पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/८६

एतत् पृष्ठम् परिष्कृतम् अस्ति
विभक्तिप्रकरणम्]
४०९
बालमनोरमा ।

आसयत्सलिले पृथ्वीं यः स मे श्रीहरिर्गतिः ।

गति-' इत्यादि किम् । पाचयत्योदनं देवदत्तेन । “ अण्यन्तानाम्' किम् । गमयति देवदत्तो यज्ञदत्तं, तमपरः प्रयुङ्गे, गमयति देवदत्तेन यज्ञदत्तं विष्णु मित्रः । “नीवह्योर्न' (वा ११०९) । नाययति, वाहयति वा भारं भृत्येन । 'नियन्तृकर्तृकस्य वहेरनिषेधः' (वा १११०) । वाहयति रथं वाहान्सूतः ।


न्तावस्थायां शत्रवो गमनक्रियां प्रति कर्तारः । स्वर्गस्तु कर्म । प्यन्तावस्थायान्तु णिज्वाच्यां प्रयोजकव्यापारात्मिकां शत्रघातक्रियां प्रति घातयिता हरिः कर्ता, शत्रवस्तु कर्म । शस्रघात जन्या या क्रिया स्वर्गप्राप्तिस्तदाश्रयत्वात् । एवञ्च हरिः प्रयोजककर्ता, शत्रवस्तु प्रयोज्यकर्तारः प्रयोजककर्तुर्हरेः शाब्दं प्राधान्यम्, अन्यानधीनत्वलक्षणञ्चार्थप्राधान्यमस्ति । शत्रूणान्तु अन्या धीनस्वर्गप्राप्तिकर्तृत्वं प्रयोजकाधीनत्वात् गुणभूतमेव । शेषित्वलक्षणमार्थप्राधान्यन्तु प्रयोज्य शत्रुगतकर्तृत्वस्यैव । प्रयोजकव्यापारस्य प्रयोज्यस्वर्गप्राप्तयर्थत्वादिति स्थितिः । तत्रान्यानधी नत्वलक्षणस्यार्थप्राधान्यस्य शाब्दप्राधान्यस्य च प्रयोजकव्यापार सत्त्वात् । तदनुरोधि शत्रुगतं कर्मत्वं “कर्तुरीप्सिततमम्' इत्येव सिद्धम् । अतो नियमार्थमिदं सूत्रम् । णिजर्थेनाप्यमानस्य प्रयोज्यकर्तुर्यदि कर्मत्वं भवति तर्हि गत्यर्थादीनामेवेति । तेन पाचयति देवदत्तेन इत्यादौ प्रयोज्यकर्तुर्न कर्मत्वम्, किन्तु कर्तृत्वमेव । तदेतत् “हेतुमति च' इति सूत्रे भाष्य कैयटयोः स्पष्टम् । उक्तञ्च हरिणा । “गुणाक्रियायां स्वातन्त्रयात् प्रेषणे कर्मतां गतः । नियमात् कर्मसंज्ञायाः स्वधर्मेणाभिधीयते ॥” इति । स्वधर्मेणेति तृतीययेत्यर्थः । एवञ्च स्वर्गकर्मकं शत्रुनिष्टं यद्भमनं तदनुकूलो यन्निष्ठो व्यापारः स श्रीहरिमें गतिरिति वाक्यार्थः । एवमग्रेऽप्यूह्यम् । वेदार्थं स्वानवेदयदिति ॥ बुध्द्यर्थधातोरुदाहरणम् । स्वशब्दः आत्मीय परः, स्व स्वकीया: विधिप्रमुखाः वेदार्थमविदुः, तान् हरिः वेदार्थमवेदयदित्यर्थः । अत्र स्वेषां प्रयोज्यकर्तृणां कर्मत्वम् । आशयञ्चामृतन्देवानिति । प्रत्यवसानार्थस्य उदाहरणम् । देवा अमृतमाश्रन्, तान् हरिराशयदित्यर्थः । वेदमध्द्यापयद्विधिमिति ॥ शब्दकर्मणः उदाहरणमेतत् । विधिः ब्रह्मा वेदमधतिवान्, तं हरिः अध्द्यापयदित्यर्थः । अत्र प्रयोज्यकर्तु र्विधेः कर्मत्वम् । आसयत्सलिले पृथ्वीमिति अकर्मेकस्योदाहरणम् । सलिले पृथ्वी आस्त, तां हरिरासयदित्यर्थः । अत्र पृथिव्याः प्रयोज्यकर्त्रयाः कर्मत्वम् । यः स मे श्रीहरि र्गतिरिति प्रतिवाक्यमन्वयः । नीवह्योनेंति ॥ णीञ् प्रापणे, वह प्रापणे, इत्यनयोः, ण्यन्तयोः प्रयोज्यकर्तुः “गतिबुद्धि' इत्युक्तं नेति वक्तव्यमित्यर्थः । नाययति वाहयति वेति ॥ भृत्यो भारं नयति वहति वा, तं प्रेरयतीत्यर्थः । अत्र प्रयोज्यकर्तुर्भृत्यस्य णिच्प्रकृत्यर्थन्नयनं वहनश्च प्रति कर्तुः प्रयोजकव्यापारं प्रति कर्मत्वे निवृते णिच्प्रकृत्यर्थ प्रति कर्तृत्वस्यैव निरप वादत्वेनावस्थानात् तृतीया बोध्या । यद्यपि नीवह्योः प्रापणमर्थः, तथापि गत्यनुकूलव्यापारा र्थके प्रापणे गतेर्विशेषणत्वेन प्रविष्टतया गत्यर्थत्वात् प्राप्तिरिति भावः । नियन्तृकर्तृकस्य वहेरानिषेधः इति ॥ एवञ्च तत्र प्रयोज्यकर्तुरुक्तस्य ‘नीवह्योर्न' इति प्रतिषेधस्याभावे सति प्रयोज्यस्य कर्मत्वं वक्तव्यमिति फलितम् । वाहयतीति ॥ वाहाः अश्वाः वहन्ति