पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/७९

एतत् पृष्ठम् परिष्कृतम् अस्ति
४०२
[कारके द्वितीया
सिद्धान्तकौमुदीसहिता

समास, प्राप्तः आनन्दो यं स प्राप्तानन्दः । क्वचिन्निपातेनाभिधानम् । यथा । विषवृक्षोऽपि संवर्ध्य स्वयं छेत्तुमसाम्प्रतम्। सांप्रतमित्यस्य हि युज्यत इत्यर्थः ।


तिङन्तेन अभिहितत्वाद्धरेः कर्मणो न द्वितीयेति भावः । हरिं भजतीति वाक्यार्थः । कर्तृकर्म लकारयोरेकरूप एव वाक्यार्थबोध इति वैयाकरणसमयः । कृदिति ॥ तिङीतिवदयमप्यावि भक्तिकनिर्देशस्तदुदाहरणसूचनाय । लक्ष्म्या सेवितः इति ॥ हरिरिति शेषः । भूते कर्मणि त्क्तः, कर्तरि तृतीया । लक्ष्मीनिष्ठपरिचरणजनिततुष्टयाश्रयो हरिरिति बोधः । “सत्त्वप्रधानानि नामानि' इति यास्कस्मृतिमनुरुध्द्य प्रातिपदिकेषु प्रथमान्तोपात्तविशेष्यकबोधस्यैव सर्वसम्मत त्वात् । अत्र सेवितहरेः कर्मणः कृता अभिहितत्वान्न द्वितीया । तद्धितेति ॥ अयमप्यवि भक्तिकनिर्देशस्तदुदाहरणसूचनाय । शतेन क्रीतः शत्यः इति ॥ पटादिरिति शेषः । शताञ्च ठन्यतावशते' इति यत्प्रत्ययस्ताद्वित: । अत्र कर्मणस्तद्वितेनोक्तत्वान्न द्वितीया । समासेति । अयमप्यविभक्तिकनिर्देशस्तदुदाहरणसूचनाय । प्राप्तानन्दः इति ॥ देवदत्ता दिरिति शेष । गत्यर्थाकर्मक इत्यादिना प्राप्तेति कर्तरि 'क्तः । अन्यपदार्थस्य कर्मणः बहु गत्यर्थाकर्मक' इत्यादिना प्राप्तति कर्तरि व्रीहिसमासेनाभिहितत्वान्न द्वितीयेति भावः । आनन्दकर्तृकप्राप्तिकर्मीभूित इति बोधः । प्रायेणे त्यस्य फलन्दर्शयति । क्वचिदिति ॥ विषवृक्षोऽपीति ॥ असाम्प्रतमित्यत्रान्वेति । संवर्ध्द्ये त्यत्र छेत्तुमित्यत्र चान्वये द्वितीयापत्तेः । तत्र त्वर्थाद्विषवृक्षमिति गम्यते । न साम्प्रतमिति विग्रहे नञ्तत्पुरुषः । युज्यत इत्यर्थः इति ॥ युजिर्योगे कर्मणि लकारः । औचित्या न युज्यते । औचित्ययुक्तो न भवतीति यावत् । “युक्त द्वे साम्प्रतं स्थाने ” इत्यमरः । अत्र वृक्षस्य कर्मणो निपातेनाभिहितत्वान्न द्वितीयेति भावः । वस्तुतस्तु छेत्तुमिति तुमुन्नत्र दुर्लभः । कृष्णं द्रष्टुं यातीत्यत्रेव क्रियार्थक्रियोपपदत्वाभावेन “तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्' इत्यस्या प्रवृत्तेः । “शकधृष' इत्यादिनापि तुमुन्न, शकादियोगाभावात् । किन्तु “इच्छार्थेषु' इत्यनुवृत्तौ समानकर्तृकेषु तुमुन्' इति तुमुन् । अक्रियार्थोपपदत्वेऽपि तस्य प्रवृत्तेः । यथा इच्छति भोक्तुमित्यादि । एवञ्च तुमुनस्साधुत्वाय इष्यते इत्यध्याहार्यम् । विषवृक्षोऽपि संवर्ध्य छेत्तुम् इष्यते इति यत् तदूसाम्प्रतम् अयुक्तमित्यर्थः । “एवञ्चालापि तिङाभिहितत्वादेव द्वितीया निवारणात् कृत्तद्धितसमासैरभिधानम् इति परिगणनवार्तिके प्रायेणेत्यध्द्याहारो विफलः” इति शब्देन्दुशेखरे स्थितम् । पक्वमोदनं भुङ्क्ते इत्यत्र तु पविभुजिक्रियानिरूपिते द्वे कर्मत्वशक्ती । तत्र गुणभूतपचिनिरूपितकर्मत्वशक्तेः क्तप्रत्ययाभिहितत्वेऽपि प्रधानभूतभुजिक्रियानिरूपितामन भिहितां कर्मत्वशक्तिमादाय द्वितीया निर्बाधेति भाध्ये स्पष्टम् । ननु यथा बहुपटुरित्यादौ तद्धितेन बहुच्प्रत्ययेन उक्तत्वात् कल्पबादयो नभवन्ति, तथा क्रियते कटः इत्यादावपि तिङादिभिरुक्तत्वातू द्वितीयादयो न भविष्यन्ति । ‘उक्तार्थानामप्रयोगः’ इति न्यायात् । किञ्च कटं करोतीत्यादौ सावकाशा द्वितीया कृतः कटः इत्यादौ न भवत्येव । अनवकाशया प्रथमया बाधात् । न च वृक्षः प्लक्षः इत्यादिः प्रथमायाः अवकाश इति वाच्यम् । तत्र गम्यामस्तिक्रियां प्रति कर्तृत्वे तृतीया प्रसङ्गात् । अतु वा तत्र प्रथमाया अवकाशः । 'तथाप्युभयास्सावकाशत्वं् परत्वात् प्रथमैव