पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/९१

एतत् पृष्ठम् परिष्कृतम् अस्ति
४१४
[कारके द्वितीया
सिद्धान्तकौमुदीसहिता

५४५ । अन्तरान्तरेणयुक्ते । (२-३-४)

आभ्यां योगे द्वितीया स्यात् । अन्तरा त्वां मां हरिः । अन्तरेण हरिं न सुखम् ।

५४६ । कर्मप्रवचनीयाः । (१-४-८३)

इत्याधकृत्य ।

५४७ । अनुर्लक्षणे । (१-४-८४)

लक्षणे द्योत्येऽनुरुक्तसंज्ञः स्यात् । गत्युपसर्गसंज्ञापवादः ।

५४८ । कर्मप्रवचनीययुक्ते द्वितीया । (२-३-८)

एतेन योगे द्वितीया स्यात्। पर्जन्यो जपमनुप्रावर्षत् । हेतुभूतजपोपलक्षितं


कर्मप्रवचनीययुक्त्ते द्वितीया’ इत्यनेन गतार्थत्वन्न भवति । अन्तरान्तरेणयुक्ते । “अन्तरा इत्याकारान्तमव्ययं, नतु टाबन्तम् । अन्तरेणेत्यप्यव्ययमेव, नतु तृतीयान्तम्” इति भाष्ये स्थितम् । अन्तरा त्वां मां हरिरिति ॥ तव च मम च मध्ये हरिरित्यर्थः । “अन्तरा मध्ध्ये' इत्यमरः । अन्तरेण हरिमिति । हरेर्वर्जने सुखन्नास्तीत्यर्थः । “पृथग्विनान्तरेणतें हिरुङ् नाना च वर्जने ” इत्यमरः । किमनयोरन्तरेण गतेनेत्यत्र तु अन्तरशब्दो विशेषवाची । अनयो र्विशेषेण ज्ञातेनेत्यर्थः । अत्र अन्तरेणेत्यस्य तृतीयान्तत्वादव्ययत्वाभावान्न तद्योगे द्वितीया । नन्वेवं सति “हलोऽनन्तरास्संयोगः’ इत्यत्र 'द्वयोश्चैवान्तरा कश्चित्' इति भाष्यप्रयोगः कथमिति शङ्कयम्। मध्द्यत्वनिमित्तमवधित्वं हि ययोर्निणीतं तत्र द्वितीया । ययोस्तु न तन्निर्णयस्तत्र सम्बन्धसामान्ये षष्ठयेव भवति । युक्तग्रहणादिति कैयटः । कर्मप्रवचनीयाः ॥ इत्यधि कृत्येति ॥ 'प्राग्रीश्वरान्निपाताः' इति पर्यन्तमिति बोध्यम् । अनुर्लक्षणे ॥ लक्षणे द्योत्ये इति ॥ लक्ष्यलक्षणभावसम्बन्धे द्योत्ये इत्यर्थः । उक्तसंज्ञः इति ॥ कर्मप्रवचनीयसंज्ञ इत्यर्थः । लक्ष्यते ज्ञायतेऽनेनेति लक्षणम्, तच्च हेतुभूतं विवक्षितम्, नतु वृक्ष प्रति विद्योतते विद्युः दितिवत् चिह्नमात्रम्, तथा सति “लक्षणेत्थम्' इत्येव सिद्धेरिति वक्ष्यते । गत्युपसर्गसंज्ञाः पवादः इति । अनेन क्रियायोग एव कर्मप्रवचनीयसंज्ञेति सूचितम् । 'कर्मप्रवचनीयाः’ महासंज्ञाकरणसामर्थ्यात् अन्वर्थत्वम् । कर्मति क्रियोच्यते, तां प्रोक्तवन्तः कर्मप्रवचनीया भूते कर्तरि बाहुळकादनीयर्प्रत्यययः । ततश्च क्रियामेव न द्योतयन्ति किन्तु क्रियानिरूपितसम्ब न्धविशेषं द्योतयन्ति । एवञ्च अनुप्रत्यादिषु क्रियानिरूपितसम्बन्धस्य द्योत्यत्वेन अन्वयात् तत्र गत्युपसर्गसंज्ञयोः प्राप्तिर्वोध्या । कर्मप्रवचनीय ॥ युक्त इति भावे क्तः । तदाह । एतेन योगे इति ॥ पर्जन्यो जपमन्विति ॥ कदा पर्जन्योऽवर्षदिति प्रश्रे उत्तरमिदम् । अत्र वृष्टिकाल उपदेश्यः, सच दुर्ज्ञानत्वात् शाखाग्रं प्रति द्विकलश्चन्द्र इतिवत् प्रज्ञानं किञ्चिदव लम्ब्यैव ज्ञाप्यः । जपोऽत्र प्रज्ञानम्, तत्र जपकाले पर्जन्यः प्रावर्षदिति सम्भवति । हेतुभूत जपो ह्यत्र लक्षणम्, हेतुत्वञ्च पूर्वकालवृत्तित्वघटितम् । एवञ्च वर्षहेतुभूतवरुणजपोत्तरकाले