पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/७१

एतत् पृष्ठम् परिष्कृतम् अस्ति
३३६
[स्त्रीप्रत्यय
सिद्धान्तकौमुदीसहिता

सहितसहाभ्यां चेति वक्तव्यम्’ (वा २५०३) । हितेन सह सहितौ ऊरू यस्याः सा सहितोरूः । सहेते इति सहौ ऊरू यस्याः सा सहोरूः । यद्वा विद्यमानवचनस्य सहशब्दस्य ऊर्वतिशयप्रतिपादनाय प्रयोग

५२६ । संज्ञायाम् । (४-१-७२)

कद्रुकमण्डल्वोः संज्ञायां स्त्रियामूङ् स्यात्। कद्रुः । कमणडलूः। संज्ञायाम्' किम् । कद्रुः । कमण्डलुः । अच्छन्दोऽर्थं वचनम् ((C|५२७ । शार्ङ्गरवाद्यञो डीन् । (४-१-७३)}} शार्ङ्गरवादेरञो योऽकारस्तदन्ताच्च जातिवाचिनो डीन्स्यात्। शार्ङ्गरवी


लक्षणशब्दस्य कथमूरुशब्दसामानाधिकरण्यमित्यत आह । लक्षणशब्दादिति लक्षण मनयोरस्तीति विग्रहे लक्षणशब्दातू “ अर्शआदिभ्योऽच् इत्यच्प्रत्यय इत्यर्थः।तथा च लक्षणयुक्तौ इत्यर्थलाभादिह नोक्तदोष इति भावः । वामोरूरिति । वामौ सुन्दरौ ऊरू यस्या इति विग्रह वामौ वल्गुप्रतीपौ द्वौ' इत्यमरः । सहितेति ॥ सहित सह आभ्यां पर यः ऊरुशब्द: तस्मादपि ऊङ् स्यादिति वक्तव्यमित्यर्थः । ननु संहितग्रहणेनैव एकदेशविकृत न्यायेन सिद्धे पुनस्सहितग्रहणं व्यर्थमित्यत आह । हितेनेति । हितेन सहेति विग्रहे 'तेन सह' इति बहुव्रीहौ “वोपसर्जनस्य इति सभावे सहितशब्द इत्यर्थः । ननु सहशब्दस्य विद्यमा नवचनत्वे सहोरूरित्यत्र सहशब्दप्रयोगो व्यर्थ इत्यत आह । सहेते इति । रतिकालिकमर्द नमिति शेषः । विद्यमानवचनत्वेऽपि सहशब्दस्य न वैयर्थ्यमित्याह । यद्वेति ॥ अतिशयेन विद्यमानत्वं विवक्षितमिति न वैयर्थ्यैमिति भावः । संज्ञायाम् । कद्रुकमण्डल्वोः उडिति चानुवर्तते, स्त्रियामित्यधिकृतम् । तदाह । कद्रुकमण्डल्वोः संज्ञायां स्त्रियामूङ् स्यादिति ॥ अच्छन्दोऽर्थमिति ॥ पूर्वसूत्रे छन्दसीत्युक्तत्वात् लोके संज्ञायामप्राप्तौ अयमारम्भः। कद्रुरिति नागानां मातुस्संज्ञा । एतच्च महाभारतादौ स्पष्टम् । कमण्डलूरिति कस्य चिन्मृगस्य संज्ञा । अत एव 'चतुष्पाद्भ्यो ढञ्' इत्यत्र कामण्डलेय इत्युदाहरिष्यते । पात्रपर्या यस्तु नोदाहरणम् । तस्य स्त्रीलिङ्गत्वाभावात् । शार्ङ्गरवाद्यञो डीन् ॥ शार्ङ्गवादीति लुप्तपञ्चमीकम् । अञ् इति षष्ठी, अत इत्यनुवृत्तं पञ्चम्यन्ते अन्वेति जातारित्यनुवृत्तं अता विशेष्यते । तदन्तविधिः । तदाह । शार्ङ्गरवादेरित्यादिना । शार्ङ्गरवीति ॥ श्रृङ्गरो रपत्यं स्रीत्यर्थे अण्, आदिवृद्धिः, रपरत्वम्, ओर्गुणः, 'गोत्रञ्च चरणैस्सह' इति जातित्वात् डीषि प्राप्त डीन् । स्वरे विशेषः । बैदीति । बिदस्यापत्यं स्त्रीत्यर्थः । “अनृष्यानन्तर्ये बिदा दिभ्योऽञ् गोत्रत्वेन जातित्वात् डीषि प्राप्ते डीन् । अञा अकारस्य विशेषणान्नेह । शूर सेनी । जनपदशब्दात् इत्यपत्ये अञ्।अतश्च' इति तस्य लुक् । अत्र जातिलक्षणडीषेव न तु डीन् । अजो लुप्तत्वेन नकारादकारस्य अञोऽवयवत्वाभावात् । नृनरयोर्वृद्धिश्चेति ॥