पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/७०

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
३९३
बालमनोरमा ।

पुंयोगलक्षणस्य डीषोऽपवादः । लिङ्गविशिष्टपरिभाषया स्वादय : । श्वश्रुः ।

५२४ । ऊरूत्तरपदादौपम्ये । (४-१-६९)

उपमानवाचि पूर्वपदमूरूत्तरपदं यत्प्रातिपदिकं तस्मादूङ स्यात् । करभोरूः।

५२५ । संहितशफलक्षणवामादेश्च । (४-१-७०)

अनौपम्यार्थ सूत्रम् । संहितोरूः । सैव शफोरूः । शफौ खुरौ ताविव संश्लिष्टत्वादुपचारात् । लक्षणशब्दादर्शआद्यच् । लक्षणोरूः । वामोरूः ।


नात्र सम्बध्द्यते । ईकारे तद्धिते च तद्विधानात् । ननु श्वश्रूरित्यत्र क्रथं स्वादयः । 'डया प्प्रातिपदिकात्' इत्यधिकृत्य तद्विधेः । अस्य च डयाबन्तत्वाभावात् । ऊङन्तस्य च प्रत्यया । न्तत्वेन प्रातिपदिकत्वाभावादित्यत आह । लिङ्गविशिष्टेति । “प्रातिपदिकग्रहणे लिङ्ग विशिष्टस्यापि ग्रहणम्’ इति परिभाषयेत्यर्थः । वस्तुतस्तु श्वशुरस्येति वचनममूलकमेव । भाष्ये अदृष्टत्वात् ‘डयाप्प्रातिपदिकात्’ इति सूत्रस्थभाष्यविरोधाच्च । तत्र हि “ङयाप्प्रातिपदिकात्' इत्यत्र ऊङोऽपि ग्रहणं कर्तव्यमित्याक्षिप्य उवर्णन्तादूङ् विधीयते । तत्र सवर्णदीर्घे एकादेशे कृते पूर्वान्तत्वेन प्रातिपदिकत्वलाभादेव सिद्धमित्युक्तम् । यदि ह्यद्युक्तरीत्या श्वश्रूशब्दो व्युत्पाद्यते तर्हि रेफादकारस्य लुप्तत्वेन एकादेशाप्रसक्तस्तदसङ्गतिः स्पष्टैव । तथाच श्वश्रूरित्यव्युत्पन्नं प्राति पदिकमिति शब्देन्दुशेखरे स्पष्टम् । ऊरूत्तर ॥ ऊरुः उत्तरपदं यस्येति बहुव्रीहिः । प्राति पदिकादित्यनुवर्तते । उत्तरपदेत्यनेन पूर्वपदमाक्षिप्तम्, औपम्ये इति तत्रान्वेति, उपमीयते अनयेत्युपमा उपमानम्, उपमैव औपम्यं स्वार्थे ष्यञ् । तदाह । उपमानवाचीति ॥ कर भोरूरिति ॥ करभाविव ऊरू यस्या इति विग्रहः । * मणिबन्धादाकनिष्ठं करस्य करभो। बहिः' इत्यमरः । करभोरुत्वस्याजातित्वात् अप्राप्तौ वचनम् । ऊर्वाकृतेः करभसदृशपुरुषोरु साधारणत्वेन करभसादृश्यघटितकरभोरुत्वस्य आकृतिग्राह्यत्वाभावात् असर्वलिङ्गत्वाद्यभावाच्च । उपमानवाचीति किम् । वृत्तोरुः, करभोपमोरुरित्यादौ नोड् । करभशब्दस्य करभसदृशे अवृत्त्या उपमानवाचित्वाभावात् । संहितशफ ॥ संहित शफ लक्षण वाम एतत्पूर्वपदाद प्यूरूतरपदादूड् स्यादित्यर्थः । पूर्वेणैव सिद्धे किमर्थमित्यत आह । अनौपम्यार्थमिति संहितोरूरिति ॥ संहितौ संश्लिष्टौ ऊरू यस्या इति विग्रहः । सैव शफोरूरिति ॥ संहितोरूरेव शफोरूरित्यनेनोच्यत इत्यर्थः । शफशब्दं विवृणोति । शफौ खुराविति ॥ यद्यपि 'शर्फ क्लीबे खुरः पुमान्' इत्यमरः । तथापि “शफः खुरे गवादीनाम्' इति चन्द्रकोशात् पुंस्त्वमिति भावः । ननु शफत्वमूर्वोः प्रत्यक्षविरुद्धमित्यत आह । ताविवेति । यतः शफा विव, अत ऊरू शफशब्देनोच्येते इत्यर्थः । कुतस्तत्सादृश्यमित्यत आह । संश्लिष्टत्वादिति ॥ तर्ह्युपमानवाचिपूर्वपदत्वादेव सिद्धमित्यत आह । उपचारादिति ॥ शफवत् वास्तवं संश्लि ष्टत्वमवलम्ब्य शफत्वस्य आरोपादित्यर्थः । एवञ्च शफशब्दस्य तत्सादृश्याप्रतीतेर्नोक्तदोष इति भावः । लक्षणोरूरिति ॥ लक्षणौ ऊरू यस्या इति विग्रहः । ननु मार्दवादिगुणपर्यायस्य