पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/८४

एतत् पृष्ठम् परिष्कृतम् अस्ति
विभक्तिप्रकरणम्]
४०७
बालमनोरमा ।

वहति वा । अर्थनिबन्धनेयं संज्ञा । बलिं भिक्षते माणवकं धर्मं वसुधाम् । भाषते-अभिधत्ते-वक्तीत्यादि । “कारकम्' किम् । -माणवकस्य पितरं पन्थानं पृच्छति । * अकर्मकधातुभिर्योगे देशः कालो भावो गन्तव्याऽध्वा च कर्मसंज्ञक इति वाच्यम्’ (वा ११०३-११०४) । कुरून् स्वपिति । मासमास्ते। गोदोहमास्ते । क्रोशमास्ते


एतादृशव्यापारप्रयोज्यग्रामसंयोगतदनुकूलगमनोभयाश्रयत्वात् अजा प्रधानकर्म । तादृशाजाधा रत्वात् ग्रामोऽधिकरणम् । अधिकरणत्वमनादृत्य ग्रामस्यापि तथाविधसंयोगाश्रयत्वात् कर्मत्व विवक्षायां द्वितीया । अजाकर्मकं ग्रामसम्बन्धि नयनामित्यर्थः इति तु प्राचीनाः । एवमेव ग्रामं अजां हरति कर्षति वहतीत्यपि व्याख्येयम् । तत्र देशान्तरसंयोगानुकूलम् अजाचलनं वाहकद्वारकं तादृशचलनानुकूलव्यापारस्कन्धग्रहणादिरूपो हरतेरर्थः । रज्जुबन्धनादिना बलाच्चा लनं कृषेरर्थः । शकटाद्यारोपणादिरूपदेशान्तरसंयोगानुकूलप्राप्त्यनुकूलो वहेरर्थ इति विशेषः । अर्थनिबन्धनेयं संज्ञेति ॥ कैयटादिभिस्तथा व्याख्यातत्वादिति भावः । तथाच एतदर्थकधात्वन्तरसंयोगेऽपि द्विकर्मकत्वं लभ्यते । वस्तुतस्तु भाष्ये याचिरुधीत्याद्युदाहृत श्लोकद्वयपरिगणिताः दुहियाचिरुधिप्रच्छिभिक्षिचिञ्चूञ्जशासयः इत्यष्टावेव धातवो द्विकर्मकाः । न तु पचिदण्डिजिप्रभृतयस्तद्वहिर्भूता अपि । अर्थनिबन्धनेयं संज्ञेत्यपि न युक्तम् । भाष्ये अदर्शनातू । भाष्ये याचिग्रहणेनैव सिद्धे भिक्षिग्रहणवैयर्थ्याच्च । नन्वेवं सति अहमपीद मचोद्यं चाद्ये इति 'तद्राजस्य बहुषु' इतिसूत्रस्थभाष्यविरोधः । तत्र हि चुदधातुः चौरा दिकः प्रच्छिपर्यायः, कर्मणि लट् , उत्तमपुरुषेकवचनम्, अपृष्टव्यमहं पृच्छये इत्यर्थः । अत्र चुदेर्द्विकर्मकत्वदर्शनात् अर्थनिबन्धनेयं संज्ञेति विज्ञायत इति चेन्न । चुदश्शङ्कार्थ कत्वे सति तावता चुदधातोरपि द्विकर्मकत्वलाभेऽपि तदन्येषां द्विकर्मकत्वे मानाभावात् । अत एव “कर्तुरीप्सितमम्’ इति सूत्रभाष्ये “द्यर्थः पचिस्तण्डुलानादनं पचतीति तण्डुलान्विक्ले दयन्नोदनं निर्वर्तयतीति गम्यते । तण्डुलानानोदनं पचतीति तण्डुलविकारमोदनं निर्वर्तयतीति गम्यते । ओदनं पचतीति ओदनार्थान् तण्डुलान् विक्लेदयतीति गम्यते इत्युदाहृतम् । कर्तुरीप्सिततममित्येव तण्डुलानामपि कर्मत्वमिति पचेरेतदुदाहरणत्वमनुपपन्नमेव । तस्माद्भाष्य परिगणितबहिर्भूतधातूनामन्तर्भावितण्यर्थकत्व एव द्विकर्मकत्वमिति शब्देन्दुशेखरे स्थितम् । ननु कुरुषु स्वपिति देवदत्तः, मासमास्ते, इत्यादौ कुर्वादेरनुद्देश्यत्वात् 'कर्तुरीप्सिततमम्' इति कर्मत्वं न सम्भवति । कर्तुरेव स्वापादिक्रियाश्रयत्वात् । “तथायुक्तम्' इत्यपि न कर्मत्वमित्यत आह । अकर्मकधातुभिरिति ॥ ग्रामसमूहात्मकः कुरुपञ्चालावन्त्यादिपरोऽत्र देशशब्दः नतु ग्रामादिरपि । तन्न ग्रामे स्वपितीत्यत्र न द्वितीया । अत्र च “ अधिशीङ्स्थासां कर्म' इति लिङ्गम् । अन्यथा अधिशेते अधितिष्ठति अध्द्यास्ते वा वैकुण्ठं हरिः इत्यत्राप्यनेनैव कर्मत्वसिद्धे स्तद्वैयर्थ्ये स्पष्टमेवेत्यभिप्रेत्योदाहरति । कुरून् स्वपितीति । देवदत्त इति शेषः । कुरुषु निद्रां करोतीत्यर्थः । देवदत्तातु न द्वितीया । तिङा अभिहितत्वादिति भावः । कुर्वादिशब्दाः