पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/८३

एतत् पृष्ठम् परिष्कृतम् अस्ति
४०६
[कारके द्वितीया
सिद्धान्तकौमुदीसहिता

फलानि । माणवकं धर्मं ब्रूते-शास्ति वा । शतं जयति देवदत्तम् । सुधां क्षीरनिधिं मथ्नाति । देवदत्तं शतं मुष्णाति । ग्राममजां नयति-हरति-कर्षति-


प्राचीनाः । माणवकं पन्थानं पृच्छतीति ॥ जिज्ञासितव्यार्थज्ञानानुकूलः केन पथा गन्त व्यमित्यभिलापादिरूपव्यापारः प्रच्छेरर्थः । तत्र विषयतया ज्ञानरूपफलाश्रयत्वात् पन्थाः प्रधानकर्म । तद्ज्ञानं प्रति जनकतया आश्रयत्वात् माणवको गुणकर्म । माणवकेन पन्थानं ज्ञातुमिच्छतीत्यर्थः । अत्र माणवके करणत्वमुपेक्ष्य कर्मत्वविवक्षायां द्वितीया । पथिविषयकं माणवकसम्बन्धिज्ञानमिच्छतीत्यर्थ इति प्राञ्चः । वृक्षमपचिनोति फलानीति ॥ वृक्षात् प्रच्याव्य फलान्यादत्त इत्यर्थः । प्रच्याव्यादानानुकूलव्यापारो लोष्टप्रहारादिरूपः अपपूर्वकचिञ्धा तोरंर्थः । तत्र प्रच्याव्यादानविषयत्वात् फलानि प्रधानकर्म । प्रच्यवावधित्वादृृक्षः अपादानम् । तस्यापादानत्वमुपेक्ष्य कर्मत्वविवक्षायां द्वितीया । वृक्षस्य फलप्रच्यवाश्रयत्वेन कर्मत्वात् प्रच्यवस्य विभागस्य द्विनिष्ठत्वात् वृक्षसम्बन्धि यत् प्रच्युतफलादानं तत् करोतीत्यर्थः इति प्राचीनाः । माणवकं धर्मं ब्रूते शास्ति वेति ॥ बोधनानुकूलव्यापारः चोदनालक्षणोऽर्थो धर्मः इत्यादिशब्दप्रयोगात्मको ब्रूञोऽर्थः। माणवकाय धर्मं बोधयतीत्यर्थः। व्यापारप्रयाज्य बोधविषयत्वाद्धर्मः प्रधानकर्म । बोधविषयेण कर्मणाऽभिप्रेयमाणत्वान्माणवकस्सम्प्रदानम् । तस्य सम्प्रदानत्वमुपेक्ष्य बोधधर्मद्वारा बाधाश्रयत्वात् कर्मत्वविवक्षायां द्वितिया । धर्मविषयकं माणवकसंबन्धिनं बोधञ्जनयतीत्यर्थ इति तु प्राञ्चः । शासेस्तु धर्म कुर्वेित्यादिविधिघटित शब्दप्रयोगरूपो बोधनानुकूलः अर्थः । इतरत् प्राग्वत् । शतञ्जयति देवदत्तमिति ॥ जि अभिभवे । ग्रहणानुकूलताडनादिव्यापारो जयतेरर्थः । गर्गान् शतं दण्डयतीतिवद्याख्येयम् । सुधां क्षीरनिधिं मथ्नातीति ॥ मन्थ विलोडने । द्रवद्रव्यगतसारोद्भावनानुकूलः मन्थान दण्डभ्रमजनितसंक्षोभात्मकास्फालनपर्यायो व्यापारो मन्थरर्थः । क्षीरोदधेस्सकाशात् सुधा म्मन्थानदण्डभ्रमणेनोऽद्भावयतीत्यर्थः । व्यापारप्रयोज्योऽद्भवाश्रयत्वात् सुधा प्रधानकर्म । क्षीरो दधिस्तु उद्भवं प्रत्यपादानम् । तस्यापादानत्वमुपेक्ष्य सुधाद्वारा उद्भवाश्रयत्वात् कर्मत्वविव क्षायां द्वितीया । सुधाश्रयं क्षीरोदधिसम्बन्धिनम् उद्भवं करोतीत्यर्थ इति तु प्राचीनाः । देवदत्तं शतं मुष्णातीति ॥ अपश्यति देवदत्ते सुवर्णशतं तस्मादपनीयाद तदीयं त्ते इत्यर्थः । परस्वामिकद्रव्यस्य स्वामिनस्सकाशादपनीयादानानुकूलः स्वाम्यज्ञातो नि शासञ्चारभित्तिच्छिद्रकरणादिरूपव्यापारो मुषेरर्थः । व्यापारप्रयोज्यापनयनपूर्वकादानाश्रयत्वा च्छतं प्रधानकर्म । अपनयनावधित्वाद्देवदत्तोऽपादानम् । अपादानत्वमनादृत्यापनीयादेय द्रव्यस्वामितया देवदत्तस्यापनीयादानाश्रयत्वात् कर्मत्वविवक्षायां द्वितीया । शतकर्मकं देवदत्त सम्बन्धि अपनीयादानं करोतीत्यर्थ इति तु प्राञ्चः । ग्राममजां नयतीति ॥ ग्रामे अजां प्रापयतीत्यर्थः । णीञ् प्रापणे । देशान्तरसंयोगानुकूलश्चलनगमनपर्यायो व्यापारः प्राप्तिः । नतु देशान्तरसंयोगमात्रम् । ग्रामं प्रति चलनदशायामेव प्राप्तोति गच्छतीति प्रयोगदर्शनात् चलनेन संयोगे जाते तदनुवृत्तिदशायान्तद्दर्शनात् । अजा ग्रामं गता प्राप्त्येव दर्शनात् तादृशप्राप्त्यनु कूलो दण्डोद्यमनमार्गान्तरगतिप्रतिबन्धपूर्वकयोग्यमार्गसंयोजनादिरूपव्यापारो नीधातोरर्थः ।