पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/७३

एतत् पृष्ठम् परिष्कृतम् अस्ति
३९६
सिद्धान्तकौमुदीसहिता

५२९ । आवट्याञ्च । (४-१-७५)

अस्माचाप्स्यात् । “यञश्च' (सू ४७१) इति डीपोऽपवादः । अवट शब्दो गर्गादिः । आवट्या ।

५३० । तद्धिताः । (४-१-७६)

आपञ्चमसमाप्तेरधिकारोऽयम् ।

५३१ । यूनस्तिः । (४-१-७७)

युवन्शब्दातिप्रत्ययः स्यात्, स च तद्धितः । लिङ्गविशिष्टपरिभाषया सिद्धे तद्धिताधिकार उत्तरार्थः । युवतिः । अनुपसर्जनादित्येव । बहवो युवानो यस्यां सा बहुयुवा । युवतीति तु यौतेः शत्रन्तान्डीपि बोध्यम् । {{C|इति स्त्रीप्रत्ययप्रकरणम् {{Rule}] स्यापत्यं स्त्रीत्यर्थः । 'गर्गादिभ्यो यञ्' इत्युभयत्र यञ् । आवट्याञ्च । ननु कथमवट शब्दस्य यञ्जन्तत्वमित्यत आह । अवटशब्दः इति । आवट्येति । अवटस्यापत्यं स्त्रीत्यर्थः । गर्गादियाञि 'यस्येति च' इत्यकारलोपे आदिवृद्धौ आवट्यशब्दात् चाप् । ताद्धि ताः ॥ वक्ष्यमाणाः प्रत्ययाः तद्धितसंज्ञकाः प्रत्येतव्या इत्यर्थः । आधिकारसूत्रमेतत् । उत्तरा वधिमाह । आपञ्चमेति । यूनस्तिः । तद्धिताः इत्यनुवृत्तमेकवचनेन विपरिणम्यते । तदाह । युवन्शब्दात् तिप्रत्ययस्यात् स च तद्धितः इति । स्त्रियामिति शेषः । समर्थानाम्' इत्यतः प्राक् तदधिकारस्योक्तत्वादिति भावः । नान्तलक्षणडीपोऽपवादः । नन्वत्र तद्धितग्रहणानुवृत्तिर्व्यर्था । नच 'कृत्तद्धित' इति. प्रातिपदिकत्वार्थ तदनुवृत्तिरिति वाच्यम् । प्रातिपदिकत्वाभावेऽपि लिङ्गविशिष्टपरिभाषया तिप्रत्ययान्तात् सुबुत्पत्तिसिद्धेरित्यत आह । लिङ्गविशिष्टेति । युवतिरिति । स्वादिष्विति पदत्वात् ‘न लोप इति नकारलोपः । अनु पसर्जनादित्येवेति । अनुवर्तत एवेत्यर्थः । बहुयुवेति । उपसर्जनत्वातिप्रत्ययाभावे नान्तलक्षणडीपः “अनो बहुव्रीहेः' इति निषेधे 'डाबुभाभ्याम्' इति डापि च रूपम् । ननु युवतीभिः परिवृतः इत्यादौ कथं युवतीशब्द ईकारान्तः इत्यत आह । युवतीति त्विति । ‘यु मिश्रणे' इत्यस्माल्लटश्शतरि, शपो लुकि, उवङि, उगित्वान्डीपि युवतीशब्दो व्युत्पन्नो बोध्द्यः इत्यर्थः । पतिं सुखेन मिश्रयन्ती योषिदुच्यते । अन्ये तु युधातोरौणादिके बाहुळकात्तष्प्रत्यये कित्वात् गुणाभावे उवडि उगित्वात ङीषि युवतीशब्दः सिध्ध्यतीत्याहुः ॥

इति श्रीमद्वासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमाख्यायां स्त्रीप्रत्ययनिरूपणं समाप्तम्।