पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/६७

एतत् पृष्ठम् परिष्कृतम् अस्ति
३९०
[स्त्रीप्रत्यय
सिद्धान्तकौमुदीसहिता

डीष्बाध्यते । “जातेः' किम् । मुण्डा । “ अस्त्रीविषयात्' किम् । बलाका । अयोपधात्' किम् । क्षत्रिया । योपधप्रतिषेधे “हयगवयमुकयमनुष्य मत्स्यानामप्रतिषेधः' (वा २४९५) । हयी। गवयी। मुकयी । “हलस्तद्धितस्य' (सू ४७२) इति लोपः । 'मनोर्जातावञ्यतौ षुक्च' मनुषी । “मत्स्यस्य ड-याम्' (वा ४१९८) । मत्सी ।


हरणान्तरमाह । बह्वृचीति ॥ बहवः ऋचः अध्द्येयाः यस्या इति विग्रहः । “ऋक्पूरब्धूः पथामानक्षे' 'अनृचबह्वृचावध्ध्येतर्येव' इत्यच्समासान्तः, ततो डीष् । 'पुरा कल्पे तु नारीणां मौञ्जीबन्धनमिष्यते । अध्द्यापनञ्च वेदानां सावित्रीवचनन्तथा ॥” इति यमादिस्मृतिः । ननु लिङ्गानाञ्च न सर्वभाक्' इति 'गोत्रञ्च चरणैस्सह' इति च जातिलक्षणे ब्राह्मणीति परित्यज्य वृषळी औपगवी इत्येवं कुत उदाहृतमित्यत आह । ब्राह्मणीत्यत्रेति । ब्रह्मणः अपत्यमि त्यर्थे 'तस्यापत्यम्’ इत्यणि 'ब्राह्मोऽजातौ' इति टिलोपाभावे आदिवृद्धौ ब्राह्मणशब्दः । स्त्रियान्तु जातिलक्षणं डीषं बाधित्वा 'शार्ङ्गरवाद्यञो ङीन् इति ङीन् । शार्ङ्गेरवादिगणे तत्पा ठस्य निरवकाशत्वादिति भावः । तदेवं जातिस्वरूपमुक्ता डीष्विधौ तद्रहणस्य प्रयोजनं पृच्छति । जातेः किमिति । मुण्डेति ॥ मुण्डत्वन्नाम विलुप्तसर्वकेशत्वम्, तत्तु नाकृति व्यङ्गव्यम् , केशदशायामपि तदाकृतेस्सत्त्वात् । “नापि लिङ्गानाञ्च ' इति लक्षणलक्षितम्, सर्व लिङ्गत्वात् । नापि गोत्रचरणान्तर्भूतम्, अतो न जातिरिति भावः । अस्त्रीविषयात् कि मिति । विषयग्रहणलभ्यं नियतत्वं प्रवेश्य अनियतस्त्रीलिङ्गादिति किमर्थमित्यर्थः । बला केति ॥ पक्षिवर्गे 'बलाका बिसकण्ठिका ' इत्यमरः । बलाकात्वस्य आकृतिव्यङ्गयतया जाति त्वेऽपि नियतस्त्रीलिङ्गत्वान्न डीषित्यर्थः । यद्यपि बलां कायतीति यौगिकत्वे त्रिलिङ्गत्वमस्ति तथापि प्रवृत्तिनिमित्तैक्ये स्त्रीलिङ्गान्यलिङ्गरहितभिन्नादित्यर्थो विवक्षित इति न दोषः । जाति विशेषे नियतस्त्रीलिङ्गत्वात् । भाष्ये तु अनियतस्त्रीलिङ्गत्वमङ्गीकृत्य अजादित्वाट्टाबिति समाहि तम् । क्षत्त्रियेति ॥ 'लिङ्गानाञ्च न सर्वभाक्' इति जातिलक्षणसत्वेऽपि योपधत्वान्न डीषिति भावः । योपधनिषेधे हयगवयेति ॥ वार्तिकमिदम् । हयादीनां योपधत्वेऽपि ङीष् वाच्य इत्यर्थः । हयीति । अश्वा प्रसिद्धा । गवयीति । गोसदृशश्चतुष्पाज्जातिविशेषः । मुक यीति ॥८-चतुष्पाज्जातिविशेषः । हलः इति ॥ मनुष्यशब्दात् स्त्रियां डीषि मनुष्य ई इतिं स्थिते “हलस्तद्धितस्य’ इति यकारस्य लोपे “यस्येति च' इत्यकारलोपे मनुषीति रूपमित्यर्थ । हलस्तद्वितस्य' इति लोपप्रवृत्तये यकारस्य तद्धितावयवत्वं दर्शयितुमाह । मनोर्जाता विति ॥ तद्धिताधिकारे अपत्याधिकारस्थमिदं सूत्रम् । मनुशब्दादपत्ये अञ्यतौ प्रत्ययौ स्तः प्रकृतेः षुक्च, प्रकृतिप्रत्ययसमुदायेन जातौ गम्यायामिति तदर्थः । मत्स्यशब्दात् ङीषि यकारस्य तद्धितावयवत्वाभावादप्राप्ते लोपे आह । मत्स्यस्य ड-यामिति ॥ “ सूर्यतिष्य इति सूत्रे वार्तिकमिदम् । मत्स्यस्यावयवस्य यकारस्य लोपस्स्यात् ङयामेवेति नियमार्थमिदम् । मत्सीति ॥ डीषि यकारलोपे 'यस्येति च' इति लोप इति भावः । ङयां किम् । मात्स्योऽव