पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/९०

एतत् पृष्ठम् परिष्कृतम् अस्ति
विभक्तिप्रकरणम्]
४१३
बालमनोरमा ।

"उभसर्वतसोः कार्या धिगुपर्यादिषु त्रिषु ।

द्वितीयाम्रेडितान्तेषु ततोऽन्यत्रापि दृश्यते ॥"

वा(१४४४)

उभयतः कृष्णं गोपाः। सवेतः कृष्णम् । धिक् कृष्णाभक्तम् । उपर्युपरेि लोक हरि: । अध्याधि लोकम् । अधोऽधो लोकम् । अभित:परितःसमयानि कषाहाप्रतियोगेऽपि' (वा १४४२-१४४३) । अभितः कृष्णम् । परित कृष्णम् । ग्रामं समया । निकषा लङ्काम् । हा कृष्णाभक्तम् । तस्य शोच्यता इत्यर्थः । 'बुभुक्षितं न प्रतिभाति किञ्चित् '।


आधारत्वद्योतकाः । अत्र 'वसेरइयर्थस्य प्रतिषेधः’ इति वार्तिकम् । तत्रार्थशब्दो निवृत्तिवचनः। “अर्थोऽभिधेयरैवस्तुप्रयोजननिवृतिषु' इत्यमरः। भोजनस्यार्थः निवृत्तिर्यस्मात् प्रतीयते सः अश्यर्थः, भोजननिवृत्तिवाचकस्य अशेराधारस् कर्मत्वप्रधिषेध इति यावत् । तदेतदर्थतस्स ङ्गृह्णाति । अभुक्तव्यर्थस्य नेति ॥ अथोपपदविभक्तयः । उभसर्वतसोः इति ॥ वार्तिकम् उभयशब्दसर्वशब्दप्रकृतिकतसन्तयोः प्रयोग सति द्वितीया कार्येत्यर्थः। धिगिति ॥ धिक्श ब्दस्य प्रयोगे सति द्वितीया कार्या प्रकृतिवदनुकरणम्' इत्यव्ययत्वात्सुपो लुक् । उपर्यादि ष्वित्यनेन “उपर्यध्यधसस्सामीप्ये' इति सूत्रोपात्तान्यव्ययानि गृह्यन्ते । द्विरुक्तस्य परमाम्रेडितम्। तदन्तेषु द्विर्वचनेष्विति यावत् । तथाच कृतद्विर्वचनेषु उपर्यादिषु त्रिषु प्रयुज्यमानेषु द्विती येत्यर्थः । ततः इति ॥ उक्तप्रदेशेभ्योऽन्यत्रापि द्वितीया दृश्यते इत्यर्थः। उभयतः कृष्णं गोपाः इति ॥ कृष्णस्य पार्श्वद्वयेऽपीत्यर्थः । आद्यादित्वात् तसि उभयोऽन्यत्र' इत्ययच्। षष्ठयर्थे द्वितीया । सर्वतः कृष्णमिति ।। कृष्णस्य सर्वेषु पार्श्वेषु गोपा इत्यर्थः। धिक् कृष्णाभक्तमिति । धिक् निन्दायाम् । कृष्णाभक्तस्य निन्देत्यर्थः । केचित्तु कृष्णाभक्तो निन्द्य इत्यर्थ प्रथमार्थे द्वितीयेत्याहुः । धिङ्मूर्खत्यत्र तु निषिद्धाचरणमित्यध्याहार्यम् उपर्युपरीति उपर्यध्यधसस्सामीप्ये' इति द्विर्वचनम् । लोकस्य समीपे उपरि हरि रस्तीत्यर्थः। अध्यधीति लोकस्य समीपदेशे हरिस्तीत्यर्थः । अधोऽधः इति ॥ लोकस्य समीपे अधो हरिस्तीत्यर्थः । अभितःपरितः इति ॥ 'ततोऽन्यत्रापि दृश्यते इत्यस्य प्रपञ्चोऽयम् । योगेऽपीत्यनन्तरं द्वितीयेति शेषः । अभितः कृष्णमिति॥ इति शेषः । कृष्णस्य पार्श्वद्वयेऽपीत्यर्थः । परितः कृष्णमिति।। कृष्णस्य सर्वेषु पार्श्वेषु गोपा इत्यर्थः । 'पर्यभिभ्याञ्च' इति तसिल् । ग्रामं समया, निकषेति ॥ 'समयी निकषा इति च आकारान्ते अव्यये । ग्राममित्यस्य प्रत्येकमन्वयः । ग्रामस्य समीपे इत्यर्थः। निकषा न्तिके, समयान्तिकमध्द्ययोः इति चामरः। “विलङ्घय लङ्कां निकषा हनिष्यति” इति माघः । हा कृष्णाभक्तमिति ॥ हा इत्याकारान्तमव्यय खेदे। हा विषादशुगार्तिषु इत्यमरः। तदा आह। तस्य शोच्यतेत्यर्थ इति।। कृष्णाभक्तश्शोच्य इत्यर्थ इत्यन्ये। प्रतियोगमुदाहरति । बुभुक्षितमिति । क्षुधार्तस्य किञ्चिदपि न स्फुरतीत्यर्थः । ‘भा दीप्तौ इह तु उपसर्गबलात् स्फुरणे वर्तते । ततो लक्षणादाववृत्तेः प्रतेर्न कर्मप्रवचनीयत्वम् । एवञ्च