रोडादेर्बह्वचश्च स्वाङ्गान्न डीष् । कल्याणक्रोडा । अश्वानामुरः क्रोडा आकृतिगणोऽयम् । सुजघना ।

५१३ ।। सहनञ्विद्यमानपूर्वाच्च । (४-१-५७)

सहेत्यादित्रिकपूर्वान्न डीष् । सकेशा । अकेशा । विद्यमाननासिका ।

५१४ । नखमुखात्संज्ञायाम् (४-१-५८)

डीष्न स्यात् । शूर्पणखा । गौरमुखा । “ संज्ञायाम्' किम् । ताम्रमुखी कन्या ।।


इति विग्रहः। सप्तम्युपमानपूर्वपदस्य बहुव्रीहिर्वाच्यः उत्तरपदलोपश्च' इति समासः। संयो गोपधत्वादप्राप्ते विधिः। उलूकपुच्छी सेनेति ॥ उलूकपुच्छमिव पुच्छं पश्चिमान्तः यस्या इति विग्रहः । पूर्ववदेव बहुव्रीहिः । 'पुच्छाच्च' इति विकल्पस्यापवादः । न क्रोडादिबह्वचः। क्रोडा आदिर्यस्येति बहवः अचः यस्येति च विग्रहः । क्रोडादिश्च बह्वच् च इति समाहारद्वन्द्वः।। क्रोडादेरिति ॥ क्रीडादिर्गणः बह्वच् च यत् स्वाङ्गं तदन्तात् डीष नेत्यर्थः । कल्याण क्रोडेति ।। कल्याणी क्रोडा यस्या इति विग्रह स्त्रियाः पुंवत्' इति कल्याणशब्दस्य पुंवत्वम् । अश्वानामिति ॥ हरदत्तादिमते क्रोडाशब्दो नित्यस्त्रीलिङ्गः। उपसर्जनह्रस्वत्वे अदन्ततया 'स्वाङ्गाचोपसर्जनात्' इति प्राप्तो ङीष् निषिध्द्यते । अमरतु “न ना क्रोडं भुजा न्तरम्” इति स्त्रीत्वन्नपुंसकत्वञ्च आह । क्वचित् कोशे पुंस्त्वमपि दृश्यते। । क्रोडादिगणे क्रोडेति प्रातिपदिकं पठ्यते । एवञ्च लिङ्गत्रयेऽपि उदाहरणं निर्बाधम् । आकृतिगणोऽयमिति क्रोडादिरिति शेषः। सुजघनेति ॥ बह्वच उदाहरणम् । सु शोभनं जघनं यस्या इति विग्रहः। सहनञ् ॥ त्रिकपूर्वादिति स्वाङ्गादिति शेषः । सकेशेति ॥ सह केशाः यस्या इति बहुव्रीहिः । सहशब्दो विद्यमानवचनः। वोपसर्जनस्य' इति सभावविकल्पः । “ स्वाङ्गाच्च इति प्राप्तस्य निषेधः। नासिकोदर' इति डीष्विकल्पोऽनेन बाधद्यते इत्युक्तं स्मारयितुमुदा हरति विद्यमाननासिकेति ॥ विद्यमाना नासिका यस्याः इति बहुव्रीहिः । नखमुखात् संज्ञायाम् ॥ नखमुखादिति समाहारद्वन्द्वः । शेषपूरणेन सूत्रं व्याचष्टे । डीष् नेति स्वाङ्गाञ्च' इति प्राप्तस्य निषेधोऽयम् । शूर्पणखेति ॥ राक्षसीविशेषस्य नाम । शूर्पाणीव कररुहाः यस्या इत्यस्वपदविग्रहः । संज्ञात्वेन नित्यसमासत्वात् पूर्वपदात् संज्ञायाम्' इति णत्वम् । केवलयौगिकत्वे तु डीष भवत्येव । णत्वन्तु न । गौरमुखेति ॥ कस्याश्चिन्नाम श्वेतं मुखं यस्या इत्यस्वपदविग्रहः । ताम्रमुखीति ॥ यौगिकोऽयम् । ताम्र मुखं यस्या इति विग्रहः । दिक्पूर्वपदान्डीप् ॥ दिक् पूर्वपदं यस्येति विग्रहः । स्वाङ्गादित्यनु वर्तते । प्रातिपदिकादिति च “ अन्यतो डीष्’ इत्यतो डीषित्यनुवृत्तं षष्ठया विपरिणम्यते ।