पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/६५

एतत् पृष्ठम् परिष्कृतम् अस्ति
३८८
[स्त्रीप्रत्यय
सिद्धान्तकौमुदीसहिता

५१८ । जातेरस्त्रीविषयाद्योपधात् । (४-१-६३)

जातिवाचि यन्न च स्त्रियां नियतमयोपधं ततः स्त्रियां ङीष्स्यात् । 'आकृतिग्रहणा जाति: -- अनुगतसंस्थानव्यङ्ग-येत्यर्थः । तटी । --लिङ्गानाञ्च न सर्वभाक् । सकृदाख्यातनिर्ग्राह्या --


सप्तपदा भव” । अशिश्वीति ॥ न विद्यते शिशुर्यस्या इति विग्रहः । अशिशुशब्दात् डीषि इकारस्य यण् “अशिश्वी शिशुना विना' इत्यमरः । छन्दस्यपि क्वचिदित्यस्योदाहरणमाह । आ धेनवो धुनयन्तामशिश्वीरिति । अशिश्वीशब्दात् जसि 'दीर्घाज्जसि च' इति पूर्वसवर्णदीर्घनिषेधाभावश्छान्दसः । जातेरस्त्री ॥ अर्थे कार्यासम्भवाच्छब्दे कार्ये विज्ञायते इत्याह । जातिवाचीति ॥ न च स्त्रियान्नियतमिति ॥ स्त्रीविषयः नियमेन वाच्या यस्याः इति बहुव्रीहिणा स्त्रीविषयशब्दो नियतस्त्रीलिङ्गपरः, तथाच अस्त्रीविषयादित्यनेन अनियतस्त्री लिङ्गादिति विवक्षितम्, नैयत्यलाभायैव विषयग्रहणम् । अन्यथा अस्त्रिया इत्येवावक्ष्यदिति भावः । ननु यदि “नित्यमेकमनेकानुगतं सामान्यम्' इति तार्किकोक्ता जातिः, तर्हि शुकादिगुणस्य नित्यत्वैकत्वपक्षे शुक्लेत्यादावतिव्याप्तिः, औपगवी कठी इत्यादावतिव्याप्तिश्च । सवर्णेभ्यस्स वर्णासु जायन्ते हि सजातयः' इत्यादिस्मृत्या जननेन यत् प्राप्यते ब्राह्मणत्वादि सा जाति श्चेद्युवत्वादावव्याप्तिः । तथा च युवतितरेत्यत्र “जातेश्च' इति पुंवत्वनिषेधो न स्यात् इति चेन्न । “ आकृतिग्रहणा जातिः लिङ्गानाञ्च न सर्वभाक् । सकृदाख्यातनिर्ग्राह्या गोत्रञ्च चरणैस्सह ' इति भाष्योक्तत्रिविधजातेर्विवक्षितत्वात् इत्यभिप्रेत्य भाष्योक्तत्रैविध्ध्यं प्रपञ्चयति । आाकृति ग्रहणा जातिरिति ॥ प्रथमेति शेषः । आकृतिः अवयवसन्निवेशविशेषः गृह्यते अनेनेति ग्रहणं व्यञ्जकम्, करणे ल्युट्, सामान्ये नपुंसकम्, आकृतिः ग्रहणं यस्या इति विग्रहः । उपसर्जनत्वात् 'टिड्ढाणञ्' इति डीब्न । फलितमाह । अनुगतेति ॥ सर्वासु घटादि तत्तद्यक्तिषु एकरूपतत्तदाकारव्यङ्गयेति यावत् । गृह्यत इति कर्मणि ल्युट् । आकृत्या ग्रहणा आकृतिग्रहणेति तु न व्याख्येयम् । “टिड्ढाणञ्’ इति डीप्प्रसङ्गात् । तटीति ॥ “तटं त्रिषु” इत्यमरः । जलसमीपप्रदेशः आकृतिविशेषविशिष्टस्तटः, अतस्तटत्वमाकृतिव्यङ्गयत्वा जातिः, अतस्तटशब्दस्य जातिवाचित्वादनियतस्त्रीलिङ्गत्वादयोपधत्वाच्च डीषिति भावः । युव त्वादिकमप्याकृतिव्यङ्गयत्वात् जातिरेव । अनेन प्रथमलक्षणेन अनुगताकारप्रत्ययासिद्धा तट त्वादिजातिरुक्ता । नन्वेवं सति वृषळत्वादीनां जातित्वं न स्यात् । तदवयवसन्निवेशस्य ब्राह्मणादिसाधारणत्वेन वृषळत्वादीनां तद्यङ्गयत्वाभावादित्याशङ्कय आह । लिङ्गानाञ्च न सर्वभाक् । सकृदाख्यातनिर्ग्राह्येति ॥ अन्या जातिरिति शेषः । लिङ्गानामिति कर्मणि षष्ठी । सर्वाणि लिङ्गानि न भजते इत्यर्थः । असमर्थसमास आर्षः । सकृदित्यतः पूर्व एकस्यां


१-२ भाषयोक्तिदम्